३८ प्रणयकलहे नायिकानुनयः

अनिर्दयोपभोगस्य रूपस्य मृदुनः कथम्।
कठिनं खलुते चेतः शिरीषस्येव बन्धनम्॥ 1 ॥
किं त्वां भणामि विच्छेददारुणायासकारिणि।
कामं कुरु वरारोहे देहि मे परिरम्भणम्॥ 2 ॥
मयि ते पादपतिते किङ्करत्वमुपागते।
प्रिये कामातुरः कोपं कान्ते कोऽन्योऽपनेष्यति॥ 3 ॥
दाक्षिण्यं नाम बिम्बोष्ठि नायकानां कुलव्रतम्।
तन्मे दीर्घाक्षि ये प्राणास्ते त्वदाशानिबन्धनाः॥ 4 ॥
मुखमिन्दुर्यथा पाणिः पल्लवेन समः प्रिये।
वाचः सुधा इवोष्ठस्ते बिम्बतुल्यो मनोऽश्मवत्॥ 5 ॥
सोडुमलमस्मि नाहं सुन्दरि मन्दागमाद्विलम्बं ते।
पञ्चशरास्त्रहतं मां सञ्जीवय चारुगात्रि परिरम्भैः॥ 6 ॥
सकृदिव समर्प्य बाले मम हस्ते मदनघर्मतप्तस्य।
अपहरसे कुचकुम्भं तृषितकरादमृतकुम्भमिव॥ 7 ॥
अपराधी नूनमहं प्रसीद रम्भोरु विरम सम्रम्भात्।1
सेव्यो जनश्च कुपितः कथं नु दासो निरपराधः॥ 8 ॥

त्वामयमाबद्धाञ्जलि दासजनस्तमिममर्थमर्थयते।
स्वपिहि मया सह सुरतव्यतिकरखिन्नैव मा मैवम्॥ 9 ॥
सरले साहसरागं परिहर रम्भोरु मुञ्च सम्रम्भम्।
विरसं विरहायासं वोढुं तव चित्तमसहं मे॥ 10 ॥
क्षीणः क्षीणोऽपि शशी भूयो भूयोऽभिवर्धते नित्यम्।
विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु॥ 11 ॥
अङ्गानि खेदयसि किं शिरीषकुसुमपरिपेलवानि मुधा।
अयमीहितकुसुमानां सम्पादयिता तवास्ति दासजनः॥ 12 ॥
मधुधारेव न मुञ्चसि मानिनि रूक्षापि माधुरीं सहजाम्।
कृतमुखभङ्गापि रसं ददासि मम निम्नगा यथाम्भोधेः॥ 13 ॥
विराममेवानलयातितोषात्तथापि रोषारुणितेव दृष्टिः।
निशापतिः श्लिष्यति पश्चिमाशामये किमाशां विफलीकरोषि॥ 14 ॥
यदि प्रिये वेत्सि तव प्रभुं मामनन्यसाधारणदासमङ्घ्र्योः।
तदद्य वक्षो मम पात्रमस्तु स्वयंग्रहाश्लेषमहोत्सवानाम्॥ 15 ॥
उत्तरङ्गय कुरङ्गलोचने लोचने कमलगर्वमोचने।
अस्तु सुन्दरि कलिङ्गनन्दिनीवीचिडम्बरगभीरमम्बरम्॥ 16 ॥
शशिमुखि तव भाति भङ्गुरभ्रूर्युवजनमोहकरालकालसर्पः।
यदुदितभयभञ्जनाय यूनां त्वदधरसीधुसुधैव सिद्धमन्त्रः॥ 17 ॥
त्वयि निबद्धरतेः प्रियवादिनः प्रणयभङ्गपराङ्मुखचेतसः।
कमपराधलवं मयि पश्यसि त्यजसि मानिनि दासजनं यतः॥ 18 ॥
विसृज सुन्दरि सङ्गमसाध्वसं ननु चिरात्प्रभृति प्रणयोन्मुखे।
परिगृहाण गते सहकारतां त्वमतिमुक्तलताचरितं मयि॥ 19 ॥
मोहान्मया सुतनु पूर्वमुपेक्षितस्ते यो बाष्पबिन्दुरधरं परिबाधमानः।
तं तावदाकुटिलपक्ष्मविलग्नमद्य कान्ते प्रमृज्य विगतानुशयो भवामि॥ 20 ॥
मुग्धे विधेहि मयि निर्दयदन्तदंशं दोर्वल्लिबन्धनिबिडस्तनपीडनानि।
चण्डि त्वमेव मुदमुञ्चय पञ्चबाणचण्डालकाण्डदलनादसवः प्रयान्ति॥ 21 ॥
मा मा ससाध्वसमपेहि विलोलनेत्रे दासे जने किमिति सम्भ्रमकातरासि।
किं युज्यते बत मया चिरकाङ्क्षितस्य मध्ये वराङ्गि परिरम्भसुखस्य भङ्गः॥ 22 ॥
किं शीकरैः क्लमविमर्दिभिरार्द्रवातं सञ्चालयामि नलिनीदलतालवृन्तम्।
अङ्के विधाय चरणावुत पद्मताम्रौ संवाहयामि करभोरु यथासुखं ते॥ 23 ॥
आताम्रतामपनयामि विलक्ष एष लाक्षाकृतां चरणयोस्तव देवि मूर्ध्ना।
कोपोपरागजनितां तु मुखेन्दुबिम्बे हर्तुं क्षमो यदि परं करुणा मयि स्यात्॥ 24 ॥
1इन्दीवरेण नयनं मुखमम्बुजेन कुन्देन दन्तमधरं नवपल्लवेन।
अङ्गानि चम्पकदलैः स विधाय वेधाः कान्ते कथं घटितवानुपलेन चेतः।2॥ 25 ॥

किं मुक्तमासनमलं मयि सम्भ्रमेण नोत्थातुमित्थमुचितं मम तन्तुमध्ये।
दृष्टिप्रसादविधिमात्रहृतो जनोऽयमत्यादरेण किमिति क्रियते विलक्षः॥ 26 ॥
भुग्नालकं स्मितपराजितचन्द्रलेखं दृग्लीलया कुवलयश्रियमाददानम्।
एतन्मुखं दिविषदामपि दुर्निरीक्ष्यं तन्वङ्गिमामिव मुधा किमधःकरोषि॥ 27 ॥
लावण्यकान्तिपरिपूरितदिङ्मुखेऽस्मिन्स्मेरेऽधुना तव मुखे तरलायताक्षि।
क्षोभं यदेति न मनागपि तेन मन्ये सुव्यक्तमेव जलराशिरयं पयोधिः॥ 28 ॥
किं ते निसर्गरुचिरौ चरणौ कराभ्यां सम्वाहयामि नयने च तवाञ्जनेन।
किं रञ्जयामि किमु ते स्तनयोर्विचित्रां पत्रावलीं विरचयाम्यचिरेण तन्वि॥ 29 ॥
सुतनु जहिहि मौनं मुञ्च वाचो जडत्वं प्रणयिनि मयि कोपं किंकरे किं करोषि।
अथ यदि तव चित्ते सापराधोऽस्मि बाले निजभुजयुगवल्लीबन्धनं मां विधेहि॥ 30 ॥
किमपि किमपि शङ्के मङ्गलेभ्यो यदन्यद्विरमतु परिहासश्चण्डि पर्युत्सुकोऽस्मि।
कलयसि कलितोऽहं वल्लभे देहि वाचं भ्रमति हृदयमन्तर्विह्वलं निर्दयासि॥ 31 ॥
यदिदमगणयित्वा दुर्वहं श्रोणिभारं मदभिसरणलोभात्प्रस्थितं पद्मताम्रम्।
अयमहमभिवाञ्छाम्यप्रमृज्यैव पांसुं सुमुखि पदतलं ते चूडितुं चुम्बितुं च॥ 32 ॥
वितरय कुचयोस्त्वद्दर्शनोपक्रमाणां मदनशररुजानां शान्तये मामकीनाम्।
सकृदपि परिरम्भं सुभ्रु दोर्मूलकूलङ्कषघनपरिणाहख्यातयोरेतयोस्ते॥ 33 ॥
चरणकमलदासस्त्वेष सङ्कल्पसङ्गे सुमुखि यदभिधत्से त्वं बलात्कारधूर्तम्।
प्रसभविधृततर्षः पीडयाम्यात्मनैव द्विरद इव सरोजं पाणिमापाटलं ते॥ 34 ॥
विकिर धवलदीर्घापाङ्गसंसर्पि चक्षुः परिजनपथवर्तिन्यत्र किं सम्भ्रमेण।
स्मितमधुरमुदारं देवि मामालपोच्चैः प्रभवति मम पाण्योरञ्जलिः सेवितुं त्वाम्॥ 35 ॥
परिलुठति ललाटे भङ्गुरा भ्रूलता किं मदनजयपताकाविभ्रमं बिभ्रतीयम्।
स्फुरति च किमकाण्डे चण्डि बिम्बाधरोऽयं मृदुपवनविधूतोन्निद्रबन्धूकबन्धुः॥ 36 ॥
मुहुर्मुहूरवेक्षणं सरसमञ्जसा संस्तवः समुच्चलतरङ्गिणि प्रचुरनर्ममर्मस्पृहा।
मुहुर्निबिडनम्रता परिजनव्यपेक्षापि नो कुतः सुमुखि शिक्षिता कथय कोपरीतिस्त्वया॥ 37 ॥
तरङ्गय दृशोऽङ्गने पततु चित्रमिन्दीवरं स्फुटीकुरु रदच्छदं व्रजतु विद्रुमः श्वेतताम्।
क्षणं वपुरपावृणु स्पृशतु काञ्चनं कालिमामुदञ्चय मुखं मनाग्भवतु च द्विचन्द्रं नभः॥ 38 ॥
उदञ्चय दृगञ्चलं चलतु चञ्चरीकोच्चयः प्रपञ्चय वचःसुधा श्रवणपालिमालिङ्गतु।
भ्रुवं नटय नागरि त्यजतु मन्मथः कार्मुकं मुखं च कुरु सम्मुखं व्रजतु लाघवं चन्द्रमाः॥ 39 ॥
पुरोदिगनुरागिणी तदपि नानुरागोदयः कृशोदरि निशा कृशा तदपि ते न मानः कृशः।
प्रसन्नमिदमम्बरं तदपि न प्रसन्नं मनो ननाद चरणायुधस्तदपि मौनमालम्बसे॥ 40 ॥
कृतो दूरादेव स्मितमधुरमभ्युद्गमविधिः शिरस्याज्ञा न्यस्ता प्रतिवचनमुच्चैः प्रणमितम्।
न दृष्टेः शैथिल्यं मिलत इति चेतो दहति मे निगूढान्तःकोपा कठिनहृदये संवृतिरियम्॥ 41 ॥
गतप्राया रात्रिः शशिमुखि शशी शीर्यत इव प्रदीपोऽयं निद्रावशमुपगतो घूर्णत इव।
प्रणामान्तो मानस्तदपि न जहासि ध्रुवमहो कुचप्रत्यासत्त्या हृदयमपि ते 1चण्डि कठिनम्॥ 42 ॥

इदं दूर्वाकाण्डद्युतिमुषि कपोले कतिपयैः श्रमाम्भोभिः कीर्णं सहजबकुलामोदसुभगम्।
समाकाङ्क्षे ताम्राधरमनुमनुष्व प्रियतमे मनोज्ञं ते पातुं मुखकमलमाघ्रातुमथवा॥ 43 ॥
प्रसादे वर्तस्व प्रकटय मुदं सन्त्यज रुषं प्रिये शुष्यन्त्यङ्गान्यमृतमिव ते सिञ्चतु वचः।
निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखं न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः॥ 44 ॥
प्रसीदेति ब्रूयामिदमसति कोपे न घटते करिष्याम्येवं नो पुनरिति भवेदभ्युपगमः।
न मे दोषोऽस्तीति त्वमिदमपि हि ज्ञास्यसि मृषा किमेतस्मिन् वक्तुं क्षममिति न वेद्मि प्रियतमे॥ 45 ॥
कृतेऽप्याज्ञाभङ्गे कथमिव मया ते प्रणतयो धृताः स्मित्वा हस्ते विसृजसि रुषं सुभ्रु बहुशः।
प्रकोपः कोऽप्यन्यः पुनरयमसीमाद्य गुणितो वृथा यत्र स्निग्धाः प्रियसहचरीणामपि गिरः॥ 46 ॥
कपोले पत्त्राली करतलनिरोधेन मृदिता निपीतो निःश्वासैरयममृतहृद्योऽधररसः।
मुहुः कण्ठे लग्नस्तरलयति बाष्पः स्तनतटं प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम्॥ 47 ॥
1सुतनु हृदयात्प्रत्यादेशव्यलीकमपैतु ते किमपि मनसः सम्मोहो मे तदा बलवानभूत्।
प्रबलतमसामेवंप्रायाः शुभेषु हि वृत्तयः स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशङ्कया॥ 48 ॥2

परिहर कृतातङ्के शङ्कां त्वया सततं घनस्तनजघनया क्रान्ते स्वान्ते परानवकाशिनि।
विशति वितनोरन्यो धन्यो न कोऽपि ममान्तरं स्तनभरपरीरम्भारम्भे विधेहि विधेयताम्॥ 49 ॥
व्यथयति वृथा मौनं तन्वि प्रपञ्चय पञ्चमं तरुणि मधुरालापैस्तापं विनोदय दृष्टिभिः।
सुमुखि विमुखीभावं तावद्विमुञ्च न वञ्चय स्वयमतिशयस्निग्धो मुग्धे प्रियोऽहमुपस्थितः॥ 50 ॥
कठिनहृदये मुञ्च भ्रान्तिं व्यलीककथाश्रितां पिशुनवचनैर्दुःखं नेतुं न युक्तमिमं जनम्।
किमिदमथवा सत्यं मुग्धे त्वया हि विनिश्चितं यदभिरुचितं तन्मे कृत्वा प्रिये सुखमास्यताम्॥ 51 ॥
पादासक्ते सुचिरमिह ते वामता कैव कान्ते सन्मार्गस्थे प्रणयिनि जने कोपने कोऽपराधः।
इत्थं तस्याः परिजनकथा कोपवेगोपशान्तौ बाष्पोद्भेदैस्तदनु सहसा न स्थितं न प्रयातम्॥ 52 ॥
कोऽयं कोपविधिः प्रयच्छ करुणागर्भं वचो जायतां पीयूषद्रवदीर्घिकापरिमलैरामोदिनी मेदिनी।
आस्तां वा स्पृहयालुलोचनमिदं व्यावर्तयन्ती मुहुर्यस्मै कुप्यसि तस्य सुन्दरि तपोवृन्दानि वन्दामहे॥ 53 ॥
सूर्येऽस्ताचलमौलिमालिनि गृहे दीपावलीशालिनि प्राणस्वामिनि मानिनि प्रतिपदं सत्कारमातन्वति।
यन्मानं न जहासि कोपकलनादालोहितस्तत्क्षणादिन्दुः सुन्दरि पूर्वपर्वतशिरःसीमानमारोहति॥ 54 ॥
सन्त्येवात्र गृहे गृहे युवतयस्ताः पृच्छ गत्वाधुना प्रेयांसः3 प्रणमन्ति किं तव पुनर्दासो यथा वर्तते।
आत्मद्रोहिणि दुर्जनप्रलपितं कर्णे वृथा मा कृथाश्छिन्नस्नेहरसा भवन्ति पुरुषा दुःखानुवर्त्या यतः॥ 55 ॥

क्षीणांशुः शशलाञ्छनः सखि पुनः क्षीणो न मानस्तव 4स्मेरं पद्मवनं मनागपि न ते स्मेरं मुखाम्भोरुहम्।
पीतं श्रोत्रयुगेन 5षट्पदरुतं पीतं न ते जल्पितं रक्ता 6शक्रदिगङ्गनारविकरैर्नाद्यापि रक्तासि किम्॥ 56 ॥

किं कण्ठे शिथिलीकृतो भुजलतापाशः प्रमादान्मया निद्राच्छेदविवर्तनेष्वभिमुखी नाद्यापि सम्भाविता।
अन्यस्त्रीजनसङ्कथालघुरहं स्वप्ने त्वया लक्षितो दोषं पश्यसि किं प्रिये परिजनोपालम्भयोग्ये मयि॥ 57 ॥
चक्षुर्जाड्यमपैतु मानिनि मुखं सन्दर्शय श्रोत्रयोः पीयूषस्रुतिसौख्यमस्तु मधुरां वाचं प्रिये व्याहर।
तापः शाम्यतु मे प्रसादशिशिरां दृष्टिं शनैः पातय त्यक्त्वा दीर्घमभूतपूर्वमचिराद्रोषं सखीदोषजम्॥ 58 ॥
कल्याणाङ्गरुचानुरक्तमनसा त्वं येन सम्प्रार्थ्यते यस्यार्थे सुमुखित्वया पुनरसुत्यागेऽपि संनह्यते।
सोऽयं सुन्दरि पञ्चबाणविशिखव्यालीढदोरन्तरस्वैरोत्पीडितपीवरस्तनतटस्त्वद्दोर्लतापञ्जरे॥ 59 ॥
शीतांशुर्मुखमुत्पले तव दृशौ पद्मानुकारौ करौ रम्भागर्भनिभं तवोरुयुगलं बाहू मृणालोपमौ।
इत्याह्लादकराखिलाङ्गि रभसान्निःशङ्कमालिङ्ग्य मामङ्गानि त्वमङ्‌गतापविधुराण्येह्येहि निर्वापय॥ 60 ॥
स्निग्धं यद्यपि वीक्षितं नयनयोस्ताम्रा तथापि द्युतिर्माधुर्यापि सती स्खलत्यनुपदं ते गद्गदा वागियम्।
निःश्वासा नियता अपि स्तनभरोत्कम्पेन संलक्षिताः कोपस्ते प्रकटं प्रयत्नविधृतोऽप्येष स्फुटं लक्ष्यते॥ 61 ॥
भ्रूभङ्गैः क्रियते ललाटशशिनः कस्मात्कलङ्को मुधा वाताकम्पितबन्धुपुष्पसमतां नीतोऽधरः किं स्फुरन्।
मध्यश्चाधिककम्पितस्तनभरेणायं पुनः खिद्यते कोपं मुञ्च तवैव चित्तहरणायैतन्मया क्रीडितम्॥ 62 ॥
भ्रूभङ्गं न करोषि रोदिषि मुहुर्मुग्धेक्षणे केवलं नातिप्रस्फुरिताधरानवरतं निःश्वासमेवोज्झसि।
वाचं नापि ददासि तिष्ठसि परं प्रध्यातनम्रानना कोपस्ते स्तिमितोऽतिपीडयति मां गूढप्रहारोपमः॥ 63 ॥
धृष्टः किं पुरतोऽवरुध्य विहसन्गृह्णामि कण्ठे प्रियां किं वा चाटुशतप्रचण्डरचनाप्रीतां करिष्यामि ताम्।
किं तिष्ठामि कृताञ्जलिर्निपतितस्तस्याः पुरः पादयोः सत्यं सत्यमहो न वेद्म्यनुनयस्तस्याः कथं स्यादिति॥ 64 ॥
सुभ्रु त्वं कुपितेत्यपास्तमशनं त्यक्ताः कथा योषितां दूरादेव मयोज्झिताः सुरभयः स्रग्गन्धधूपादयः।
रागं रागिणि मुञ्च मय्यवनते दृष्टे प्रसीदाधुना सद्यस्त्वद्विरहे भवन्ति सुभगे सर्वा ममान्धा दिशः॥ 65 ॥
व्यावृत्तं खलु सर्वतो विषयतस्त्वय्येव लीनं मनो नित्यं च त्वदधीनमेव नियतं मज्जीवितं मानिनि।
मत्वैवं मयि नूनमन्यविषया शङ्का त्वया त्यज्यतां किंवान्यत्र निशाकरोऽभिरमते मुक्त्वा क्षणं कौमुदीम्॥ 66 ॥
यद्गम्यं गुरुगौरवस्य सुहृदो यस्मिंल्लभन्तेऽन्तरं यद्दाक्षिण्यवशात्प्रसह्य सहते नर्मोपचारानपि।
यल्लज्जा निरुणद्धि यत्र शपथैरुत्पाद्यते प्रत्ययस्तत्किं प्रेम स उच्यते परिचयस्तत्रापि कोपेन किम्॥ 67 ॥
मुग्धे मानिनि कोपरीतिरियती युक्ता न तथ्यं त्विदं कान्ते किं त्वदुपेक्षिता मम तनुः शोभेत नेहाद्भुतम्।
अन्यायो भवति च्छलस्य करणे दक्षे जनेऽन्यादृशं काहेति प्रतिरुद्धवागकरवं वाक्स्तम्भनं चुम्बनैः॥ 68 ॥
मानं मानिनि मुञ्च देवि दयिते मिथ्या वचः श्रूयते किं कोपो निजसेवके यदि वचः सत्यं त्वया गृह्यते।
दोर्भ्यां बन्धनमाशुदन्तदलनं पीनस्तनास्फालनं दोषश्चेन्मम ते कटाक्षविशिखैः शस्त्रैः प्रहारं कुरु॥ 69 ॥
सुभ्रु त्वं नवनीतकल्पहृदया केनापि दुर्मन्त्रिणा मिथ्यैव प्रियकारिणा मधुमुखेनास्मासु चण्डीकृता।
किं त्वेतद्विमृश क्षणं प्रणयिनामेणाक्षि कस्ते हितः किं धात्रीतनया वयं किमु सखी किं वा किमस्मत्सुहृत्॥ 70 ॥


  1. कोपात्. ↩︎ ↩︎ ↩︎ ↩︎

  2. पाषाणेन. तत्सदृशकठिनत्वात्. ↩︎ ↩︎

  3. प्रियाः. ↩︎

  4. विकसितम्. ↩︎

  5. भ्रमरशब्दः. ↩︎

  6. प्राची. ↩︎