३७ नायकस्य नायिकां प्रति प्रश्नः

कृशा केनासि त्वं प्रकृतिरियमङ्गस्य ननु मे मलाधूम्रा कस्माद्गुरुजनगृहे पाचकतया।
स्मरस्यस्मान्कच्चिन्नहि नहि नहीत्येवमवदच्छिरःक्म्पं बाला मम हृदि निपत्य प्ररुदिता॥ 1 ॥
कृशासीत्यालीना मलिनवसनासीत्यवनता चिराद्दृष्टासीति स्तनकलशकम्पं प्ररुदिता।
परिष्वक्ता यावत्प्रणयपदवीं कामपि गता ततः सारङ्गाक्ष्या हृदयसदने लीनमभवत्॥ 2 ॥
अङ्गानामतितानवं कथमिदं कम्पश्च कस्मात्कुतो मुग्धे पाण्डुकपोलमाननमिति प्राणेश्वरे पृच्छति।
तन्व्या सर्वमिदं स्वभावजमिति व्याहृत्य पक्ष्मान्तरव्यापी बाष्पभरस्तया चलितया निःश्वस्य मुक्तोऽन्यतः॥ 3 ॥