०२ ज्योत्स्नावर्णनम्

दलविततिभृतां तले तरूणामिह तिलतण्डुलितं मृगाङ्करोचिः।
मदचपलचकोरचञ्चुकोटीकवलनतुच्छमिवान्तरान्तराभूत्॥ 124 ॥
आलोक्य चन्द्रमसमभ्युदितं समन्तादुद्वेल्लदूर्मिविचलत्कलशाम्बुराशेः।
विष्वग्विसारिपरमाणुपरम्परैव ज्योत्स्नात्मना जगदिदं धवलीकरोति॥ 125 ॥
सितकिरणकपोलीमालिमालोकयन्ती तिमिरविरहतापव्याकुलां व्योमलक्ष्मीम्।
रजनिरमलताराशीकरैः सिक्तमस्याः परिमलयति गात्रं चन्द्रिकाचन्दनेन॥ 126 ॥
अपि पिबत चकोराः कृत्स्नमुन्नाम्य कण्ठं क्रमकवलनचञ्चच्चञ्चवश्चन्द्रिकाम्भः।
विरहविधुरितानां जीवितत्राणहेतोर्भवति हरिमलक्ष्मा येन तेजोदरिद्रः॥ 127 ॥
सह कुमुदकदम्बैः काममुल्लासयन्तः सह घनतिमिरौघैर्धैर्यमुत्सारयन्तः।
सह सरसिजखण्डैः स्वान्तमामीलयन्तः प्रतिदिशममृतांशोरंशवः सञ्चरन्ति॥ 128 ॥
भास्वत्कर्कशशाणचक्रकषणैराकाशकालायसाद्यच्चूर्णं निबिडं निपत्य तम इत्याख्यां जगत्यामगात्।
यच्चेन्दोश्चलसिद्धपारदमहाबिन्दोः समायोगतो जातं रूप्यरजोमयं वयमिदं ज्योत्स्नां समाचक्ष्महे॥ 129 ॥
एतत्तर्कय कैरवक्लमहरे शृङ्गारदीक्षागुरौ दिक्कान्तामुकुरे चकोरसुहृदि प्रौढे तुषारत्विषि।
कर्पूरैः किमपूरि किं मलयजैरालेपि किं पारदैरक्षालि स्फटिकोपलैः किमघटि द्यावापृथिव्योर्वपुः॥ 130 ॥
उन्मीलन्ति मृणालकोमलरुचो राजीवसंवर्तिकासंवर्तव्रतवृत्तयः कतिपये पीयूषभानोः कराः।
अप्युस्रैर्धवलीभवत्सु गिरिषु क्षुब्धोऽयमुन्मज्जता विश्वेनेव तमोमयो निधिरपामह्नाय फेनायते॥ 131 ॥
किं नु ध्वान्तपयोधिरेष कतकक्षोदैरिवेन्दोः करैरत्यच्छोऽयमधश्च पङ्कपटलं छायापदेशादभूत्।
किं वा तत्करकर्तरीभिरभितो निस्तक्षणादुज्ज्वलं व्योमैवेदमितस्ततश्च पतिताश्छायाच्छलेन त्वचः॥ 132 ॥
पौलोमीकुचकुम्भकुङ्कुमरजःस्वाजन्यजन्मोद्धताः शीतांशोर्द्युतयः पुरन्दरपुरीसीम्नामुपस्कुर्वते।
एताभिर्लिहतीभिरन्धतमसान्युद्ग्राथ्नतीभिर्दिशः क्षोणीमास्तृणतीभिरन्तरतमं व्योमेदमोजायते॥ 133 ॥
नैवायं भगवानुदञ्चति शशी गव्यूतिमात्रीमपि द्यामद्यापि तमस्तु कैरवकुलश्रीचाटुकाराः कराः।
मथ्नन्ति स्थलसीम्नि शैलगहनोत्सङ्गेषु सम्रुन्धते जीवग्राहमिव क्वचित्क्वचिदपि च्छायासु गृह्णन्ति च॥ 134 ॥
यन्त्रद्रावितकेतकोदरदलस्रोतश्रियं बिभ्रती येयं मौक्तिकदामगुम्फनविधौ योग्यच्छविः प्रागभूत्।
उत्सेच्या कलशीभिरञ्जलिपुटैर्ग्राह्या मृणालाङ्कुरैः पातव्या च शिशिन्यमुग्धविभवे सा चन्द्रिका वर्तते॥ 135 ॥
मुग्धा दुग्धधिया गवां विदधते कुम्भानधो बल्लवाः कर्णे कैरवशङ्कया कुवलयं कुर्वन्ति कान्ता अपि।
कर्कन्धूफलमुच्चिनोति शबरी मुक्ताफलाकाङ्क्षया सान्द्रा चन्द्रमसो न कस्य कुरुते चित्तभ्रमं चन्द्रिका॥ 136 ॥
इन्दोरस्य त्रियामायुवतिकुचतटीचन्दनस्थासकस्य व्योमश्रीचामरस्य त्रिपुरहरजटावल्लरीकोरकस्य।
कन्दर्पक्षोणिपालस्फटिकमणिगृहस्यैतदाखण्डलाशानासामुक्ताफलस्य स्थगयति जगतीं कोऽपि भासां विलासः॥ 137 ॥
लक्ष्मीक्रीडातडागो रतिधवलगृहं दर्पणो दिग्वधूनां पुष्पं श्यामालतायास्त्रिभुवनजयिनो मन्मथस्यातपत्रम्।
पिण्डीभूतं हरस्य स्मितममरसरित्पुण्डरीकं मृगाङ्को ज्योत्स्नापीयूषवापी जयति सितवृषस्तारकागोकुलस्य॥ 138 ॥