३० तमोवर्णनम्

लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः।
असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता॥ 1 ॥
अविज्ञातविशेषस्य सर्वतेजोपहारिणः।
स्वामिनो निर्विवेकस्य तमसश्च किमन्तरम्॥ 2 ॥
आपूरितमिदं श्यामतमसंतमसैरलम्।
ब्रह्माण्डमण्डलं भाति सकज्जलकरण्डवत्॥ 3 ॥
तनुलग्ना इव ककुभः क्ष्मावलयं चरणचारपात्रमिव।
वियदपि चालिकदघ्नं मुष्टिग्राह्यं तमः कुरुते॥ 4 ॥
अम्बरविपिनमिदानीं तिमिरवराहोऽवगाहते जलधेः।
रोमसु यदस्य लग्नास्तारकजलबिन्दवो भान्ति॥ 5 ॥
घटितमिवाञ्जनपुञ्जैः पूरितमिव मृगमदक्षोदैः।
ततमिव तमालतरुभिर्वृतमिव नीलांशुकैर्भुवनम्॥ 6 ॥
औषसातपभयादपलीनं वासरच्छविविरामपटीयः।
सन्निपत्य शनकैरिव निम्नादन्धकारमुदवाप समानि॥ 7 ॥
एकतामिव गतस्य विवेकः कस्यचिन्न महतोऽप्युपलेभे।
भास्वता निदधिरे भुवनानामात्मनीव पतितेन विशेषाः॥ 8 ॥
रञ्जिता नु विविधास्तरुशैला नामितं नु गगनं स्थगितं नु।
पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेण॥ 9 ॥
रात्रिरागमलिनानि विकासं पङ्कजानि रहयन्ति विहाय।
स्पष्टतारकमियाय नभःश्रीर्वस्तुमिच्छति निरापदि सर्वः॥ 10 ॥
नोर्ध्वमीक्षणगतिर्न चाप्यधो नाभितो न पुरतो न पृष्ठतः।
लोक एष तिमिरौघवेष्टितो गर्भवास इव वर्तते निशि॥ 11 ॥
शुद्धमाविलमवस्थितं चलं वक्रमार्जवगुणान्वितं च यत्।
सर्वमेव तमसा समीकृतं धिङ्महत्त्वमसतां हतान्तरम्॥ 12 ॥
पिदधति1 ति2मिरे समस्तलोकं प्रलयमहाब्धिनिभे भृतोच्चनीचे।
व्यरुचदुडुगणो 3वलक्षरोचिर्बहुविधफेनसमूहतुल्यरूपः॥ 13 ॥

पतिते पतङ्गमृगराजि निजप्रतिबिम्बरोषित इवाम्बुनिधौ।
अथ नागयूथमलिनानि जगत्परितस्तमांसि परितस्तरिरे॥ 14 ॥
व्यसरन्नु भूधरगुहान्तरतः पटलं बहिर्बहलपङ्करुचि।
दिवसावसानपटुनस्तमसो बहिरेत्य चाधिकमभक्त गुहाः॥ 15 ॥
किमलम्बताम्बरविलग्नमधः किमवर्धतोर्ध्वमवनीतलतः।
विससार तिर्यगथ दिग्भ्य इति प्रचुरीभवन्न निरधारि तमः॥ 16 ॥
स्थगिताम्बरक्षितितले परितस्तिमिरे जनस्य दृशमन्धयति।
दधिरे रसाञ्जनमपूर्वमतः प्रियवेश्मवर्त्म सुदृशो ददृशुः॥ 17 ॥
अवधार्य कार्यगुरुतामभवन्न भयाय सान्द्रतमसन्तमसम्।
सुतनोः स्तनौ च दयितोपगमे तनुरोमराजिपथवेपथवे॥ 18 ॥
ददृशेऽपि भास्कररुचाह्नि न यः स तमीं तमोभिरभिगम्य तताम्।
द्युतिमग्रहीद्ग्रहगणो लघवः प्रकटीभवन्ति मलिनाश्रयतः॥ 19 ॥
अनुलेपनानि कुसुमान्यबलाः कृतमन्यवः पतिषु दीपशिखाः।
समयेन तेन चिरसुप्तमनोभवबोधनं सममबोधिषत॥ 20 ॥
विवस्वतानायिषतेव मिश्राः स्वगो4सहस्रेण समं जनानाम्।
गावोऽपि नेत्रापरनामधेयास्तेनेदमान्ध्यं खलु नान्धकारैः॥ 21 ॥

चरमगिरिनिकुञ्जमुष्णभानौ भगवति गच्छति विप्रयोगखिन्ना।
मुकुलितनयनाम्बुजा धरित्री वपुषि बभार तमांसि शैवलानि॥ 22 ॥
काश्मीरगौरवपुषामभिसारिकाणामाबद्धरेखमभितो मणिमञ्जरीभिः।
एतत्तमालदलनीलतमं तमिस्रं तत्प्रेमहेमनिकषोपलतां तनोति॥ 23 ॥
उद्दामदिग्द्विरदचञ्चलकर्णपूरगण्डस्थलोच्चलदलिस्तबकाकृतीनि।
मीलन्नभांसि मृगनाभिसमानभांसि दिक्कन्दरेषु विलसन्तितमां तमांसि॥ 24 ॥
सिन्धोः सुधांशुशकलं परिगृह्य सन्ध्याक्षेमंकरी निपतिताम्बरभूरुहाग्रे।
चञ्चूपुटेन चपलेन तया विकीर्णास्तारामिषेण पतिता इव पक्षखण्डाः॥ 25 ॥
व्यसनिन इव विद्या क्षीयते पङ्कजश्रीर्गुणिन इव विदेशे दैन्यमायान्ति भृङ्गाः।
कुनृपतिरिव लोकं पीडयत्यन्धकारो धनमिव कृपणस्य व्यर्थतामेति चक्षुः॥ 26 ॥
इदं नभसि भीषणभ्रमदुलूककोलाहलैर्निशाचरविलासिनीनिवहदत्तनेत्रोत्सवम्।
परिस्फुरति निर्भरप्रचुरपङ्कमग्नोल्लसद्वराहकुलमांसलप्रबलबन्धमन्धं तमः॥ 27 ॥
पुरः पूर्वामेव स्थगयति ततोऽन्यामपि दिशं क्रमात्क्रामन्नद्रिद्रुमपुरविभागांस्तिरयति।
उपेतः पीनत्वं तदनु भवनस्येक्षणपथं तमःसङ्घातोऽयं हरति हरकण्ठद्युतिहरः॥ 28 ॥
अमुष्मिन्नुद्यानद्रुमकुहरनीरन्ध्रभरिते तमःखण्डे पिण्डीकृतबहलकालायसघने।
1यतामद्यास्माकं कथमपि पुरोन्यस्तचरणं निमेषेऽप्युन्मेषे नहि नहि विशेषो नयनयोः॥ 29 ॥

2काकोलं कलकण्ठिका कुवलयं 3कादम्बिनी कर्दमः
कंसारिः 4कबरी कृपाणलतिका5 कस्तूरिका कज्जलम्।
कालिन्दी कषपट्टिका 6करिघटा कामारिकण्ठस्थली
यस्यैते 7करदा भवन्ति सखि तद्वन्दे विनिद्रं तमः॥ 30 ॥

डोकानीय-मोहितः (द्रष्टुं नोद्यम्)

🌞 काकोलो द्रोणकाकः कलकण्ठिका कोकिला कुवलयं नीलोत्पलं कादम्बिनी मेघावलिविशेषः कर्दमः कंसारिः कृष्णः कबरी सज्जितकेशः कृपाणलतिका लताभेदः कस्तूरिका कज्जलं कालिन्दी यमुना कषपट्टिका कर्षणशिला करिघटा गजसमूहः कामारिकण्ठस्थली शिवकण्ठं च यस्य तमस एते करदाः सहाया भवन्ति सखि मित्र तद् तं वन्दे विनिद्रं विशिष्टनिद्रितः तमोऽन्धकारः॥

🌷 हे सखि, मैं उस निद्रित अंधकार को प्रणाम करता हूँ, जिसके कौआ, कोयल, कुमुद, कादम्बरी मेघ, कीचड़, श्रीकृष्ण, सजी हुई केशरचना, तलवार जैसी बेल विशेष, कस्तूरी, काजल, यमुना नदी, कसौटी, हाथियों का समूह और शिव का काला कंठ (कालिमा के कारण) सहायक हैं।

🌹 O friend, I bow down to that sleepy darkness, to whom the raven, the Indian cuckoo, the water lily, the Kādambari rain-cloud, the mud, Krishna, the styled hair, the sword-like creeper, the musk, the kohl, The Yamuna River, the touchstone, the group of elephants, and the black throat of Shiva lend their support (due to their dark colour).

किं भूमौ परितः स्फुरन्ति करिणः कस्तूरिकाया रसैः सिक्ताः किं निखिला दिशः किमखिलं व्याप्तं मषीभिर्नभः।
किं व्याप्तं भुवनं समस्तमपि च श्रीकण्ठकण्ठत्विषा कालिन्दीजलकान्तिभाजि निबिडे जातेऽन्धकारेऽधुना॥ 31 ॥
सद्यः सान्द्रमषीविलुप्तककुभः स्निग्धेन्द्रनीलद्रवव्यामीलन्नभसो निरन्तरमिलन्नीलीरसश्च्योतिनः।
एते कोकिलकायकालिमहृतो लुम्पन्ति वृत्तिं दृशोरुन्निद्राञ्जनपुञ्जमेचकरुचो भीमास्तमप्रक्रमाः॥ 32 ॥
चिन्वच्चोरचि8कीर्षितानि घटयद्वेतालगोष्ठीसुखं तन्वानं 9शवसाधनोद्धतरसं निर्व्याजवीरात्मनाम्।
कुर्वत्कामकृशानुतप्तमनसां गुप्ताङ्गनासङ्गमं दृप्यत्कोकिलकालकण्ठमलिनं ध्वान्तं समुज्जृम्भते॥ 33 ॥

नाकाशं न दिशो न भूधरकुलं नाम्भोधयो न क्षितिर्न द्यौर्नाम्बुधरा न तीव्रकिरणो नेन्दुर्न तारागणः।
एतैः षट्पदकायकान्तिपटलीपाण्डित्यवैतण्डिकैः कल्लोलैस्तमसामसाम्प्रतमयं विश्वव्ययः कल्प्यते॥ 34 ॥
एतद्व्योमवनीवराहवलयं विश्वैकवीरस्मरस्कन्धावारमदान्धसिन्धुरकुलं श्यामावधूकैशिकम्।
चक्षुष्याञ्जनवस्तु धूकसदसां विश्लिष्टचक्राह्वयस्तोमान्तर्गतधूमकेतनमहाधूम्या तमस्तार्यते॥ 35 ॥
सर्वे ध्वान्तमिदं वदन्तु बहुधा सिद्धान्त एवं तु नः स्वाधारेषु करेषु पुष्करमणेः स्रस्तेषु नूनं शनैः।
अस्तालम्बतयाम्बरेण पतता ग्रस्ते समस्ते जगत्युन्मीलत्करकन्दलैरपि विधोस्तत्तावदुत्तार्यते॥ 36 ॥
विश्वं चाक्षुषमस्तमस्ति हि तमःकैवल्यमौपाधिकप्राच्यादिव्यवहारबीजविरहाद्दिङ्मात्रमेव स्थितम्।
गृह्यन्ते भयहेतवः पटुभिरप्यक्षान्तरैर्भाति च ध्वान्तेनातिघनेन वस्तु वचसा ज्ञातः स्वरेणामुकः॥ 37 ॥
व्योम्नि प्राङ्गणसीम्नि साध्यकिरणं विस्तार्य चेलाञ्चलं ध्वान्तैः कार्मणपांसुभिश्च जगतां द्राङ् मोहयित्वा दृशौ।
ताराशौक्तिकमौक्तिकानि विहगश्रेणीरवच्छद्मना जिंजिंकृत्य च मायिकः स्मरनटो वक्त्राद्बहिर्वर्षति॥ 38 ॥
उत्खातच्छिन्नसन्ध्यारुणकमलवनो व्योमकासारमध्यं मन्ये मत्तो निशीथाह्वयवनमहिषो मङ्क्ष्वविक्षन्मिमक्षुः।
तत्कालोद्भिद्यमानः सह तनुपृथुभिस्तारकाबुद्बुदौघैस्तस्मादेवोज्जिहीते कलुषितभुवनं भीषणो ध्वान्तपङ्कः॥ 39 ॥
चूडारत्नैः स्फुरद्भिर्विषधरविवराण्युज्ज्वलानुज्ज्वलानि प्रेक्ष्यन्ते चक्रवाकीमनसि निविशते सूर्यकान्तात्कृशानुः।
किं चामी शल्ययन्तस्तिमिरमुभयतो निर्भराहस्तमिस्रासङ्घट्टोत्पिष्टसन्ध्याकणनिकरपरिस्पर्धिनो भान्ति दीपाः॥ 40 ॥


  1. तिरोदधति सति. ↩︎ ↩︎

  2. अन्धकारे. ↩︎ ↩︎

  3. धवलकान्तिः. ↩︎ ↩︎

  4. किरणाः. ↩︎ ↩︎

  5. खङ्गलतिका. ↩︎

  6. गजसमूहः. ↩︎

  7. करप्रदाः. ↩︎

  8. कर्तव्यकर्माणि. ↩︎

  9. प्रेतसाधनविधिः. ↩︎