३५ नायकागमने नायिकां प्रति सखीवचनम्

नित्यं मनोरथस्यापि सखि दुर्गम एव यः।
अभवत्साम्प्रतं कामं प्रत्यक्षेण विभाति सः॥ 1 ॥
धैर्यमाधाय लज्जां च व्यपनीय विलासिनम्।
सम्भावयसि किं नैनं दिष्ट्या स्वयमुपस्थितम्॥ 2 ॥
अपाङ्गसंसर्गि तरङ्गितं दृशोर्भ्रुवोररालान्तविकासि वेल्लनम्।
विसारि रोमाञ्चितकञ्चुकं तनोस्तनोति योऽसौ सुभगे तवागतः॥ 3 ॥
कलय वलयं धम्मिल्लेऽस्मिन्निवेशय मल्लिकां रचय सिचयं मुक्ताहारं विभूषय सत्वरम्।
मृगमदमषीपत्रालेपं कुरुष्व कपोलयोः सहचरि समायातः प्रातः स ते हृदयप्रियः॥ 4 ॥