२७ चक्रवाकावस्थाख्यानम्

रतिकेलिकलः कश्चिदेष मन्मथमन्थरः।
पश्य सुभ्रु समाश्वस्तां कादम्बश्चुम्बति प्रियाम्॥ 1 ॥
दष्टतामरसकेसरत्यजोः क्रन्दतोर्विपरिवृत्तकण्ठयोः।
निघ्नयोः सरसि चक्रवाकयोरल्पमन्तरमनल्पतां गतम्॥ 2 ॥
आतपे धृतिमता सह वध्वा यामिनीविरहिणा विहगेन।
सेहिरे न किरणा हिमरश्मेर्दुःखिते मनसि सर्वमसह्यम्॥ 3 ॥
गम्यतामुपगते नयनानां लोहितायति सहस्रमरीचौ।
आससाद विरहय्य धरित्रीं चक्रवाकहृदयान्यभितापः॥ 4 ॥
इच्छथां सह वधूभिरभेदं यामिनीविरहिणां विहगानाम्।
आपुरेव मिथुनानि वियोगं लङ्घ्यते न खलु कालनियोगः॥ 5 ॥
यच्छति प्रतिमुखं दयितायै वाचमन्तिकगतेऽपि शकुन्तौ।
नीयते स्म नतिमुज्झितहर्षं पङ्कजं मुखमिवाम्बुरुहिण्या॥ 6 ॥
आयाति याति पुनरेव जलं प्रयाति पद्माङ्कुरं च विचिनोति धुनोति पक्षम्।
उन्मत्तवद्भ्रमति कूजति मुक्तकण्ठः कान्तावियोगविधुरो निशि चक्रवाकः॥ 7 ॥
एकेणाक्ष्णा प्रविततरुषा वीक्षते लम्बमानं भानोर्बिम्बं जलविलुलितेनापरेण स्वकान्तम्।
अह्नश्छेदे दयितविरहाशङ्किनी चक्रवाकी द्वौ सङ्कीर्णौ रचयति रसौ नर्तकीव प्रगल्भा॥ 8 ॥
वापीतोयं तटरुहवनं पद्मिनीपत्रशय्या चन्द्रालोको विकचकुसुमामोदहृद्यः समीरः।
यत्रैतेऽपि प्रियविरहिणो दाहिनश्चक्रनाम्नस्तत्रोपायः क इव भवतु प्राणसङ्धारणो यः॥ 9 ॥
चक्राह्लो विरही हतोऽपि हृदये बाणेन न त्यक्तवान्प्राणान्प्राणसमासमागमसुखध्यानैकतानश्चिरम्।
स्वां छायामवलोक्य वारिणि गलद्रक्तामवेक्ष्य प्रियां भ्रान्तस्तद्व्रणवेदनापरिगतः कष्टं मृतः साम्प्रतम्॥ 10 ॥
तीरात्तीरमुपैति रौति करुणं चिन्तां समालम्बते किञ्चिद्ध्यायति निश्चलेन मनसा योगीव युक्तेक्षणः।
स्वां छायामवलोक्य कूजति पुनः कान्तेति मुग्धः खगो धन्यास्ते भुवि ये निवृत्तमनसो धिग्दुःखितान्कामिनः॥ 11 ॥
मित्रे क्वापि गते सरोरुहवने बद्धानने ताम्यति क्रन्दत्सु भ्रमरेषु वीक्ष्य दयिताश्लिष्टं पुरः सारसम्।
चक्राह्वेन वियोगिना बिसलता नास्वादिता नोज्झिता वक्त्रे केवलमर्गलेव निहिता जीवस्य निर्गच्छतः॥ 12 ॥
भङ्क्त्वा भोक्तुं न भुङ्क्ते कुटिलबिसलताकोटिमिन्दोर्वितर्कात्ताराकारास्तृषार्तः पिबति न पयसां विप्रुषः पत्त्रसंस्थाः।
छायामम्भोरुहाणामलिकुलसबलां वेत्ति सन्ध्यामसन्ध्यां कान्ताविश्लेषभीरुर्दिनमपि रजनी मन्यते चक्रवाकः॥ 13 ॥