पदप्रणतमालोक्य कान्तमेकान्तकातरम्।
मुञ्चन्ती बाष्पसन्तानं सुमुखी तेन चुम्बिता॥ 1 ॥
इह स्फुटं तिष्ठति नाथ कण्टकः शनैः शनैः कर्ष नखाग्रलीलया।
इति च्छलात्काचिदलग्नकण्टकं पदं तदुत्सङ्गतले न्यवेशयत्॥ 2 ॥
निपपात सम्भ्रमभृतः श्रवणादसितभ्रुवः प्रणदितालिकुलम्।
दयितावलोकविकसन्नयनप्रसरप्रणुन्नमिव वारिरुहम्॥ 3 ॥
उपमेतुमुन्नतिमतेव दिवं कुचयोर्युगेन तरसा कलिताम्।
रभसोत्थितामुपगतः सहसा परिरभ्य कश्चन वधूमरुधत्॥ 4 ॥
अनुदेहमागतवतः प्रतिमां परिणायकस्य गुरुमुद्वहता।
मुकुरेण वेपथुभृतोऽतिभरात्कथमप्यपाति न वधूकरतः॥ 5 ॥
अवनम्य वक्षसि निमग्नकुचद्वितयेन गाढमुपगूढवता।
दयितेन तत्क्षणचलद्रशनाकलकिङ्किणीरवमुदासि वधूः॥ 6 ॥
कररुद्धनीवि दयितोपगतौ गलितं त्वराविरहितासनया।
क्षणदृष्टहाटकशिलासदृशस्फुरदूरुभित्ति वसनं ववसे॥ 7 ॥
पिदधानमन्वगुपगम्यदृशौ ब्रुवते जनाय वद कोऽयमिति।
अभिधातुमध्यवससौ न गिरा पुलकैः प्रियं नववधूर्न्यगदत्॥ 8 ॥
उदितोरुसादमतिवेपथुमत्सुदृशोऽभिभर्तृ विधुरं त्रपया।
वपुरादरातिशयशंसि पुनः प्रतिपत्तिमूढमपि बाढमभूत्॥ 9 ॥
परिमन्थराभिरलघूरुभरादधिवेश्म पत्युरुपचारविधौ।
स्खलिताभिरप्यनुपदं प्रमदाः प्रणयातिभूमिमगमन्गतिभिः॥ 10 ॥
मधुरोन्नतभ्रु ललितं च दृशोः सकरप्रयोगचतुरं च वचः।
प्रकृतिस्थमेव निपुणागमितं स्फुटनृत्यलीलमभवत्सुतनोः॥ 11 ॥
लोलांशुकस्य पवनाकुलितांशुकान्तं त्वद्दृष्टिहारि मम लोचनबान्धवस्य।
अध्यासितुं तव चिरं जघनस्थलस्य पर्याप्तमेव करभोरु ममोरुयुग्मम्॥ 12 ॥
सुतनु 1जहिहि मौनं पश्य पादानतं मां न खलु तव कदाचित्कोप एवं विधोऽभूत्।
इति निगदति नाथे तिर्यगामीलिताक्ष्या नयनजलमनल्पं मुक्तमुक्तं न किञ्चित्॥ 13 ॥2
वचोवीचीदानं स्फुरदधरपानं विविनयं कृशीभूते माने मयि मृगयमाणे मृगदृशः।
बभूव भ्रूगङ्गः सनयनतरङ्गः सपदि यः प्रभुत्वं व्यातेन जगदुपरि तेनेह मदनः॥ 14 ॥
तदेवाजिह्माक्षं मुखमविशदस्ता गिर इमाः स एवाङ्गश्लेषो मयि सरसमाश्लिष्यति तनुम्।
तदुक्तं प्रत्युक्तं यदपटु शिरःकम्पनपरं प्रिया मानेनेयं पुनरपि कृता मे नववधूः॥ 15 ॥
दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादरादेकस्या नयने निमील्य विहितः क्रीडानुबन्धच्छलः।
ईषद्वक्रितकन्धरः सपुलकः प्रेमोल्लसन्मानसामन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति॥ 16 ॥
आगत्य प्रणिपातसान्त्वितसखीदत्तान्तरे सागसि स्वैरं कुर्वति तल्पपार्श्वनिभृते धूर्तेऽङ्गसंवाहनम्।
ज्ञात्वा स्पर्शवशात्प्रियं किल सखीभ्रान्त्या स्वमञ्चं शनैः खिन्नासीत्यभिधाय मीलितदृशा सानन्दमारोपितः॥ 17 ॥
सत्यं दुर्लभ एष वल्लभतरो रागो ममास्मिन्पुनः कोपोऽस्यातिगुरुर्न चातिनिपुणाः सख्योऽपि सम्बोधने।
सञ्चिन्त्येति मृगीदृशा प्रियतमे दृष्टे श्लथां मेखलां बध्नन्त्या न गतं स्थितं न च चलद्वासोऽथवा संवृतम्॥ 18 ॥
वाचो वाग्मिनि किं तवाद्य परुषाः सुभ्रु भ्रुवो विभ्रमोऽप्युद्भ्रान्तः कृत एष लोलनयने किं लोहिते लोचने।
नास्त्यागो मयि किं मुधैव कुपितेत्युक्ते पुनः प्रेयसा मानिन्या जलबिन्दुदन्तुरपुटा दृष्टिः सखीष्वाहिता॥ 19 ॥
सा यावन्ति पदान्यलीकवचनैरालीजनैः पाठिता तावन्त्येव कृतागसो द्रुततरं सम्लप्य पत्युः पुरः।
प्रारेभे पुरतो यथा मनसिजस्येच्छा तथा वर्तितुं प्रेम्णो मौग्ध्यविभूषणस्य सहजः कोऽप्येष कान्तः क्रमः॥ 20 ॥
दृष्टे लोचनवन्मनाङ्मुकुलितं पार्श्वस्थिते वक्त्रवन्न्यग्भूतं बहिरासितं पुलकवत्स्पर्शं समातन्वति।
नीवीबन्धवदागतं शिथिलतां सम्भाषमाणे क्षणान्मानेनापसृतं ह्रियेव सुदृशः पादस्पृशि प्रेयसि॥ 21 ॥
एकस्मिञ्शयने पराङ्मुखतया वीतोत्तरं ताम्यतोरन्योन्यस्य हृदि स्थितेऽप्यनुनये संरक्षतोर्गौरवम्।
दम्पत्योः शनकैरपाङ्गवलनान्मिश्रीभवच्चक्षुषोर्भग्नो मानकलिः सहासरभसव्यासक्तकण्ठग्रहः॥ 22 ॥
कृत्वा विग्रहमश्रुपातकलुषं शय्यासनादुत्थिता क्रोधाच्चापि विहाय गर्भभवनद्वारं रुषा प्रस्थिता।
दृष्ट्वा चन्द्रमसं प्रभाविरहितं प्रत्यूषवाताहता हा रात्रिस्त्वरिता गतेति पतिता कान्ता प्रियस्योरसि॥ 23 ॥
पश्यामः किमियं प्रपद्यत इति स्थैर्यं1मयालम्बितं किं मां नालपतीत्ययं खलु शठः कोपस्तयाप्याश्रितः।
इत्यन्योन्यविलक्षदृष्टिचतुरे तस्मिन्नवस्थान्तरे सव्याजं हसितं मया धृतिहरो मुक्तस्तु बाष्पस्तया॥ 24 ॥
चक्षुर्लुप्तमषीकणं कवलितास्ताम्बूलरागोऽधरे विश्रान्ता कबरी कपोलफलके लुप्तेव गात्रद्युतिः।
जाने सम्प्रति मानिनि प्रणयिना कैरप्युपायक्रमैर्भग्नो मानमहातरुस्तरुणि ते चेतःस्थलीवर्धितः॥ 25 ॥
तस्याः सान्द्रविलेपनस्तनयुगप्रश्लेषमुद्राङ्कितं किं वक्षश्चरणानतिव्यतिकरव्याजेन गोपाय्यते।
इत्युक्ते क्व तदित्युदीर्य सहसा तत्सम्प्रमार्ष्टुं मया सम्श्लिष्टा रभसेन तत्सुखवशात्तन्व्यापि तद्विस्मृतम्॥ 26 ॥
नापेतोऽनुनयेन यः प्रियसुहृद्वाक्यैर्न यः संहृतो यो दीर्घं दिवसं विषह्य हृदये यत्नात्कथञ्चिद्धृतः।
अन्योन्यस्य हृते मुखे विहितयोस्तिर्यक्कथञ्चिद्दृशोः सम्भेदे सपदि स्मितव्यतिकरे मानो विहस्योज्झितः॥ 27 ॥
शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनैर्निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम्।
विश्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता॥ 28 ॥
कान्ते घोरकृतान्तवक्त्रकुहरात्त्वं पुण्यपुञ्जेन मे मुक्ता कृन्त तदर्जनश्रमभरं प्रत्यङ्गमालिङ्ग्य माम्।
इत्याकर्ण्य निमीलितार्धनयनं स्मेरं शनैरानतं सोल्लासं वदनाम्बुजं मृगदृशः स्वैरं चुचुम्बे प्रियः॥ 29 ॥
एकस्मिञ्शयने सरोरुहदृशोर्विज्ञाय निद्रां तयोरेकां पल्लवितावगुण्ठनवतीमुत्कन्धरो दृष्टवान्।
अन्यस्याः सविधं समेत्य निभृतव्यालोलहस्ताङ्गुलिव्यापारैर्वसनाञ्चलं चपलयन्स्वापच्युतिं क्लृप्तवान्॥ 30 ॥
लीलातामरसाहतोऽन्यवनितानिःशङ्कदष्टाधरः कश्चित्केसरदूषितेक्षण इव व्यामील्य नेत्रे स्थितः।
मुग्धा कुङ्मलिताननेन दधती वायुं स्थिता तस्य सा भ्रान्त्या धूर्ततया च वेपथुमती तेनानिशं चुम्बिता॥ 31 ॥
जाता नोत्कलिका स्तनौ न लुलितौ गात्रं न रोमाञ्चितं वक्त्रं स्वेदकणाञ्चितं न सहसा यावच्छठेनामुना।
दृष्टेनैव मनो हृतं धृतिमुषा प्राणेश्वरेणाद्य मे तत्केनापि निरूप्यमाणनिपुणो मानः समाधीयताम्॥ 32 ॥