भवति विततश्वासोन्नाहप्रणुन्नपयोधरं हृदयमपि च स्निग्धं चक्षुर्निजप्रकृतौ स्थितम्।
तदनु वदनं मूर्च्छाच्छेदात्प्रसादि विराजते परिगतमिव प्रारम्भेऽह्नः श्रिया सरसीरुहम्॥ 1 ॥
आविर्भूते शशिनि तमसा मुच्यमानेव रात्रिर्नैशस्यार्चिर्हुतभुज इव छिन्नभूयिष्ठधूमा।
1मोहेनान्तर्वरतनुरियं लक्ष्यते मुक्तकल्पा गङ्गा रोधःपतनकलुषा गृह्णतीव प्रसादम्॥ 2 ॥2
कुरङ्गीवाङ्गानि स्तिमितयति गीतध्वनिषु यत्सखीं कान्तोदन्तं श्रुतमपि पुनः प्रश्नयति यत्।
अनिद्रं यश्चान्तः स्वपिति तदहो वेद्म्यभिनवां प्रवृत्तोऽस्या सेक्तुं हृदि मनसिजः प्रेमलतिकाम्॥ 3 ॥
परिम्लाने माने मुखशशिनि तस्याः करधृते मयि क्षीणोपाये प्रणिपतनमात्रैकशरणे।
तया पक्ष्मप्रान्तव्रजपुटनिरुद्धेन सहसा प्रसादो बाष्पेण स्तनतटविशीर्णेन कथितः॥ 4 ॥
कृष्णस्निग्धकनीनिके विकसतः कर्णान्तदीर्घे दृसावुत्कम्पो हृदयस्य वेपितकुचाभोगः शनैः शाम्यति।
धत्ते शीतरुचो विधुंतुदमुखान्मुक्तस्य लक्ष्मीमिदं मुग्धाङ्ग्या विगलद्विमोहतिमिरं वक्त्रं प्रसीदत्क्रमात्॥ 5 ॥