ततः कुमुदनाथेन कामिनीगण्डपाण्डुना।1
2नेत्रानन्देनचन्द्रेण माहेन्द्री दिगलङ्कृता॥ 1 ॥
कुमुदेष्वधिकं भान्ति पतिताश्चन्द्ररश्मयः।
अतिप्रकृष्टशीलेषु कुलेष्विव समृद्धयः॥ 2 ॥
आनन्दं कुमुदादीनामिन्दुः कन्दलयन्नयम्।
लङ्घयत्यम्बराभोगं हनूमानिव सागरम्॥ 3 ॥
पिनष्टीव तरङ्गाग्रैः समुद्रः फेनचन्दनम्।
तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गनाः॥ 4 ॥
नयनानन्ददायीन्दोर्बिम्बमेतत्प्रसीदति।
अधुना विनिरुद्धाशं प्रविशीर्णमिदं तमः॥ 5 ॥
नाशयन्तो घनध्वान्तं तापयन्तो वियोगिनः।
पतन्ति शशिनः पादा भासयन्तः क्षमातलम्॥ 6 ॥
ज्योत्स्नाचयः पयःपूरस्तारकाः कैरवाणि च।
राजति व्योमकासारराजहंसः सुधाकरः॥ 7 ॥
इदमाभाति गगने भिन्दानं सन्ततं तमः।
अमन्दनयनानन्दकरं मण्डलमैन्दवम्॥ 8 ॥
उदयतटान्तरितमियं प्राची सूचयति दिङ्निशानाथम्।3
परिपाण्डुना मुखेन प्रियमिव हृदयस्थितं रमणी॥ 9 ॥
अथ पथिकवधूदहनः शनकैरुदभून्निशाकरालोकः।
कुमुदप्रबोधदूतो व्यसनगुरुश्चक्रवाकीणाम्॥ 10 ॥
त्रिनयनचूडारत्नं मित्त्रं सिन्धोः कुमुद्वतीदयितः।
अयमुदयति घुसृणारुणरमणीवदनोपमश्चन्द्रः॥ 11 ॥
हंसो यथा राजति पञ्जरस्थः सिंहो यथा मन्दरकन्दरस्थः।
वीरो यथा दर्पितकुञ्जरस्थश्चन्द्रोऽपि बभ्राम तथाम्बरस्थः॥ 12 ॥
4आकाशवापीसितपुण्डरीकं 5शाणोपलं मन्मथसायकानाम्।
पश्योदितं शारदमम्बुजाक्षि सन्ध्याङ्गनाकन्दुकमिन्दुबिम्बम्॥ 13 ॥
वीथीषु वीथीषु विलासिनीनां मुखानि संवीक्ष्य शुचिस्मितानि।
जालेषु जालेषु करं प्रसार्य 6लावण्यभिक्षामटतीव चन्द्रः॥ 14 ॥
नभोलताकुञ्जमुपागतायाः प्रमोदपर्याकुलतारकायाः।
निशाङ्गनायाः स्फुरता करेण शशी तमःकञ्चुकमुन्मुमोच॥ 15 ॥
मनोजराजस्य सितातपत्रं श्रीखण्डचित्रं हरिदङ्गनायाः।
विराजति व्योमसरःसरोजं कर्पूरपूरप्रभमिन्दुबिम्बम्॥ 16 ॥
अथ मन्मथवाहिनीपरागः किमपि ज्योतिरुदस्फुरत्पुरस्तात्।
तिमिरस्य जरा 1चकोरकूरं कुलटाकेलिवनीदवानलार्चिः॥ 17 ॥
नवकुङ्कुमचर्चिका रजन्या गगनाशोकतरोः प्रवालपङ्क्तिः।
मणिकुन्तलता स्मरस्य मन्ये शशिनः प्राथमिकी मयूखलेखा॥ 18 ॥
उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम्।
यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम्॥ 19 ॥
करमुदयमहीधरस्तनाग्रे गलिततमःपटलांशुके निवेश्य।
विकसितकुमुदेक्षणं विचुम्बत्ययममरेशदिशो मुखं सुधांशुः॥ 20 ॥
अन्धकारगरलं यतो जगन्मोहकारि भृशमत्ति नित्यशः।
उज्ज्वलं जठरमोषधीपतेरञ्जनाभमभवत्ततः प्रिये॥ 21 ॥
मानिनीजनविलोचनपातानुष्णबाष्पकलुषान्प्रतिगृह्णन्।
मन्दमन्दमुदितः प्रययौ खं भीतभीत इव शीतमयूखः॥ 22 ॥
शंकरार्धतनुबद्धपावतीकुङ्कुमाक्तकुचकोरकाकृतिः।
सूच्यते कमलिनीभिरुन्नमत्पद्मकोशकरलीलया शशी॥ 23 ॥
इन्दुरिन्दुरिति किं दुराशया बिन्दुरेष पयसो विलोक्यते।
नन्विदं विजयते मृगीदृशः श्यामकोमलकपोलमाननम्॥ 24 ॥
रुद्धनिर्गमनमा दिनक्षयात्पूर्वदृष्टतनुचन्द्रिकास्मितम्।
एतदुद्गिरति रात्रिचोदिता दिग्रहस्यमिव चन्द्रमण्डलम्॥ 25 ॥
पश्य पक्वफलिनीफलत्विषा बिम्बलाञ्छितवियत्सरोम्भसा।
विप्रकृष्टविवरं हिमांशुना चक्रवाकमिथुनं विडम्ब्यते॥ 26 ॥
अङ्गुलीभिरिव केशसं चयं संनियम्य तिमिरं मरीचिभिः।
कुङ्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी॥ 27 ॥
रक्तभावमपहाय चन्द्रमा जात एव परिशुद्धमण्डलः।
विक्रिया न खलु कालदोषजा निर्मलप्रकृतिषु स्थिरोदया॥ 28 ॥
उन्नतेषु शशिनः प्रभा स्थिता निम्नसंश्रयपरं निशातमः।
नूनमात्मसदृशी प्रकल्पिता वेधसैव गुणदोषयोर्गतिः॥ 29 ॥
चन्द्रपादजनितप्रवृत्तिभिश्चन्द्रकान्तजलबिन्दुभिर्गिरिः।
मेखलातरुषु निद्रितानमून्बोधयत्यसमये शिखण्डिनः॥ 30 ॥
उन्नतावनतभागवत्तया चन्द्रिका सतिमिरा गिरेरियम्।
भक्तिभिर्बहुविधाभिरर्पिता भाति भूतिरिव मत्तदन्तिनः॥ 31 ॥
एतदुच्छ्वसितपीतमैन्दवं सोढुमक्षममिव प्रभारसम्।
मुक्तषट्पदविरावमञ्जसा भिद्यते कुमुदमा निबन्धनात्॥ 32 ॥
आननानि हरिणीनयनानामद्भुतानि च समीक्ष्य जगत्याम्।
लज्जयैव घनमण्डललीनो मन्दमन्दमहहेन्दुरुदेति॥ 33 ॥
व्यानशे शशधरेण विमुक्तः केतकीकुसुमकेसरपाण्डुः।
चूर्णमुष्टिरिव लम्बितकान्तिर्वासवस्य दिशमंशुसमूहः॥ 34 ॥
उज्झती शुचमिवाशु तमिस्रामन्तिकं व्रजति तारकराजे।
दिक्प्रसादगुणमण्डनमूहे रश्मिहासविशदं मुखमैन्द्री॥ 35 ॥
नीलनीरजनिभे हिमगौरं सैलरुद्धवपुषः सितरश्मेः।
खे रराज निपतत्करजालं वारिधेः पयसि गाङ्गमिवाम्भः॥ 36 ॥
द्यां निरुन्धदतिनीलघनाभं ध्वान्तमुद्यतकरेण पुरस्तात्।
क्षिप्यमाणमसितेतरभासा शंभुनेव करिचर्म चकासे॥ 37 ॥
अन्तिकान्तिकगतेन्दुविसृष्टे जिह्मतां जहति दीधितिजाले।
निःसृतस्तिमिरभारनिरोधादुच्छ्वसन्निव रराज दिगन्तः॥ 38 ॥
लेखया विमलविद्रुमभासा सन्ततं तिमिरमिन्दुरुदासे।
दंष्ट्रया कनकटङ्कपिशङ्ग्या मण्डलं भुव इवादिवराहः॥ 39 ॥
दीपयन्नथ नभः किरणौघैः कुङ्कुमारुणपयोधरगौरः।
हेमकुम्भ इव पूर्वपयोधेरुन्ममज्ज शनकैस्तुहिनांशुः॥ 40 ॥
उद्गतेन्दुमविभिन्नतमिस्रां पश्यति स्म रजनीमवितृप्तः।
व्यंशुकस्फुटमुखीमतिजिह्मां व्रीडया नववधूमिव लोकः॥ 41 ॥
न प्रसादमुचितं गमिता द्यौर्नोद्धतं तिमिरमद्रिवनेभ्यः।
दिङ्मुखेषु न च धाम विकीर्णं भूषितैव रजनी हिमभासा॥ 42 ॥
श्लिष्यतः प्रियवधूरुपकण्ठं तारकास्ततकरस्य हिमांशोः।
उद्वमन्नभिरराज समन्तादङ्गराग इव लोहितरागः॥ 43 ॥
प्रेरितः शशधरेण करौघः संहतान्यपि नुनोद तमांसि।
क्षीरसिन्धुरिव मन्दरभिन्नः काननान्यविरलोच्चतरूणि॥ 44 ॥
शारतां गमितया शशिपादैश्छायया विटपिनां प्रतिपेदे।
न्यस्तशुक्लबलिचित्रतलाभिस्तुल्यता वसतिवेश्ममहीभिः॥ 45 ॥
गन्धमुद्धतरजःकणवाही विक्षिपन्विकसतां कुमुदानाम्।
आदुधाव परिलीनविहङ्गा यामिनीमरुदपां नवराजीः॥ 46 ॥
संविधातुमभिषेकमुदासे मन्मथस्य लसदंशुजलौघः।
यामिनीवनितया ततचिह्नः सोत्पलो रजतकुम्भ इवेन्दुः॥ 47 ॥
ओजसापि खलु नूनमनूनं नासहायमपयाति जयश्रीः।
यद्विभुः शशिमयूखसखः सन्नाददे विजयि चापमनङ्गः॥ 48 ॥
कलितमम्बरमाकलयन्करैर्मृदितपङ्कजकोशपयोधरः।
विकसदुत्पलनेत्रविलोकितः सखि निशां सरसीकुरुते विधुः॥ 49 ॥
वसुधान्तनिःसृतमिवाहिपतेः पटलं फणामणिसहस्ररुचाम्।
स्फुरदंशुजालमथ शीतरुचः ककुभं समस्कुरुत माघवनीम्॥ 50 ॥
विशदप्रभापरिगतं विबभावुदयाचलव्यवहितेन्दुवपुः।
मुखमप्रकाशदशनं शनकैः सविलासहासमिव शक्रदिशः॥ 51 ॥
कलया तुषारकिरणस्य पुरः परिमन्दभिन्नतिमिरौघजटम्।
क्षणमभ्यपद्यत जनैर्न मृषा गगनं गणाधिपतिमूर्तिरिति॥ 52 ॥
नवचन्द्रिकाकुसुमकीर्णतमःकबरीभृतो मलयजार्द्रमिव।
ददृशे ललाटतटहारि हरेर्हरितो मुखे तुहिनरश्मिदलम्॥ 53 ॥
प्रथमं कलाभवदथार्धमथो हिमदीधितिर्महदभूदुदितः।
दधति ध्रुवं क्रमश एव न तु द्युतिशालिनोऽपि सहसोपचयम्॥ 54 ॥
उदमज्जि कैटभजितः शयनादपनिद्रपाण्डुरसरोजरुचा।
प्रथमप्रबुद्धनदराजसुतावदनेन्दुनेव तुहिनद्युतिना॥ 55 ॥
अथ लक्ष्मणानुगतकान्तवपुर्जलधिं विलङ्घ्य शशिदाशरथिः।
परिवारितः परित ऋक्षगणैस्तिमिरौघराक्षसकुलं बिभिदे॥ 56 ॥
उपजीवति स्म सततं दधतः परिमुग्धतां वणिगिवोडुपतेः।
घनवीथिवीथिमवतीर्णवतो निधिरम्भसामुपचयाय कलाः॥ 57 ॥
रजनीमवाप्य रुचमाप शशी सपदि व्यभूषयदसावपि ताम्।
अविलम्बितक्रममहो महतामितरेतरोपकृतिमच्चरितम्॥ 58 ॥
दिवसं भृसोष्णरुचिपादहतां रुदतीमिवानवरतालिरुतैः।
मुहुरामृशन्मृगधरोऽग्रकरैरुदशिश्वसत्कुमुदिनीवनिताम्॥ 59 ॥
प्रतिकामिनीति ददृशुश्चकिताः स्मरजन्मधर्मपयसोपचिताम्।
सुदृशोऽभिभर्तृशशिरश्मिगलज्जलबिन्दुमिन्दुमणिदारुवधूम्॥ 60 ॥
अमृतद्रवैर्विदधदब्जदृशामपमार्गमोषधिपतिः स्म करैः।
परितो विसर्पि परितापि भृशं वपुषोऽवतारयति मानविषम्॥ 61 ॥
अमलात्मसु प्रतिफलन्नभितस्तरुणीकपोलफलकेषु मुहुः।
विससार सान्द्रतरमिन्दुरुचामधिकावभासितदिशां निकरः॥ 62 ॥
उपगूढवेलमलघूर्मिभुजैः सरितामचुक्षुभदधीशमपि।
रजनीकरः किमिव चित्रमहो यदुरागिणां गणमनङ्गलघुम्॥ 63 ॥
भवनोदरेषु परिमन्दतया शयितोऽलसः स्फटिकयष्टिरुचः।
अवलम्ब्य जालकमुखोपगतानुदतिष्ठदिन्दुकिरणान्मदनः॥ 64 ॥
अविभावितेषु विषयः प्रथमं मदनोऽपि नूनमभवत्तमसा।
उदिते दिशः प्रकटयत्यमुना यदघर्मधाम्नि धनुराचकृषे॥ 65 ॥
युगपद्विकासमुदयाद्गमिते शशिनः शिलीमुखगणोऽलभत।
द्रुतमेव पुष्पधनुषो धनुषः कुमुदेऽङ्गनामनसि चावसरम्॥ 66 ॥
कुकुभां मुखानि सहसोज्ज्वलयन्दधदाकुलत्वमधिकं रतये।
अदिदीपदिन्दुरपरो दहनः कुसुमेषु मत्त्रिनयनप्रभवः॥ 67 ॥
ख्याता वयं समधुपा मधुकोशवत्यश्चन्द्रः प्रसारितकरो द्विजराज एषः।
अस्मत्समागमकृतोऽस्य पुनर्द्वितीयो मा भूत्कलङ्क इति सङ्कुचिता नलिन्यः॥ 68 ॥
उद्गर्भहूणतरुणीरमणोपमर्दभुग्नोन्नतस्तननिवेशनिभं हिमांशोः।
बिम्बं कठोरबिसकाण्डकडारमेतद्रम्भापदं प्रथममग्रकरैर्व्यनक्ति॥ 69 ॥
ताराक्षतान्प्रविकिरन्कलकण्ठनादान्मन्त्राक्षराणि निगदन्कुसुमेषु रेषः।
लाभाय वासरमणेर्मुषितस्य सायं सञ्चारयत्यमृतदीधितिकांस्यपात्रम्॥ 70 ॥
एतद्विभाति चरमाचलचूडचुम्बिडिण्डीरपिण्डरुचिशीतमरीचिबिम्बम्।
उज्ज्वालितस्य रजनीं मदनानलस्य धूमं दधत्प्रकटलाञ्छनकैतवेन॥ 71 ॥
भूयस्तराणि यदमूनि तमस्विनीषु ज्योत्स्नीषु च प्रविरलानि ततः प्रतीमः।
सन्ध्यानलेन भृशमम्बरमूषिकायामावर्तितैरुडुभिरेव कृतोऽयमिन्दुः॥ 72 ॥
उज्जृम्भते कुमुदिनीसुकृतं मृगाङ्को विष्वग्विकीर्णपरिपाटलरश्मिदण्डः।
उत्सूतविद्रुमकुलो जलधेस्तरङ्गादुत्क्षिप्यमाण इव कश्चन राजकम्बुः॥ 73 ॥
गगनविपिनसिंहः कामभूपातपत्रं निखिलदिगबलानां कन्दुकं क्रीडनाय।
मणिरिव रतिभर्तुः कार्मणः पार्वणोऽयं जयति कुमुदबन्धुर्बन्धुरश्चन्द्रबिम्बः॥ 74 ॥
अयमुदयति चन्द्रो वारिधेरम्बुगर्भादमृतकणकरालैरंशुभिर्दीप्यमानः।
भुजगशयनवक्षोहर्म्यदेशे ललन्त्या वदनमिव यदृच्छोत्तानितं विश्वमातुः॥ 75 ॥
अयमुदयति चन्द्रश्चन्द्रिकाधौतविश्वः परिणतविमलिम्नि व्योम्नि कर्पूरगौरः।
ऋजुरजतशलाकास्पर्धिभिर्यस्य पादैर्जगदमलमृणालीपञ्जरस्थं विभाति॥ 76 ॥
उदयति कलमन्द्रैः कण्ठतैलैरलीनां कुमुदमुकुलकेषु व्यञ्जयन्नङ्गहारान्।
मदमुखरचकोरीतोयकर्मान्तिकोऽयं तुहिनरुचिरधामा दक्षिणं लोकचक्षुः॥ 77 ॥
मृगाङ्कोऽयं धत्ते गगनजलतः फेनतुलनां सितच्छत्राकारां मदननृपतेर्विश्वजयिनः।
त्रियामारामायां मलयजविशेषप्रतिकृतिं जगद्धात्रीदेव्या मणिमुकुटलक्ष्मीं च विमलाम्॥ 78 ॥
कपाले मार्जारः पय इति करांल्लोठि शशिनस्तरुच्छिद्रप्रोतान्बिसमिति करी सङ्कलयति।
रतान्ते तल्पस्थान्हरति वनिताप्यंशुकमिति प्रभामत्तश्चन्द्रो जगदिदमहो विप्लवयति॥ 79 ॥
अयं नेत्रादत्रे रजनि रजनीवल्लभ इति भ्रमः कोऽयं प्रज्ञापरिचयपराधीनमनसाम्।
सुधानामाधारः स खलु रतिबिम्बाधरसुधारसासेकस्निग्धादजनि नयनात्पुष्पघनुषः॥ 80 ॥
जटाभाभिर्भाभिः करधृतकलङ्काक्षवलयो वियोगिव्यापत्तेरिव कलितवैराग्यविशदः।
परिप्रेङ्खत्तारापरिकरकपालाङ्किततले शशी भस्मापाण्डुः पितृवन इव व्योम्नि चरति॥ 81 ॥
तथा पौरस्त्यायां दिशि कुमुदकेदारकलिकाकवाटघ्नीमिन्दुः किरणलहरीमुल्लसयति।
समन्तादुन्मीलद्बहलजलबिन्दुस्तबकिनो यथा पुञ्जायन्ते प्रतिगुडकमेणाङ्कमणयः॥ 82 ॥
सुधारश्मिः सद्यस्तिमिरनिकरान्तं विरचयन्नलिन्देभ्यः स्यन्दं शशिमणिसमुत्थं च वितरन्।
उदेत्यादौ रक्ताम्बुजसमरुचिः कैरववने प्रमोदं तन्वानो मधुपवनितागीतिमधुरम्॥ 83 ॥
त्रिनयनजटावल्लीपुष्पं निशावदनस्मितं ग्रहकिसलयं सन्ध्यानारीनितम्बनखक्षतिः।
तिमिरभिदुरं व्योम्नः शृङ्गं मनोभवकार्मुकं प्रतिपदि नवस्येन्दोर्बिम्बं सुखोदयमस्तु नः॥ 84 ॥
प्रथममरुणच्छायस्तावत्ततः कनकप्रभस्तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः।
उदयति ततो ध्वान्तध्वंसक्षमः क्षणदामुखे सरसबिसिनीकन्दच्छेदच्छविर्मृगलाञ्छनः॥ 85 ॥
मयूखनखरत्रुटत्तिमिरकुम्भिकुम्भस्थलोच्छलत्तरलतारकागणविकीर्णमुक्तागणः।
पुरंदरहरिद्दरीकुहरगर्भसुप्तोत्थितस्तुषारकरकेसरी गगनकाननं गाहते॥ 86 ॥
प्रसारणपरैः करैः प्रकटितानुरागोदये सुधाकिरणकामुके त्वरितमम्बरालम्बिनि।
तदा विगलितोल्लसत्तिमिरजालनीलांशुका पुरन्दरदिगङ्गना पुलकितैव तारागणैः॥ 87 ॥
कलानिधिरयं 1रवेः समुपलभ्य रूपं स्वयं दिनान्तसमयेऽस्पृशत्सपदि पद्मिनीं रागवान्।
2धवान्यकरसङ्गमान्मुकुलितेति 3पूर्वाकृतिं समीक्ष्य जहसुः 4प्रिया ध्रुवमभूदतः पाण्डुरः॥ 88 ॥
दर्पोद्रेकः कुसुमधनुषो जीवितं कैरवाणां जीवं जीवप्रणयगरिमा भाग्यराशिर्निशायाः।
शृङ्गारश्रीललितहसितं पानपात्रं सुराणां पौरस्त्याद्रेर्जयति शिखरं किं तमः स्थातुमीष्टे॥ 89 ॥
तैः सर्वज्ञीभवदभिसृतानेत्रसिद्धाञ्जनैर्वा नीरन्ध्रैर्वा त्रिभुवनदृशामन्धपट्टैस्तमोमिः।
व्याप्तं पृथ्वीवलयमखिलं क्षालयन्नुच्छलद्भिर्ज्योत्स्नाजालैरयमुदयते शर्वरीसार्वभौमः॥ 90 ॥
पश्योदेति 5वियोगिनीदिनमणिः शृङ्गाररक्षामणिस्तारामौक्तिकहारनायकमणिश्चण्डीशचूडामणिः।
प्रौढानङ्गभुजङ्गमस्तकमणिः कन्दर्पसीमन्तिनीकाञ्चीमध्यमणिश्चकोरपरिषच्चिन्तामणिश्चन्द्रमाः॥ 91 ॥
ॐकारो मदनद्विजस्य गगनक्रोडै6कदंष्ट्राङ्कुरस्तारामौक्तिकशुक्तिरन्धतमसस्तम्बेरमस्याङ्कुशः।
शृङ्गारार्गल7कुञ्चिका विरहिणीमर्मच्छिदा कर्तरी सन्ध्यावारवधूनखक्षतिरियं चान्द्री कला राजते॥ 92 ॥
स्वैरं करैवकोरकान्विदलयन्यूनां मनो दोलयन्नम्भोजानि निमीलयन्मृगदृशां मानं समुन्मूलयन्।
ज्योत्स्नां कन्दलयन्दिशो धवलयन्नम्भोधिमुद्वेलयन्कोकानाकुलयंस्तमः कवलयन्निन्दुः समुज्जृम्भते॥ 93 ॥
एष स्वर्गतरङ्गिणीजलमिलद्दिग्दन्तिदन्तद्युतिर्भ्रश्यद्राजतकुम्भविभ्रमधरः शीतांशुरभ्युद्यतः।
हंसीयत्यमलाम्बुजीयति लसड्डिण्डीरपिण्डीयति स्फारस्फाटिककुण्डलीयति दिशामानन्दकन्दीयति॥ 94 ॥
अद्यापि स्तनशैलदुर्गविषमे सीमन्तिनीनां हृदि स्थातुं वाञ्छति मान एष धिगिति क्रोधादिवालोहितः।
उद्यद्दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणात्फुल्लत्कैरवकोशनिःसरदलिश्रेणीकृपाणं शशी॥ 95 ॥
कैलासायितमद्रिभिर्विटपिभिः श्वेतातपत्रायितं मृत्पङ्केन दधीयितं जलनिधौ दुग्धायितं वारिभिः।
मुक्ताहारलतायितं व्रततिभिः शङ्खायितं श्रीफलैः श्वेतद्वीपजनायितं जनपदैर्जाते शशाङ्कोदये॥ 96 ॥
पीयूषाश्रपणं जगत्त्रयदृशामालानलेखालवो विश्वोन्माथहुताशनस्य ककुभामुद्घाटिनी कुञ्चिका।
वीरेषु प्रथमा च पुष्पधनुषो रेखा मृगाक्षीमुखश्रीणां च प्रतिराजबीजमधिकानन्दी नवश्चन्द्रमाः॥ 97 ॥
दिग्बालाकरकन्दुकः स्मरवधूसीमन्तमुक्तामणिः कामक्षोणिपतेर्विहारबलभीनिर्व्यूहपारावतः।
हट्टव्योम्नि विकीर्णतारकमणिः श्यामा वणिक्सुभ्रुवः स्फारः स्फाटिकसम्पुटः कुमुदिनीकान्तोऽयमुन्मीलति॥ 98 ॥
यातस्यास्तमनन्तरं दिनकृतो वेषेण रागान्वितः स्वैरं शीतकरः करं कमलिनीमालिङ्गितुं योजयन्।
शीतस्पर्शमुपेत्य सम्प्रति तया रुद्धे मुखाम्भोरुहे हासेनेव कुमुद्वतीवनितया वैलक्ष्यपाण्डूकृतः॥ 99 ॥
एतत्कोककुटुम्बिनीजनमनःशल्यं चकोराङ्गनाचञ्चूकोटिकपाटयोर्घटितयोरुद्घाटिनी कुञ्चिका।
दग्धस्यापि नवाङ्कुरः स्मरतरोरार्द्रागसां प्रेयसीमानोद्दामगजाङ्कुशो विजयते मुग्धं सुधांशोर्वपुः॥ 100 ॥
क्षीराब्धेर्लहरीषु फेनधवलाश्चन्द्रोपलेषु स्रवत्पाथःसीकरिणो विकासिकुमुदक्रोडे रजापिञ्जिराः।
उन्मीलन्ति चकोरचञ्चुगहने छिन्नप्ररूढाश्चमत्कुर्वन्तः प्रियविप्रयुक्तरमणीगात्रे सुधांशोः कराः॥ 101 ॥
ध्वान्तौघे शितिकण्ठकण्ठमहसि प्राप्ते प्रतीचीमुखं प्राचीमञ्चति किं च दुग्धलहरीमुग्धे विधोर्धामनि।
एतत्कोकचकोरशोकरभसम्लानप्रसन्नोल्लसद्दृक्पातोर्मिकदम्बचुम्बितमिव त्रैलोक्यमाभासते॥ 102 ॥
शीतांशुस्फटिकालवालवलयद्रागुल्लसत्कौमुदीवल्लीनूतनपल्लवाञ्चितमिव प्राप्य क्षणं ताम्रताम्।
चञ्चन्मत्तचकोरचञ्चुघटनाच्छिन्नाग्रकाण्डस्रुतक्षीरस्यन्दनिरन्तराप्लुतमिव श्वेतं वियद्भासते॥ 103 ॥
यः श्रीखण्डतमालपत्त्रति दिशः प्राच्या स्मरक्ष्मापतेः पाण्डुच्छत्त्रति दन्तपत्त्रति वियल्लक्ष्मीकुरङ्गीदृशः।
केलिश्वेतसहस्रपत्त्रति रतेः किं च क्षपायोषितः क्रीडाराजतसीधुपात्रति शशी सोऽयं जगन्नेत्रति॥ 104 ॥
ये पूर्वं यवसूचिसूत्रसुहृदो ये केतकाग्रच्छदच्छायासाम्यभृतो मृणाललतिकालावण्यभाजोऽत्रये।
ये धाराम्बुविडम्बिनः क्षणमथो ये तारहारश्रियस्तेऽमी स्फाटिकदण्डडम्बरजितो जाताः सुधांशोः कराः॥ 105 ॥
सद्यश्चन्दनपङ्कपिच्छिलमिव व्योमाङ्गणं कल्पयन्पश्यैरावतकान्तदन्तमुसलच्छेदोपमेयाकृतिः।
उद्गच्छत्ययमच्छमौक्तिकलताप्रालम्बलम्बैः करैर्मुग्धानां स्मरलेखवाचनकलाकेलिप्रदीपः शशी॥ 106 ॥
कोकानाकुलयंश्चकोरतरुणीवैकल्यमुन्मूलयन्नम्भोजानि निमीलयन्कुमुदिनीरुन्मीलयन्सर्वतः।
पान्थानाकुलतां नयन्कुलवधूचेतः समुल्लासयन्नस्तं याति दिवापतिः समुदयं यात्येष दोषापतिः॥ 107 ॥
स्वर्वामामृतपानचारुचषकं किं कामदेवाङ्गनाक्रीडाकन्दुक एष किं सुरनदीडिण्डीरपिण्डः किमु।
किं छत्त्रं स्मरभूपतेः किमु यशःपुञ्जं पुरस्तादिदं चेतःशंशयकारकं समुदितं शीतद्युतेर्मण्डलम्॥ 108 ॥
पद्मिन्या दयितेऽनुधावति रुषां स्वं पद्मिनीद्रोहिणं भ्रान्त्वा भीतमना दिगन्तमखिलं चन्द्रो जगाहेऽम्बुधिम्।
गाढे तत्र च तत्र विह्वलममुं कर्षन्ति ताराः पतिं सोऽयं तच्छ्रमवारिकुङ्कुमरसैः सिक्तोऽरुणो दृश्यते॥ 109 ॥
भानावभ्युदिते तथा मयि गते किं स्यान्मम प्रेयसी हा हेत्यस्तमितः शशी रसवशादिन्दीवरिण्याः स्मरन्।
सोऽयं सम्प्रति नीलिमाङ्किततनुस्तस्माद्दरीदृश्यते ये वै यत्किल संस्मरन्ति चरमे तद्रूपमेष्यन्ति ते॥ 110 ॥
आदायामृतपूर्णमर्कचषकं शोणारविन्दप्रभे पाणाविन्द्रवधूर्विलोक्य च पुनस्तस्मिन्नभःश्यामिकाम्।
चिक्षेपोपरि कोपतः परिजनेऽसंशोध्य दत्ता सुधेत्येनं तं शशिनं प्रशंसति जनस्तत्पाणिमुक्तार्जुनम्॥ 111 ॥
आनीलां करपल्लवैरपनयन्नच्छां तमःकञ्चुकीमाशां सम्प्रति वासवीमनुसरन्नक्षीणरागः शशी।
अस्याश्च स्तनसङ्गिनीमिव वहन्नङ्गेन कस्तूरिकामालिङ्गत्ययमादरेण रजनीमर्धोन्मिषत्तारकाम्॥ 112 ॥
यत्पीयूषमयूखमालिनि तमःस्तोमावलीढायुषां नेत्राणामपमृत्युहारिणि पुरः सूर्योढ एवातिथौ।
अम्भोजानि पराञ्चि तन्निजमघं दत्त्वैव तेभ्यस्ततो गौराङ्गीवदनोपमासुकृतमादत्ते पतिर्यज्वनाम्॥ 113 ॥
यं प्राक्प्रत्यगवागुदञ्चि ककुभां नामानि सम्बिभ्रतं ज्योत्स्नाजालझलज्झलाभिरभितो लुम्पन्तमन्धं तमः।
प्राचीनादचलादितस्त्रिजगतामालोकबीजाद्बहिर्निर्यान्तं हरिणाङ्कमङ्कुरमिव द्रुष्टुं जनो जीवति॥ 114 ॥
स श्रीकण्ठकिरीटकुट्टिमपरिष्कारप्रदीपाङ्कुरोदेवः कैरवबन्धुरन्धतमसप्राग्भारकुक्षिंभरिः।
संस्कर्ता निजकान्तिमौक्तिकमणिश्रेणीभिरेणीदृशां गीर्वाणाधिपतेः सुधारसवतीपौरोगवः प्रोदगात्॥ 115 ॥
प्राचीनाचलचुम्बिचन्द्रमणिभर्निर्व्यूढपाद्यं निजैर्निर्यासैरुडुभिर्निजेन वपुषा दत्तार्घलाजाञ्जलि।
अन्तःप्रौढकलङ्कतुच्छमभितः सान्द्रं परिस्तीर्यते बिम्बादङ्कुरभग्ननैशिकतमःसन्दोहमिन्दोर्महः॥ 116 ॥
सायं नायमुदेति वासरमणिश्चन्द्रो नु चण्डद्युतिर्दावाग्निः कथमम्बरे किमशनिः स्वच्छान्तरीक्षे कुतः।
हन्तेदं निरणायि पान्थरमणीप्राणानिलाशाशया धावद्घोरविभावरीविषधरीभोगस्य भीमो मणिः॥ 117 ॥
प्राणायामोपदेष्टा सरसिरुहमुनेर्यौवनोन्मादलीलागोष्ठीनां पीठमर्दस्त्रिभुवनवनितानेत्रयोः प्रातराशः।
कामायुष्टोमयज्वा शमितकुमुदिनीमौनमुद्रानुरागः शृङ्गाराद्वैतवादी प्रभवति भगवानेष पीयूषभानुः॥ 118 ॥
कल्लोलक्षिप्तपङ्कत्रिपुरहरशिरःस्वःस्रवन्तीमृणालं कर्पूरक्षोदजालं कुसुमशरवधूसीधुभृङ्गारनालम्।
एतद्दुग्धाब्धिबन्धोर्गगनकमलिनीपत्रपानीयबिन्दोरन्तस्तोषं न केषां किसलयति जगन्मण्डनं खण्डमिन्दोः॥ 119 ॥
संरम्भोद्रिक्तनक्तंसमयदशमुखोच्चण्डदोर्दण्डहेलाकैलासः सप्तलोकीजयमुदितमनोजन्मवादित्रशङ्खः।
लोलाक्षीगण्डपालीलवणिमजलधेरुद्गतः फेनपिण्डः पश्य व्योमावकाशं विशति विरहिणां दत्तशङ्कः शशाङ्कः॥ 120 ॥
क्वैतन्मार्तण्डबिम्बं सरसि सरसिजश्रेणिहास्यं क्व यातं क्वैते याता रथाङ्गाः सपदि गतह्रियः क्व प्रविष्टा मरालाः।
सन्ध्यारागारुणाङ्गः कुपित इव पतिः प्रोद्यतोऽयं हिमांशुर्मन्ये हर्षादिवेयं हसति कुमुदिनी जाग्रतीवालिनादैः॥ 121 ॥
प्राचीभागे सरागे धरणिविरहिणीक्लान्तवक्त्रे समुद्रे निद्रालौ नीरजालौ विकसति कुमुदे निर्विकारे चकोरे।
आकाशे सावकाशे तमसि शममिते नागलोके सशोके कन्दर्पे मन्ददर्पे वितरति किरणाञ्शर्वरीसार्वभौमः॥ 122 ॥