३२ नक्षत्रोदयवर्णनम्

घनतरतिमिरघुणोत्करजग्धानामिव पतन्ति काष्ठानाम्।
छिद्रैरमीभिरुडुभिः किरणव्याजेन चूर्णानि॥ 1 ॥
उद्धर्तुं किल शैलकेलिरभसस्रस्तानि पाथोनिधेरन्तर्भूषणमौक्तिकानि दिविजस्त्रीभिः समुत्कण्ठया।
गाढं तत्र निमज्जितेन रविणा बद्ध्वा दृढं रश्मिभिः प्रोत्क्षिप्तानि निपत्य तानि गगने तारापदेशं दधुः॥ 2 ॥