३१ अभिसारिकासञ्चारकथनम्

मेघा वर्षन्तु गर्जन्तु मुञ्चन्त्वशनिमेव वा।
गणयन्ति न शीतोष्णं रमणाभिमुखाः स्त्रियः॥ 1 ॥
मल्लिकामाल्यभारिण्यः सर्वाङ्गीणार्द्रचन्दनाः।
1क्षौमवत्यो न लक्ष्यन्ते ज्योत्स्नायामभिसारिकाः॥ 2 ॥

मल्लिकाचितधम्मिल्लाश्चारुचन्दनचर्चिताः।
अविभाव्याः सुखं यान्ति चन्द्रिकास्वभिसारिकाः॥ 3 ॥
गर्ज वा वर्ष वा मेघ मुञ्च वा शतशोऽशनिम्।
न शक्या हि स्त्रियो रोद्धुं प्रस्थिता दयितं प्रति॥ 4 ॥
प्राणेशमभिसरन्ती पथि स्खलन्ती सुपिच्छिले मुग्धा।
अवलम्बनाय वारां धारासु करं प्रसारयति॥ 5 ॥
अधियामिनि गजगामिनि कामिनि सौदामिनीव यं व्रजसि।
जलदेनेव न जाने कति कति सुकृतानि तेन विहितानि॥ 6 ॥
जलधर निर्लज्जस्त्वं यन्मां दयितस्य वेश्म गच्छन्तीम्।
स्तनितेन भीषयित्वा धाराहस्तैः परामृशसि॥ 7 ॥
यद्वदहल्याहेतोर्मृषा वदसि शक्र गौतमोऽस्मीति।
तद्वन्ममापि दुःखं निरवेक्ष्य निवार्यतां जलदः॥ 8 ॥
यदि गर्जति वारिधरो गर्जतु तन्नाम निष्ठुराः पुराषाः।
अयि विद्युत्प्रमदानां त्वमपि च दुःखं न जानासि॥ 9 ॥
रभसादभिसर्तुमुद्यतानां वनितानां सखि वारिदो विवस्वान्।
रजनी विदसोऽन्धकारमर्चिर्विपिनं वेश्म विमार्ग एव मार्गः॥ 10 ॥
चन्द्रोदये चन्दनमङ्गकेषु विहस्य विन्यस्य विनिर्गतायाः।
मनो निहन्तुं मदनोऽपि बाणान्करेण कौन्दान्बिभरांबभूव॥ 11 ॥
स्फुरदुरसिजभारभङ्गुराङ्गी किसलयकोमलकान्तिना पदेन।
अथ कथय कथं सहेत गन्तुं यदि न निशासु मनोरथो रथः स्यात्॥ 12 ॥
सञ्चरन्ति मृगनाभिचर्चिता मेचकाम्बरकृतावगुण्ठनाः।
प्राणनाथमभिसर्तुमुद्यताः सुभ्रुवस्तिमिरदेवता इव॥ 13 ॥
क्व प्रस्थितासि करभोरु 1घने नि2शीथे प्राणाधिपो वसति यत्र जनः प्रियो मे।
एकाकिनी वद कथं न बिभेषि बाले नन्वस्ति 3पुङ्खितशरो मदनः सहायः॥ 14 ॥

मन्दं निधेहि चरणौ परिधेहि नीलं वासः पिधेहि वलयावलिमञ्चलेन।
मा जल्प साहसिनि शारदचन्द्रकान्तदन्तांशवस्तव तमांसि समापयन्ति॥ 15 ॥
मूढे निरन्तरपयोधरया मयैव कान्तः सहाभिरमते यदि किं तवात्र।
मां गर्जितैरिति मुहुर्विनिवारयन्ती मार्गं रुणद्धि कुपितेव निशा सपत्नी॥ 16 ॥
उरसि निहितस्तारो हारः कृता जघे घने कलकलवती काञ्ची पादौ रणन्मणिनूपुरौ।
प्रियमभिसरस्येवं मुग्धे त्वमाहतडिण्डिमा यदि किमधिकत्रासोत्कम्पं दिशः समुदीक्षसे॥ 17 ॥
न जल्प दशनत्विषा भवति ते तमिस्रक्षतिस्तरङ्गय दृगञ्चलं भवतु तेन गाढं तमः।
अपीह सखि साध्वसं पथि जहीहि निम्नोन्नते स्मरं समदसिन्धुरं समधिरुह्य निर्गच्छसि॥ 18 ॥
वातोद्धूतमुखी प्रनष्टतिलका तोयार्द्रलीनांशुका मेघानां निनदेन भीतहृदया गत्वा प्रियस्यालयम्।
द्वारं नेच्छति लज्जया प्रलपितुं देहीति वर्षाहता पादौ नूपुरकर्दमप्रतिहतौ संशब्दयन्ती स्थिता॥ 19 ॥
मुक्तं मौक्तिकदाम हेमवलयश्रेणी समुत्सारिता वासो नीलमुरीकृतं नियमितो मञ्जीरकोलाहलः।
गच्छन्त्यास्तव साहसं न सहते तन्वङ्गि सङ्गोपनं धम्मिल्लच्युतमल्लिकापरिमलप्रौढो निशीथानिलः॥ 20 ॥
जाताः प्रासादपालीकनकवलभिकान्यस्तमाणिक्यदीपच्छायाविच्छर्दतुच्छीकृतविरलतमा ये निशीथान्धकाराः।
तेऽमी स्फारीक्रियन्ते प्रतिविशिखमितः कान्तसङ्केतधावद्वामभ्रूमुक्तनेत्रोत्पलतरलतरत्तारकामेचकिम्ना॥ 21 ॥
उत्तंसः केकिपिच्छैर्मरकतवलयैः श्यामले दोःप्रकाण्डे हारः सान्द्रेन्द्रनीलैर्मृगमदरचितो वक्त्रपत्त्रप्रपञ्चः।
नीलाब्जैः शेखरश्रीरसितवसनता चेत्यभीकाभिसारे सम्प्रत्येणेक्षणानां तिमिरभरसखी वर्तते वेषलीला॥ 22 ॥
मलयजरसविलिप्ततनवो नवहारलताविभूषिताः सिततरदन्तपत्त्रकृतवक्त्ररुचो रुचिरामलांशुकाः।
शशभृति विततधाम्नि धवलयति धरामविभाव्यतां गताः प्रियवसतिं प्रयान्ति सुखमेव निरस्तभियोऽभिसारिकाः॥ 23 ॥


  1. दुकूलधारिण्यः. ↩︎ ↩︎

  2. अर्धरात्रे. ↩︎

  3. पुङ्खिताः शरा येन. ↩︎