३४ नायकागमनावस्थावर्णनम्

श्रुत्वायान्तं बहिः कान्तमसमाप्तविभूषया।
भालेऽञ्जनं दृशोर्लाक्षा कपोले तिलकः कृतः॥ 1 ॥
आगच्छन्सूचितो येन येनानीतो गृहं प्रति।
प्रथमं सखि कः पूज्यः किं काकः किं क्रमेलकः॥ 2 ॥
सज्जितसकलशरीरा क्षणे क्षणे मनसि किमपि गणयन्ती।
उत्सवमिव तं दिवसं मनुते मुग्धा प्रियागमने॥ 3 ॥
अभ्युन्नतस्तनयुगा तरलायताक्षी द्वारि स्थिता तदुपयानमहोत्सवाय।
सा पूर्णकुम्भनवनीरजतोरणस्रक्सम्भारमङ्गलमयत्नकृतं विधत्ते॥ 4 ॥
आयातो दयितस्तवेति सहसा न श्रद्दधे भाषितं सद्यः संमुखतां गतेऽपि सुमुखी भ्रान्तिं निजां मन्यते।
कण्ठाश्लेषिभुजेऽपि शून्यहृदया स्वप्नान्तरं शङ्कते प्रत्यावृत्तिमियं प्रियस्य कियता प्रत्येतु शातोदरी॥ 5 ॥
1द्वारोपान्तनिररन्तरे मयि तया सौन्दर्यसारश्रिया प्रोल्लास्योरुयुगं परस्परसमासक्तं समासादितम्।
आनीतं पुरतः शिरोंशुकमधः क्षिप्ते चले लोचने वाचस्तच्च निवारितं प्रसरणं सङ्कोचिते दोर्लते॥ 6 ॥


  1. अत्यन्तसन्निहिते. ↩︎