मुग्धे मानं न ते कर्तुं युक्तं प्राणाधिके प्रिये।
धत्से मत्सी कियत्कालं जीवितं जीवनं विना॥ 1 ॥
कुपितासि यदा तन्वि निधाय करजक्षतम्।
बधान भुजपाशाभ्यां कण्ठमस्य दृढं तदा॥ 2 ॥
स्मेरराजीवनयने नयने किं निमीलिते।
पश्य निर्जितकन्दर्पं कन्दर्पवशगं प्रियम्॥ 3 ॥
रमणे चरणप्रान्ते प्रणतिप्रवणेऽधुना।
वदामि सखि ते तत्त्वं कदाचिन्नोचिताः क्रुधः॥ 4 ॥
यदि कुप्यसि नास्ति रतिः कोपेन विनाथवा कुतः कामः।
कुप्य च कोपय च त्वं प्रसीद च त्वं प्रसादय च कान्तम्॥ 5 ॥
अरुणे च तरुणि नयने तव मलिनं च प्रियस्य मुखम्।
मुखमानतं च सखि ते ज्वलितश्चास्यान्तरे स्मरज्वलनः॥ 6 ॥
अञ्चति रजनिरुदञ्चति तिमिरमिदं चञ्चति मनोभूः।
उक्तं न त्यज युक्तं विरचय रक्तं मनस्तस्मिन्॥ 7 ॥
विदयलिमलिनाम्बुगर्भमेघं मधुकरकोकिलकूजितैर्दिशां श्रीः।
धरमिरभिनवाङ्कुराङ्कटङ्का प्रणतिपरे दयिते प्रसीद मुग्धे॥ 8 ॥
जहीहि कोपं दयितोऽनुगम्यतां पुरोनुशेते तव चञ्चलं मनः।
इति प्रियं काञ्चिदुपैतुमिच्छतीं पुरानुनिन्ये निपुणः सखीजनः॥ 9 ॥
सभयचकितं विन्यस्यन्तीं दृशं तिमिरे पथि प्रतितरु मुहुः स्थित्वा मन्दं पदानि वितन्वतीम्।
कथमपि रहःप्राप्तामङ्गैरनङ्गतरङ्गिभिः सुमुखि सुभगः स त्वां पश्यन्नुपैतु कृतार्थताम्॥ 10 ॥
चपलहृदये किं स्वातन्त्र्यात्स्वयं गृहमागतश्चरणपतितः प्रेमार्द्रार्द्रः प्रियः समुपेक्षितः।
तदिदमधुना यावज्जीवं निरस्तसुखोदया रुदितशरणा दुर्जातानां सहस्व रुषां फलम्॥ 11 ॥
लिखन्नास्ते भूमिं बहिरवनतः1 प्राणदयितो 2निराहाराः सख्यः 1सततरुदितोच्छूनयनाः।
परित्यक्तं सर्वं हसितपठितं पञ्जरशुकैस्तवास्था चेयं विसृज 2कठिने मानमधुना॥ 12 ॥
असद्वृत्तो नायं न च खलु गुणैरेव रहितः प्रियो 3मुक्ताहारस्तव चरणमूले निपतितः।
गृहाणैनं मुग्धे व्रजतु तव कण्ठप्रणयितामुपायो नास्त्यन्यस्तव 4हृदयदाहोपशमने॥ 13 ॥
अनालोच्य प्रेम्णः परिणतिमनादृत्य सुहृदस्त्वयाकाण्डे मानः किमिति सरले सम्प्रति कृतः।
समाकृष्टा ह्येते प्रलयदहनोद्भासुरशिखाः स्वहस्तेनाङ्गारास्तदलमधुनारण्यरुदितैः॥ 14 ॥
अयेऽस्तमयते शशी नहि कृशीभवत्याग्रहो विनश्यति तमो हठं किमणुमप्यपास्ते मनः।
सखि प्रकटितोऽरुणो न करुणोदयस्ते मनाक्प्रयाति खलु यामिनी न विमनीकृथा नायकम्॥ 15 ॥
आयातः कुमुदेश्वरोविजयते सर्वेश्वरो मारुतो भृङ्गः स्फूर्जति भैरवो न निकटं प्राणेश्वरो मुञ्चति।
एते सिद्धरसाः प्रसूनविशिखो वैद्योऽनवद्योत्सवो मानव्याधिरयं कृशोदरि कथं त्वच्चेतसि स्थास्यति॥ 16 ॥
मानं मानिनि मुञ्च मानसभुवः साम्राज्यमुज्जृम्भतां हा हा गच्छति यामिनी न समयो यातः पुनः प्राप्यते।
अत्यल्पागसि कल्पिताधिकमये कान्ते पदान्तानते कोऽयं कोकिलवाणि केलिसमये कोपस्त्वयालम्बितः॥ 17 ॥
स्निग्धे यत्परुषासि यत्प्रणमति स्तब्धासि यद्रागिणि द्वेषस्थासि यदुन्मुखे विमुखतां यातासि तस्मिन्प्रिये।
तद्युक्तं विपरीतकारिणि तव श्रीखण्डचर्चा विषं शीतांशुस्तपनो हिमं हुतवहः क्रीडामुदो यातनाः॥ 18 ॥
त्वां चित्तेन चिरं वहन्नयमतिश्रान्तो भृशं तापितः कन्दर्पेण च पातुमिच्छति सुधासंवादि बिम्बाधरम्।
अस्याङ्कं तदलङ्कुरु क्षणमिह भ्रूक्षेपलक्ष्मीलवक्रीते दासजनेऽपि सेवितपदाम्भोजे कुतः सम्भ्रमः॥ 19 ॥
मुग्धे किं नखरैः क्षिपस्यविरतं नेत्राम्बु मानोन्नते पश्यैनं चरणाग्रनम्रशिरसं स्वं कान्तमात्ताञ्जलिम्।
अप्यङ्के तव चेतसि प्रणयिनी प्राप्तेऽतिनिर्विण्णतामन्यासक्तमनस्युपेक्षितगता फूत्कृत्य रोदिष्यति॥ 20 ॥
मुग्धे मुग्धतयैव नेतुमखिलः कालः किमारभ्यते मानं धत्स्व धृतिं बधान ऋजुतां दूरे कुरु प्रेयसि।5
सख्यैवं प्रतिबोधिता प्रतिवचस्तामाह भीतानना नीचैः शंस हृदि स्थितो हि ननु मे प्राणेश्वरः श्रोष्यति॥ 21 ॥6
अङ्गुल्यग्रनखेन बाष्पसलिलं निक्षिप्य निक्षिप्य किं तूष्णीं रोदिषि कोपने बहुतरं फूत्कृत्य रोदिष्यसि।
यस्यास्ते पिशुनोपदेशवचनैर्मानेऽतिभूमिं गते निर्विण्णोऽनुनयं प्रति प्रियतमो 1मध्यस्थतामेष्यति॥ 22 ॥
नो तल्पं भजसे न जल्पसि सुधाधारानुकारा गिरो दृक्पातं कुरुषे न वा परिजने कोपप्रकाशच्छलात्।
इत्थं केतकगर्भगौरि दयिते कोपस्य सङ्गोपनं तत्स्यादेव न चेत्पुनः सहचरी कुर्वीत साचिस्मितम्॥ 23 ॥