३६ नायकातिथ्यवर्णनम्

आयाते दयिते मरुस्थलभुवामुत्प्रेक्ष्य दुर्लङ्घ्यतां गेहिन्या परितोषबाष्पकलिलामासज्य दृष्टिं मुखे।
दत्त्वा पीलुशमीकरीरकवलं चेलाञ्चलेनादरादुन्मृष्टं करभस्य केसरसटाभाराभ्रलग्नं रजः॥ 1 ॥
बाला वन्दनमालिकाकिसलयग्रन्थीनधः कुर्वतः श्रुत्वा वल्लभवाहनस्य रटितं दासेरकस्याङ्गने।
आक्रन्दात्सुहृदो वनाद्गुरुजनं नासाग्रसङ्गादसून्कान्तं स्त्रीवधपातकात्स्मरमसत्कीर्तेः परावर्तयत्॥ 2 ॥
किञ्चित्कम्पितपाणिकङ्कणरवैः पृष्टं ननु स्वागतं व्रीडानम्रमुखाब्जया चरणयोर्न्यस्ते च नेत्रोत्पले।
द्वारस्थस्तनयुग्ममङ्गलघटे दत्तः प्रवेशो हृदि स्वामिन्किं भवतोऽतिथेः समुचितं सख्यानयानुष्ठितम्॥ 3 ॥
दीर्घा वन्दनमालिका विरचिता दृष्ट्यैव नेन्दीवरैः पुष्पाणां प्रकरः स्मितेन रचितो नो कुन्दजात्यादिभिः।
दत्तः स्वेदमुचा पयोधरभरेणार्घ्यो न कुम्भाम्भसा स्वैरेवावयवैः प्रियस्य विशतस्तन्व्या कृतं मङ्गलम्॥ 4 ॥