उपचारानुनयास्ते कितवस्योपेक्षिताः सखीवचसा।
अधुना निष्ठुरमपि यदि स वदति कलिकैतवाद्यामि॥ 1 ।
प्रयाहि तत्रैव ययानुरज्यसे किमत्र निस्त्रिंश तव प्रयोजनम्।
न कञ्चुकग्रन्थिमपाकुरुष्व मे कथं हृदि ग्रन्थिमपाकरिष्यसि॥ 2 ॥
अकरोः किमु नेत्रशोणिमानं किमकार्षीः करपल्लवावरोधम्।
कलहं किमधाः क्रुधा रसज्ञे हितमर्थं न विदन्ति दैवदष्टाः॥ 3 ॥
स्फुरसि बाहुलते किमनर्थकं त्वमपि लोचनभावमहो गता।
तमहमागतमप्यपराधिनं न परिरब्धुमलं न च वीक्षितुम्॥ 4 ॥
मानोन्नतेत्यसहनेत्यतिपण्डितेति मय्येव धिक्कृतिरनेकमुखी सखीनाम्।
दाक्षिण्यमात्रमसृणेन विचेष्टितेन धूर्तस्य तस्य हि गुणानुपवर्णयन्ति॥ 5 ॥
नवनखपदभङ्गं गोपयस्यंशुकेन स्थगयसि पुनरोष्ठं पाणिना दन्तदष्टम्।
प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्पन्नवपरिमलगन्धः केन शक्यो वरीतुम्॥ 6 ॥
इदं कृष्णं कृष्णं प्रियतम ननु श्वेतमथ किं गमिष्यामो यामो भवतु गमनेनाथ भवतु।
पुरा येनैवं मे चिरमनुसृता चित्तपदवी स एवान्यो जातः सखि परिचिताः कस्य पुरुषाः॥ 7 ॥
कथमपि सखि क्रीडाकोपाद्व्रजेति मयोदिते कठिनहृदयस्त्यक्त्वा शय्यां बलाद्गत एव सः।
इति सरभसध्वस्तप्रेम्णि 1व्यपेतघृणे स्पृहां पुनरपि हतव्रीडं चेतः2 करोति करोमि किम्॥ 8 ॥
अद्यारभ्य यदि प्रिये पुनरहं मानस्य चान्यस्य वा गृह्णीयां शठदुर्नयेन मनसा नामापि सङ्क्षोभतः।
तत्तेनैव विना शशाङ्ककिरणस्पष्टाट्टहासा निशा एको वा दिवसः पयोदमलिनो भूयान्मम प्रावृषि॥ 9 ॥
मानव्याधिनिपीडिताहमधुना शक्नोमि तस्यान्तिकं नो गन्तुं न सखीजनोऽपि चतुरो यो मां बलान्नेष्यति।
मानी सोऽपि जनो न लाघवभयादभ्येति मातः स्वयं कालो याति चलं च जीवितमिदं क्षुण्णं मनश्चिन्तया॥ 10 ॥
निःश्वासा वदनं दहन्ति हृदयं निर्मूलमुन्मूल्यते निद्रा नैति न दृश्यते प्रियमुखं नक्तं दिनं रुद्यते।
अङ्गं शोषमुपैति पादपतितः प्रेयांस्तथोपोक्षितः सख्यः कं गुणमाकलय्य दयिते मानं वयं कारिताः॥ 11 ॥
तद्वक्त्राभिमुखं मुखं विनमितं दृष्टिः कृता पादयोस्तस्यालापकुतूहलाकुलतरे श्रोत्रे निरुद्धे मया।
पाणिभ्यां च तिरस्कृतः सपुलकः स्वेदोद्गमो गण्डयोः सख्यः किं करवाणि यान्ति शतशो यत्कञ्चुके सन्धयः॥ 12 ॥
नो चाटु श्रवणं कृतं न च दृशा हारोऽन्तिके वीक्षितः कान्तस्य प्रियहेतवे निजसखीवाचोऽपि दूरीकृताः।
पादान्ते विनिपत्य तत्क्षणमसौ गच्छन्मया मूढया पाणिभ्यामवरुध्य हन्त सहसा कण्ठे कथं नार्पितः॥ 13 ॥
भर्तुर्यस्य कृते गुरुर्लघुरभूद्गोष्ठी कनिष्ठीकृता धैर्यं कोषधनं गतं सहचरी नीतिः कृता दूरतः।
निर्मुक्ता तृणवत्त्रपा परिचिता स्रोतस्विनी बिन्दुवत्स क्रोधादवधीरितो हतधिया मातर्बलीयान्विधिः॥ 14 ॥
यत्पङ्केरुहलक्ष्म पाणिकमलं भाग्यालये यद्गुरुर्न्यस्तं वा मम यल्ललाटफलके भाग्याक्षरं वेधसा।
तत्सर्वं सखि यो यथार्थमकरोत्तस्मिन्प्रकोपः कृतो धिङ् मां धिङ् मम जीवितं धिगतनुं धिक्चेष्टितं धिग्वयः॥ 15 ॥
केकाभिः कलयन्तु केकिनिवहाः सम्भूय कर्णज्वरं विद्युद्भिः सह भीषयन्तु परितः पाथोधराणां घटाः।
पञ्चेषुर्बधिरीकरोतु ककुभः सर्वाः शराणां रवैर्नाहं दग्धदुरन्तजीवनकृते कस्यापि वश्या सखि॥ 16 ॥