४१ नायकानुनयः

घनघनमपि दृष्टं व्योम वातो मरुत्वाञ्छिखिकुलकलवाचां श्रोत्रमासीन्निवासः।
1असुसम न मृताहं त्वद्वियोगेऽपि जाते तव घनपरिरम्भप्रार्थनाशावशेन॥ 1 ॥

मयि मलयसमीरो वर्षतीव स्फुलिङ्गानहह हिमकरो मामग्निना सिञ्चतीव।
किमिति मकरकेतोः किं नु वक्ष्ये कठोरे कथमपि तदहं ते नाथ नोपेक्षणीया॥ 2 ॥
त्वं तावद्बहुवल्लभो नवयुवा कान्तः सुखी निर्घृणो नो जानासि परव्यथां शठमते नैवासि दुःखी यतः।
किं त्वन्याः परिपृच्छ मन्मथशरैः पीडामसह्यामिमां त्राता नो भव येन सज्जनजनैः कापालिको नोच्यसे॥ 3 ॥
मुक्तो मानपरिग्रहः सह सखीसार्थेन तन्मन्त्रिणा शक्ता त्वच्चरणप्रसादरहिता नाहं क्षणं प्राणितुम्।
पश्य त्वं कृशकं शरीरकमिदं यां यामावस्थां गतं सैषाहं तव पादयोर्निपतिता नाथ प्रसीदाधुना॥ 4 ॥


  1. हे प्राणसम. ↩︎