व्योमपात्रमपि चैकपाणिना विस्फुटोडुकुसुमानि बिभ्रती।
अन्यपाणिकलितेन्दुदर्पणा कामिनीव रजनीयमागता॥ 1 ॥
नृपतिपुरषशङ्कितप्रचारं परगृहदूषणनिश्चितैकवीरम्।
घनतिमिरनिरुद्धसर्वभावा रजनिरियं जननीव संवृणोति॥ 2 ॥
अस्तोदयाचलविलम्बिरवीन्दुबिम्बव्याजात्क्षणं श्रवणयोर्निहितारविन्दा।
ताराच्छलेन कुसुमानि समुत्क्षिपन्ती सन्ध्येयमागतवती प्रमदेव काचित्॥ 3 ॥
शशाङ्के सन्नद्धे भरत इव सन्ध्यायवनिका तिरोभूत्वा पुष्पाञ्जलिमिव विकीर्योडुनिकरम्।
कलं गायन्तीभिः कुमुदवनभृङ्गीभिरधुना नभोरङ्गं प्राप्ता विहरति निशालासिकवधूः॥ 4 ॥
उन्मुक्ताभिर्दिवसमधुना सर्वतस्ताभिरेव स्वच्छायाभिर्निचुलितमिव प्रेक्ष्यते विश्वमेतत्।
पर्यन्तेषु ज्वलति जलधौ रत्नसानौ च मध्ये चित्राङ्गीयं रमयति तमःस्तोमनीला धरित्री॥ 5 ॥
ज्योत्स्नाभस्मच्छु1रणधवला बिभ्रती तारकास्थीन्यन्तर्धानव्य2सनरसिका रात्रि3कापालिकीयम्।
द्वीपाद्द्वीपं भ्रमति दधती चन्द्रमुद्राकपाले न्यस्तं सिद्धाञ्जनपरिमलं लाञ्छनस्य च्छलेन॥ 6 ॥