मुग्धे धानुष्कता केयमपूर्वा त्वयि दृश्यते।
यया विध्यसि चेतांसि गुणैरेव न सायकैः॥ 1 ॥
कृष्णार्जुनानुरक्तापि दृष्टिः कर्णावलम्बिनी।
याति विश्वसनीयत्वं कस्य ते कलभाषिणि॥ 2 ॥
स्मितपुष्पोद्गमोऽयं ते दृश्यतेऽधरपल्लवे।
फलं तु जातं मुग्धाक्षि चक्षुषोर्मम पश्यतः॥ 3 ॥
अपूर्वं चौर्यमभ्यस्तं त्वया चञ्चललोचने।
दिवैव जाग्रतां पुंसां चेतो हरसि दूरतः॥ 4 ॥
कुतः कुवलयं कर्णे करोषि कलभाषिणि।
किमपाङ्गमपर्याप्तमस्मिन्कर्मणि मन्यसे॥ 5 ॥
दृष्टिं देहि पुनर्बाले कमलायतलोचने।
श्रूयते हि पुरा लोके विषस्य विषमौषधम्॥ 6 ॥
विभ्रमैर्विश्वहृद्यैस्त्वं विद्ययाप्यनवद्यया।
केनापि हेतुना मन्ये प्राप्ता विद्याधरी क्षितिम्॥ 7 ॥
त्वदङ्गमार्दवे दृष्टे कस्य चित्ते न भासते।
मालतीशशभृल्लेखाकदलीनां कठोरता॥ 8 ॥
बिम्बोष्ठ एव रागस्ते तन्वि पूर्वमदृश्यत।
अधुना हृदयेऽप्येष मृगशावाक्षि दृश्यते॥ 9 ॥
पातालमिव ते नाभिः स्तनौ क्षितिधरोपमौ।
वेणीदण्डः पुनरयं कालिन्दीपातसन्निभिः॥ 10 ॥
अनङ्गोऽयमनङ्गत्वमद्य निन्दिष्यति ध्रुवम्।
यदनेन न सम्प्राप्तः पाणिस्पर्शोत्सवस्तव॥ 11 ॥
कमले कमलोत्पत्तिः श्रूयते न च दृश्यते।
बाले तव मुखाम्भोजे दृष्टमिन्दीवरद्वयम्1॥ 12 ॥
आकर्णय सरोजाक्षि वचनीयमिदं भुवि।2
शशाङ्कस्तव वक्त्रेण पामरैरुपमीयते॥ 13 ॥
नीतानामा3कुलीभावं 4लुब्धैर्भूरिशि5लीमुखैः।
सदृशे 6वनवृद्धानां 7कमलानां त्वदीक्षणे॥ 14 ॥
यन्मध्यदेशादपि ते सूक्ष्मं लोलाक्षि दृश्यते।
मृणालसूत्रमपि ते न संमाति स्तनान्तरे॥ 15 ॥
अनयोरनवद्याङ्गि स्तनयोर्जृम्भमाणयोः।
अवकाशो न पर्याप्तस्तव बाहुलतान्तरे॥ 16 ॥
निर्णेतुं शक्यमस्तीति मध्यं तव नितम्बिनि।
अन्यथा नोपपद्येत पयोधरभरस्थितिः॥ 17 ॥
राकाविभावरीकान्तसंक्रान्तद्युति ते मुखम्।
तपनीयशिलाशोभी कटिश्च हरते मनः॥ 18 ॥
आक्षिपन्त्यरविन्दानि मुग्धे तव मुखश्रियम्।
कोषदण्डसमग्राणां किमेषामस्ति दुष्करम्॥ 19 ॥
आवर्त एव नाभिस्ते नेत्रे नीलसरोरुहे।
तरङ्गा वलयस्तेन त्वं लावण्याम्बुवापिका॥ 20 ॥
साहजिकरूपवत्या भवति भवत्या विभूषणं भारः।
सर्वाङ्गसौरभिण्या दमनकवल्ल्याः किमालि कुसुमेन॥ 21 ॥
इन्दुः किं क्व कलङ्कः सरसिजमेतत्किमम्बु कुत्र गतम्।
ललितसविलासवचनैर्मुखमिति हरिणाक्षि निश्चितं परतः॥ 22 ॥
आरुह्य शैलशिखरं त्वद्वदनापहृतकान्तिसर्वस्वः।
8पूत्कर्तुमिवोर्ध्वकरः स्थितः पुरस्तान्निशानाथः॥ 23 ॥
कौटिल्यं कचनिचये करचरणाधरदलेषु रागस्ते।
काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति॥ 24 ॥
आक्षिपसि 9कर्णमक्ष्णा 10बलिरपि बद्धस्त्वया त्रिधा मध्ये।
इति जित11सकलवदान्ये तनुदाने लज्जसे सुतनु॥ 25 ॥
(10. वलिनामा दैत्यः; (पक्षे बवयोः सावर्ण्यात्) वलिः वलित्रितयम्.)
नयननिपातेऽङ्कुरितः पल्लवितो वचसि पुष्पितो हसिते।
फलतु कृशाङ्गि तवाङ्गस्पर्शेन मनोरथोऽस्माकम्॥ 26 ॥
उचितं गोपनमनयोः कुचयोः कनकाद्रिकान्तितस्करयोः।
अवधीरितविधुमण्डलमुखमण्डलगोपनं किमिति॥ 27 ॥
वदनेन निर्जितं तव निलीयते चन्द्रबिम्बमम्बुधरे।
अरविन्दमपि च सुन्दरि निलीयते 1पाथसां पूरे॥ 28 ॥
सत्यं तपः सुगत्यै यत्तप्त्वाम्बुषु रविप्रतीक्षं सत्।
अनुभवति सुगतिमब्जं त्वत्पदजन्मनि समस्तकमनीयम्॥ 29 ॥
दलदमलकोमलोत्पलपलाशशङ्काकुलोऽयमलिपोतः।
तव लोचनयोरनयोः परिसनमनुवेलमनुसरति॥ 30 ॥
तव कुवलयाक्षि वक्षसि कुण्डलिता कापि काञ्चनी कान्तिः।
कुसुमेषोर्विजिगीषोर्भवति च भवतीह भूयसी कण्डुः॥ 31 ॥
कम्बुकण्ठि चरणः शनैश्चरो राहुरेष तव केशकलापः।
न च्युतं तदपि यौवनमेतत्सा पयोधरगुरोरनुकम्पा॥ 32 ॥
कमलाक्षि विलम्ब्यतां क्षणं कमनीये कचभारबन्धने।
दृढलग्नमिदं दृशोर्युगं शनकैरद्य समुद्धराम्यहम्॥ 33 ॥
अयि मन्मथचूतमञ्जरि श्रवणायतचारुलोचने।
अपहृत्य मनः क्व यासि तत्किमराजकमत्र राजते॥ 34 ॥
भवत्कृते खञ्जनमञ्जुलाक्षि शिरो मदीयं यदि याति यातु।
नीतानि नाशं जनकात्मजार्थं दशाननेनापि दशाननानि॥ 35 ॥
ताम्बूलरागोऽधरलोलुपो यद्यदञ्जनं लोचनचुम्बनोत्सुकम्।
हरश्च कण्ठग्रहलालसो यत्स्वार्थः स तेषां न तु भूषणं ते॥ 36 ॥
यत्पद्ममादित्सु तवाननीयां कुरङ्गलक्ष्मा च मृगाक्षि लक्ष्मीम्।
एकार्थलिप्साकृत एव मन्ये शशाङ्कपङ्केरुहयोर्विरोधः॥ 37 ॥
सदा प्रदोषो मम याति जाग्रतः सदा च मे निःश्वसतो गता निशा।
त्वया समेतस्य विशाललोचने ममाद्य शोकान्तकरः प्रदोषकः॥ 38 ॥
तवाननं सुन्दरि फुल्लपङ्कजं स्फुटं जपापुष्पमसौ तवाधरः।
विनिद्रपद्मं तव लोचनद्वयं तवाङ्गमन्यत्किल पुष्पसञ्चयः॥ 39 ॥
प्रिये सदा पूर्णतरं मनोहरं ते निष्कलङ्कं मुखचन्द्रमण्डलम्।
विलोक्य सव्रीडतया निशापतिर्गतः प्रतप्तो जलधेर्जलान्तरम्॥ 40 ॥
त्वद्वर्तुलस्थूलसुवर्णकान्ति रम्यस्तनश्रीफलयुग्ममेतत्।
दृष्ट्वा वने श्रीफलमाकुलं किं लज्जाभिरालम्बितमेव वृक्षे॥ 41 ॥
जघान बाणैर्दशभिर्दशास्यशिरांसि सीताहरणे स रामः।
त्वदङ्गसङ्गाय सदानुरक्ते प्रयातु मे मस्तकमेकमेव॥ 42 ॥
शिखरिणि क्व नु नाम कियच्चिरं किमभिधानमसावकरोत्तपः।
सुमुखि येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः॥ 43 ॥
अनधिगतमनोरथस्य पूर्वं शतगुणितेन गता मम त्रियामा।
यदि तु तव समागमे तथैव प्रसरति सुभ्रु ततः कृती भवेयम्॥ 44 ॥
दलितकुचनखाङ्कमङ्कपालिं रचय ममाङ्कमुपेत्य पीवरोरु।
अनुहर हरिणाक्षि शंकराङ्कस्थितहिमशैलसुताविलासलक्ष्मीम्॥ 45 ॥
कुमुदकमलनीलनीरजालिर्ललितविलासजुषोर्दृशोः पुरः का।
अमृतममृतरश्मिरम्बुजन्म प्रतिहतमेकपदे तवाननस्य॥ 46 ॥
नारब्धं कुचपरिरम्भणेषु वाम्यं वैमुख्यं किमपि न चुम्बने कदाचित्।
किं नीवीगतमबले रुणत्सि पाणिं विक्रीते करिणि किमङ्कुशे विवादः॥ 47 ॥
दासे कृतागसि भवेदुचितः प्रभूणां पादप्रहार इति मानिनि 1नास्मि दूये।
उद्यत्कठोरपुलकाङ्कितकण्टकाग्रैर्यद्भिद्यते तव पदं ननु सा व्यथा मे॥ 48 ॥
बाले तवाधरसुधारसपानकाले चेतो मदीयमभिवाञ्छति शेषभावम्।2
3आलिङ्गने तव विरोचनपौत्रभावमाखण्डलत्वमखिलाङ्गनिरीक्षणे ते॥ 49 ॥4
एको हि खञ्जनवरो नलिनीदलस्थो दृष्टः करोति चतुरङ्गबलाधिपत्यम्।
किं वा करिष्यति भवद्वदनारविन्दे जानामि नो नयनखञ्जनयुग्ममेतत्॥ 50 ॥
कोपस्त्वया हृदि कृतो यदि पङ्कजाक्षि सोऽस्तु प्रियस्तव किमत्र विधेयमन्यत्।
आश्लेषमर्पय मदर्पितपूर्वमुच्चैर्दन्तक्षतं मम समर्पय चुम्बनं च॥ 51 ॥
म्लानस्य जीवकुसुमस्य विकासनानि सन्तर्पणानि सकलेन्द्रियमोहनानि।
एतानि ते सुवचनानि सरोरुहाक्षि कर्मामृतानि मनसश्च रसायनानि॥ 52 ॥
5मालिन्यमब्जशशिनोर्मधुलिट्कलङ्कौ धत्तो मुखे तु तव दृक्तिलकाञ्जनाभाम्।
दोषावितः6 क्वचन मेलनतो7 गुणत्वं वक्तुर्गुणो हि वचसि 8भ्रमविप्रलम्भौ॥ 53 ॥
पादास्त एव शशिनः सुखयन्ति गात्रं बाणास्त एव मदनस्य ममानुकूलाः।
सम्रम्भरूक्षमिव सुन्दरि यद्यदासीत्त्वत्सङ्गमेन मम तत्तदिवानुनीतम्॥ 54 ॥
पद्मातपत्ररसिके सरसीरुहस्य किं बीजमर्पयितुमिच्छसि वापिकायाम्।
कालः कलिर्जगदिदं न कृतज्ञमज्ञे स्थित्वा हरिष्यति मुखस्य तवैव लक्ष्मीम्॥ 55 ॥
त्वद्वक्त्रसाम्यमयमम्बुजको9शमुद्रा10भङ्गात्त11तत्सु12षममित्त्र13करोपक्लृप्त्या।
लब्ध्वापि पर्वणि विधुः क्रमहीयमानः शंसत्यनीत्युपचितां श्रियमाशुनाशाम्॥ 56 ॥
मृदुलकनककान्ति श्वाससौरभ्यरम्यं वदनकमलमेतन्नेत्रमत्तद्विरेफम्।
तव किमु सुसमीक्ष्य व्रीडया पद्मवृन्दं सरसि सलिलपूर्णे मर्तुकामं विवेश॥ 57 ॥
यः प्रागासीदभिनववयोविभ्रमावाप्तजन्मा चित्तोन्माथी विगतविषयोपप्लवानन्दसान्द्रः।
वृत्तीरन्तस्तिरयति तवाश्लेषजन्मा स कोऽपि प्रौढप्रेमा नव इव पुनर्मान्मथो मे विकारः॥ 58 ॥
गोत्रे साक्षादजनि भगवानेष यत्पद्मयोनिः शय्योत्थायं यदखिलमहः प्रीणयन्ति द्विरेफान्।
एकाग्रां यद्दधति भगवत्युष्णभानौ च भक्तिं तत्प्रापुस्ते सुतनु वदनौपम्भमम्भोरुहाणि॥ 59 ॥
उन्मेषं यो मम न सहते जातिवैरी निशायामिन्दोरिन्दीवरदलदृशा तस्य सौन्दर्यदर्पः।
नीतः शान्तिं प्रसभमनया वक्त्रकान्त्येति हर्षाल्लग्ना मन्ये ललिततनु ते पादयोः पद्मलक्ष्मीः॥ 60 ॥
हस्तस्वेदस्नपित इव यश्चन्दनक्षोदवृन्दैरालिप्तोऽलङ्कृतपरिसरः फुल्लकह्लारहारैः।
आराधीत्थं तव नवकुरङ्गाक्षि वक्षोजशंभुः साक्षात्कारं तदपि न दिशत्येष किं वा करोमि॥ 61 ॥
विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः।
तव स्पर्शे स्पर्शे मम हि परिमूढेन्द्रियगणो विकारश्चैतन्यं भ्रमयति च संमीलयति च॥ 62 ॥
स्मितज्योत्स्नाभिस्ते धवलयति विश्वं शशिमुखि दृशस्ते पीयूषद्रवमिव विमुञ्चन्ति परितः।
वपुस्ते लावण्यं किरति मधुरं दिक्षु तदिदं कुतस्ते पारुष्यं सुतनु हृदयेनाद्य गुणितम्॥ 63 ॥
स्तुमः कं वामाक्षि क्षणमपि विना यं न रमसे विलेभे कः प्राणान् रणमखमुखे यं मृगयसे।
सुलग्ने को जातः शशिमुखि यमालिङ्गसि बलात्तपःश्रीः कस्यैषा मदननगरि ध्यायसि तु यम्॥ 64 ॥
1पुराभूदस्माकं प्रथममविभिन्ना तनुरियं ततोऽनु त्वं प्रेयान्वयमपि हताशाः प्रियतमाः।
इदानीं नाथस्त्वं वयमपि कलत्रं किमपरं हतानां प्राणानां (2कुलिशकठिनानां फलमिदम्॥ 65 ॥2
दृशौ तव मदालसे वदनमिन्दुमत्यान्वितं गतिर्जनमनोरमा विधुतरम्भमूरुद्वयम्।
रतिस्तव कलावती रुचिरचित्रलेखे भ्रुवावहो विबुधयौवतं वहसि तन्वि पृथ्वीगता॥ 66 ॥
दिनकरकरामृष्टं बिभ्रद्द्युतिं परिपाटलां दशनकिरणैरुत्सर्पद्भिः स्फुटीकृतकेसरम्।
अयि मुखमिदं मुग्धे सत्यं समं कमलेन ते मधु मधुकरः किं त्वेतस्मिन्पिबन्न विभाव्यते॥ 67 ॥
बन्धूकद्युतिबान्धवोऽयमधरः स्निग्धो मधूकच्छविर्गण्डश्चण्डि चकास्ति नीलनलिनश्रीमोचनं लोचनम्।
नासाभ्येति तिलप्रसूनपदवीं कुन्दाभदन्ति प्रिये प्रायस्त्वन्मुखसेवया विजयते विश्वं स पुष्पायुधः॥ 68 ॥
केशाः 1संयमिनः 2श्रुतेरपि परं पारं गते लोचने ह्यन्तर्वक्त्रमपि स्वभावशुचिभिः कीर्णं 3द्विजानां गणैः।
4मुक्तानां सततं निवासरुचिरं वक्षोजकुम्भद्वयं चेत्थं तन्वि वपुः प्रशान्तमपि ते रागं करोत्येव नः॥ 69 ॥
5भ्रूचापे निहितः 6कटाक्षविशिखो निर्मातु मर्मव्यथां 7श्यामात्मा कुटिलः करोतु कबरीभारोऽपि मारोद्यमम्।
मोहं तावदयं च तन्वि तनुतां बिम्बाधरो रागवान्सद्वृत्तः स्तनमण्डलस्तव कथं प्राणैर्मम क्रीडति॥ 70 ॥
ये ये खञ्जनमेकमेव कमले पश्यन्ति दैवात्क्वचित्ते सर्वे कवयो भवन्ति सुतरां प्रख्यातभूमीभुजः।
त्वद्वक्त्राम्बुजनेत्रखञ्जनयुगं पश्यन्ति ये ये जनास्ते ते मन्मथबाणजालविकला मुग्धे किमत्यद्भुतम्॥ 71 ॥
धत्ते बर्हभरे शिखी तव न किं धम्मिल्लभारश्रियं सारङ्गो भजते न किं तव दृशोः सौभाग्यमालोकते।
मत्तेभश्च शिरःपदे वहति ते वक्षोजलक्ष्मीं न किं तन्मन्ये तरुणि त्वया विवृणुते साम्यं वनश्रीरियम्॥ 72 ॥
किं पद्मस्य रुचिं न हन्ति नयनानन्दं विधत्ते न किं वृद्धिं वा 8झषकेतनस्य कुरुते 9नालोकमात्रेण किम्।
वक्त्रेन्दौ तव सत्ययं यदपरः शीतांशुरु10ज्जृम्भते दर्पः स्यादमृतेन चेदिह तदप्यस्त्येव बिम्बाधरे॥ 73 ॥
लावण्यामृतवर्षिणि प्रतिदिशं कृष्णागरुश्यामले वर्षाणामिव ते पयोधरभरे तन्वङ्गि दूरोन्नते।
नासावंशमनोज्ञकेतकतनुर्भ्रूपत्त्रगर्भोल्लसत्पुष्पश्रीस्तिलकः सहेलमलकैर्भृङ्गैरिवापीयते॥ 74 ॥
अन्तःकूजदुदारकण्ठमसकृन्मुञ्चेति लोलेक्षणं प्रायः स्मेरकपोलमूलममृतप्रस्यन्दि बिम्बाधरम्।
आधूताङ्गुलिपल्लवाग्रमलमित्यानर्तितभ्रूलतं पीतं येन मुखं त्वदीयमबले सोऽयं हि धन्यो युवा॥ 75 ॥
हुङ्कारैर्ददता मया प्रतिवचो यन्मौनमासेवितं यद्दावानलदीप्तिभिस्तनुरियं चन्द्रातपैस्तापिता।
ध्यातं यत्सुबहून्यनन्यमनसा नक्तं दिनानि प्रिये तस्यैतत्तपसः फलं मुखमिदं पश्यामि यत्तेऽधुना॥ 76 ॥
काश्मीरद्रवगौरि हन्त किमयं भूयोऽङ्गरागे ग्रहः को वा नीलसरोरुहाक्षि नितरां नेत्राञ्जने सम्भ्रमः।
रक्ताशोकदलोपमेयचरणे किं लाक्षया दत्तया नो रागान्तरमीहते निजरुचा विभ्राजमानो मणिः॥ 77 ॥
तन्वि त्वद्वदनस्य विभ्रमलवं लावण्यवारांनिधेरिन्दुः सुन्दरि दुग्धसिन्धुलहरीबिन्दः कथं विन्दतु।
उत्कल्लोलविलोचने क्षणमयं शीतांशुरालम्बतामुन्मीलन्नवनीलनीरजवनीखेलन्मरालश्रियम्॥ 78 ॥
वेणीं ते प्रसमीक्ष्य चित्रकुसुमैरुद्भासितां बर्हिणो लज्जन्ते निजबर्हवृन्दमधिकं भारं विदित्वा प्रिये।
निर्याताः शनकैरिति स्वनिलयाद्दूरे निलीय स्थिताः पश्यैतानपि लज्जयेव मधुपान्वल्लीर्विहायोद्गतान्॥ 79 ॥