२८ सन्ध्यावर्णनम्

उच्चैस्तरादम्बरशैलमौलेश्च्युतो रविर्गैरिकगण्डशैलः।
तस्यैव पातेन विचूर्णितास्य सन्ध्यारजोराजिरिवोज्जिहीते॥ 1 ॥
विहिताञ्जलिर्जनतया दधती विकसत्कुसुम्भकुसुमारुणताम्।
चिरमुज्झितापि तनुरौज्झदसौ न पितृप्रसूः प्रकृतिमात्मभुवः॥ 2 ॥
अथ सान्द्रसान्ध्यकिरणारुणितं हरिहेतिहूति मिथुनं पततोः।
पृथगुत्पपात विरहार्तिदलद्धृदयस्नुतासृगनुलिप्तमिव॥ 3 ॥
निलयः श्रियः सततमेतदिति प्रथितं यदेव जलजन्म तया।
दिवसात्ययात्तदपि मुक्तमहो चपलाजनं प्रति न चोद्यमदः॥ 4 ॥
विदसोऽनुमित्त्रमगमद्विलयं किमिहास्यते बत मयाबलया।
रुचिभर्तुरस्य विरहाधिगमादिति सन्ध्ययापि सपदि व्यगमि॥ 5 ॥
मुग्धस्य केलिविजितस्मरचापयष्टेरातन्वती रुचिमतीव सुधाकरस्य।
रागोद्धुरा स्फुटमुदञ्चिततारकश्रीः सन्ध्याविरस्ति ननु कापि पतिं वरेव॥ 6 ॥