०३ सकलङ्कचन्द्रवर्णनम्

दोषागमनमाशङ्क्य रविरेष तिरोहितः।
कथमिन्दुः समायाति कुतः शङ्का कलङ्किनः॥ 139 ॥
यक्षं विरहिणं कञ्चित्त्रासयामास तेजसा।
यक्ष एव विलोमेन संल्लग्नोऽभूद्विधौ क्षयः॥ 140 ॥
शिवभालानलोत्थेन धूमयोगेन कालिमा।
विधौ शुक्लतरे किं वा इति मन्मानसाशयः॥ 141 ॥
इन्दोरेककलाया रुद्रेणोद्धृत्य मूर्धनि धृतायाः।
स्थानमिव तुच्छमेतत्कलङ्करूपेण परिणमति॥ 142 ॥
अस्तं गतवति सवितरि पायसपिण्डं सुधाकरं प्राची।
विरचयदम्बरकुशभुवि चरति कलङ्कस्तदन्तरे काकः॥ 143 ॥
कृष्णवर्णहृदयं सितदीप्तिं दुर्धियः किल कलङ्किनमाहुः।
कृष्णवर्णसमुदीरणमात्रादेव यद्गलति दृश्यकलङ्कः॥ 144 ॥
आयताग्रसितरश्मिनिबद्धं लाञ्छनच्छविमषीरसदिग्धम्।
चन्द्रकैतवमरुत्पटचक्रं क्रीडयोत्सृजति किं स्मरबालः॥ 145 ॥
शम्बरारिरमृतं विषगर्भं चन्द्रबिम्बकपटात्प्रयुनक्ति।
यद्बहिः सितमथासितमन्तः प्रोषितान्दहति दर्शनमात्रात्॥ 146 ॥
अयं पुरः पार्वणशर्वरीशः किं दर्पणोऽयं रजनीरमण्याः।
यतस्तदीयं प्रतिबिम्बमस्मिन् संलक्ष्यते लाञ्छनकैतवेन॥ 147 ॥
प्रदोषमातङ्गमनङ्गदेवस्तुङ्गं समारुह्य समागतोऽयम्।
सिन्दूरिते तस्य सुधांशुकुम्भे किमङ्कुशो लक्ष्ममिषेण दत्तः॥ 148 ॥
मम प्रियां कैरविणीं करेण सन्तापयामास दिनाधिनाथः।
इतीव दुःखैर्विकलः कलावान् पपौ विषं लक्ष्ममिषेण सद्यः॥ 149 ॥
कलाधिनाथानयनाय सायं कुमुद्वतीप्रेषित एष भृङ्गः।
किमिन्दुनालिङ्ग्य सरागमङ्‌के कृतः कलङ्कभ्रममातनोति॥ 150 ॥
नेदं नभोमण्डलमम्बुराशिर्नैताश्च तारा नवफेनभङ्गाः।
नायं शशी कुण्डलितः फणीन्द्रो नासौ कलङ्कः शयितो मुरारिः॥ 151 ॥
मधुव्रतौघः कुपितः स्वकीयमधुप्रपापद्मनिमीलनेन।
बिम्बं समाक्रम्य बलात्सुधांशोः कलङ्क1मङ्के ध्रुवमातनोति॥ 152 ॥

अत्रान्तरे च कुलटाकुलवर्त्मपातसञ्जातपातक इव स्फुटलाञ्छनश्रीः।
वृन्दावनान्तरमदीपयदंशुजालैर्दिक्सुन्दरीवदनचन्दनबिन्दुरिन्दुः॥ 153 ॥
अच्छप्रकाशवति चन्द्रमसि प्रियेऽस्मिन्नाह्लादकारिणि सुधावति पूर्णबिम्बे।
धाता विचिन्त्य मनसाखिलदृष्टिपातं हर्तुं चकार किमु कज्जलबिन्दुयोगम्॥ 154 ॥
दष्टे जगद्वपुषि कालभुजङ्गमेन तत्रान्धकारमिषमाविरभूद्विषं यत्।
सञ्जातलक्ष्मणि तदिन्दुमणौ निपाय्य ज्योत्स्नामये पयसि तत्क्षिपति स्म धाता॥ 155 ॥
दिग्यन्त्रतस्तिमिरचूर्णविशेषपूर्णादुद्गत्वरोडुमयरञ्जकविस्फुलिङ्गात्।
कालेन पूर्वगिरिदुर्गजुषा प्रयुक्तो वृत्तोपलो विधुमिषात्पथिकान्हिनस्ति॥ 156 ॥
मन्थानभू2मिधरमूलशिलासहस्रसङ्घट्टनव्रणकिणः3 स्फुरतीन्दुमध्ये।
छाया मृगः शशक इत्यति4पामरोक्तिस्तेषां5 कथञ्चिदपि तत्र हि न प्रसक्तिः॥ 157 ॥

अवाप्तः प्रागल्भ्यं परिणतरुचः शैलतनये कलङ्को नैवायं विलसति शशाङ्कस्य वपुषि।
अमुष्येयं मन्ये विगलदमृतस्यन्दशिशिरे रतिश्रान्ता शेते रजनिरमणी गाढमुरसि॥ 158 ॥
समयशबरो व्योमारण्ये सुधाशनमक्षिकासुविहितसुधाबिम्बक्षौद्रस्पुरत्पटलं प्रति।
कलयति कलङ्काख्यं धूमं निपीड्य पुनश्च तत्किरति मधुरज्योत्स्नाक्षौद्रं महीतलभाजने॥ 159 ॥
रुचिभिरभितष्टङ्कोत्कीर्णैरिव त्रसरेणुभिर्यदुडुभिरपि च्छेदैः स्थूलैरिव भ्रियते नभः।
प्रकृतिमलिनो भास्वद्बिम्बोन्मृजाकृतकर्मणस्तदयमपि हि त्वष्टुः कुन्दे भविष्यति चन्द्रमाः॥ 160 ॥
तरुणतमालकोमलमलीमसमेतदयं कलयति चन्द्रमाः किल कलङ्कमिति ब्रुवते।
तदनृ-तमेव निर्दयविधुंतुददन्तपदव्रणविवरोपदर्शितमिदं हि विभाति नभः॥ 161 ॥
1अङ्गं केऽपि शशङ्किरे जलनिधेः पङ्कं परे मेनिरे सारङ्गं कतिचिच्च सञ्जगदिरे भूच्छायमैच्छन्परे।2
इन्दोर्य3द्दलितेन्द्रनीलशकलश्यामं दरीदृश्यते तत्सान्द्रं4 निशि पीत5मन्धतमसं कुक्षिस्थमाचक्ष्महे॥ 162 ॥

रङ्कावङ्कगते त्रिविष्टपवनीखेलत्कुरङ्गीगणैः साकं क्रीडनकौतुकेन रभसादुत्प्लुत्य याते दिवम्।
तच्छायानुगतात्ममूर्तिरधुना धर्तुं तमेनं शशी मन्दं व्यायतरश्मिजालकलितः खाग्रं समारोहति॥ 163 ॥
काश्मीरेण दिहानमम्बरतलं वामभ्रुवामाननद्वैराज्यं विदधानमिन्दुदृषदां भिन्दानमम्भःसिराः।
प्रत्युद्यत्पुरुहूतपत्तनवधूदत्तार्धदूर्वाङ्कुरक्षीबोत्सङ्गकुरुङ्गमैन्दवमिदं बिम्बं समुज्जृम्भते॥ 164 ॥


  1. मध्यभागे. ↩︎ ↩︎

  2. मन्दरः. ↩︎ ↩︎

  3. चिह्नम्. ↩︎ ↩︎

  4. मूर्खः. ↩︎ ↩︎

  5. छायादीनाम्. ↩︎ ↩︎