सार्धं मनोरथशतैस्तव धूर्त कान्ता सैव स्थिता मनसि कृत्रिमभावरम्या।
अस्माकमस्ति न कथञ्चिदिहावकाशस्तस्मात्कृतं1 चरणपातविडम्बनाभिः॥ 1 ॥
तदवितथमवादीर्यन्मम त्वं प्रियेति प्रियजनपरिभुक्तं यद्दुकूलं दधानः।
मदधिवसति मागाः कामिनां मण्डनश्रीर्व्रजति हि सफलत्वं वल्लभालोकनेन॥ 2 ॥
यदा त्वं चन्द्रोऽभूः शिशिरकरसम्पर्करुचिरस्तदाहं जाता द्राक्शशधरमणीनां प्रतिकृतिः।
इदानीमर्कस्त्वं खररुचिसमुत्सारितरसः किरन्ती कोपाग्नीनहमपि रविग्रावघटिता॥ 3 ॥
तवेदं पश्यन्त्याः प्रसरदनुरागं बहिरिव प्रियापादालक्तच्छुरितमरुणद्योतिहृदयम्।
ममाद्य प्रख्यातप्रणयभरभङ्गेन कितव त्वदालोकः शोकादपि किमपि लज्जां जयनति॥ 4 ॥
कृतककृतकैर्मायाशाठ्यैस्त्वयाप्यतिवर्तितं निभृतनिभृतैः कार्यालापैर्मयाप्युपलक्षितम्।
भवतु विदितं नेष्टा तेऽहं वृथा परिखिद्यते अहमसहना त्वं निःस्नेहः समने समं गतम्॥ 5 ॥
कोपो यत्र भ्रुकुटिरचना निग्रहो यत्र मौनं यत्रान्योन्यस्मितमनुनयो दृष्टिपातः प्रसादः।
तस्य प्रेम्णस्तदिदमधुना वैशसं पश्य जातं त्वं पादान्ते लुठसि न च मे मन्युमोक्षः खलायाः॥ 6 ॥
2बाले नाथ विमुञ्च मानिनि रुषं रोषान्मया किं कृतं खेदोऽस्मासु न मेऽपराध्यति भवान्सर्वेऽपराधा मयि।
तत्किं रोदिषि गद्गदेन वचसा कस्याग्रतो रुद्यते नन्वेतन्मम का तवास्मि दयिता नास्मीत्यतो रुद्यते॥ 7 ॥
किं किं वक्त्रमुपेत्य चुम्बसि बलान्निर्लज्ज लज्जा क्व ते वस्त्रान्तं शठ मुञ्च मुञ्च शपथैः किं धूर्त वाग्बन्धनैः।
खिन्नाहं तव रात्रिजागरवशात्तामेव याहि प्रियां निर्माल्योज्झितपुष्पदामनिकरे का षट्पदानां रतिः॥ 8 ॥
साहारं वचनं प्रयच्छसि न मे नो वाञ्छितं यच्छसि प्रायः प्रोच्छ्वसिषि द्रुतं हुतवहज्वालासमं रात्रिषु।
कण्ठाश्लेषपरिग्रहे शिथिलिता यन्नादराच्चुम्बसे तत्ते धूर्त हृदि स्थिता प्रियतमा काचिन्ममेवापरा॥ 9 ॥
सत्यं तद्यदवोचथा मम महान्रागस्त्वदीयादिति त्वं प्राप्तोऽसि विभात एव सदनं मां द्रष्टुकामो यतः।
रागं किं च बिभर्षि नाथ हृदये काश्मीरपत्त्रोदितं नेत्रे जागरजं ललाटफलके लाक्षारसापादितम्॥ 10 ॥
रोहन्तौ प्रथमं ममोरसि तव प्राप्तौ विवृद्धिं स्तनौ सल्लापास्तव वाक्यभङ्गमलिना मौग्ध्यं परं त्याजिताः।
धात्रीकण्ठमपास्य बाहुलतिके कण्ठे तवासञ्जिते निर्दाक्षिण्य करोमि किं नु विशिखाप्येषा(?)न पन्थास्तव॥ 11 ॥
अज्ञानेन पराङ्मुखीं परिभवादाश्लिष्य मां दुःखितां किं लब्धं चटुल त्वयेह नयता सौभाग्यमेतां दशाम्।
पश्यैतद्दयिताकुचव्यतिकरोन्मृष्टाङ्गरागारुणं वक्षस्ते मलतैलपङ्कशबलैर्वेणीपदैरङ्कितम्॥ 12 ॥