मन्त्रसंस्कारसम्पन्नास्तन्वदौदवन्वतीरपः।
एतत्त्रयीमयं ज्योतिरादित्याख्यं निमज्जति॥ 1 ॥
तापनैरिव तेजोभिर्दग्धनिर्वाणमेचकाः।
दिशो जाताः प्रतीची तु समुदाचरति क्रमात्॥ 2 ॥
पुराणरश्मिजालेषु स्रस्तेष्वस्तावलम्बनम्।
बिम्बमम्बुरुहां नेतुरम्बरादवलम्बते॥ 3 ॥
विलोक्य सङ्गमे रागं पश्चिमाया विवस्वतः।
कृतं कृष्णं प्राच्या नहि नार्यो विनेर्ष्यया॥ 4 ॥
करिष्यति कलानाथः कुतुकी करमम्बरे।
इति निर्वापयामास रविदीपं निशाङ्गना॥ 5 ॥
निलीयमानैर्विहगैर्निमीलद्भिश्च पङ्कजैः।
विकसन्त्या च मालत्या गतोऽस्तं ज्ञायते रविः॥ 6 ॥
1अस्तं गतवति सवितरि भर्तरि मधुपं निवेश्य कोशान्ते।2
कमलिन्योऽपि रमन्ते किमत्र चित्रं मृगाक्षीणाम्॥ 7 ॥
कृतोपकारं प्रियबन्धुमर्कं मा द्राक्ष्म हीनांशुमधः पतन्तम्।
इतीव मत्वा नलिनीवधूभिर्निमीलितान्यम्बुरुहेक्षणानि॥ 8 ॥
सान्ध्यरागरुधिरारुणमारान्निष्पपात रविमण्डलमब्धौ।
1क्रूरकालकरवालविलूनं वासरस्य सहसैव शिरो नु॥2)॥ 9 ॥
नो रविर्न च तमो न तमीशो न द्युतिर्ग्रहगणो न च सन्ध्या।
यादृशी प्रथमतः किल सृष्टेस्तादृगेव भुवनं श्रियमूहे॥ 10 ॥
भानुबिम्बमिदमस्तगामि च प्रोद्यतं कुमुदबन्धुमण्डलम्।
दृश्यते रतिपतेः प्रवासिनां क्रोधरक्तमिव लोचनद्वयम्॥ 11 ॥
स्थानमाह्निकमपास्य दन्तिनः सल्लकीविटपभङ्गवासितम्।
आविभातचरणाय गृह्णते वारि वारिरुहबद्धषट्पदम्॥ 12 ॥
पश्य पश्चिमदिगन्तलम्बिना निर्मितं कथमिदं विवस्वता।
दीर्घया प्रतिमया सरोम्भसां तापनीयमिव सेतुबन्धनम्॥ 13 ॥
उत्तरन्ति विनिकीर्य पल्वलं गाढपङ्कमतिवाहितातपाः।
दंष्ट्रिणो वनवराहयूथपा दष्टभङ्गुरबिसाङ्कुरा इव॥ 14 ॥
एष वृक्षशिखरे कृतास्पदो जातरूपरसगौरमण्डलः।
हीयमानमहरत्ययातपं पीवरोरु पिबतीव बर्हिणः॥ 15 ॥
पूर्वभागतिमिरप्रवृत्तिभिर्व्यक्तपङ्कमिव जातमेकतः।
खं हृतातपजलं विवस्वता भाति किञ्चिदिव शेषवत्सरः॥ 16 ॥
आविशद्भिरुटजाङ्गणं मृगैर्मूलसेकसरसैश्च वृक्षकैः।
आश्रमाः प्रविशदग्र्यधेनवो बिभ्रति श्रियमुदीरिताग्नयः॥ 17 ॥
बद्धकोशमपि तिष्ठति क्षणं सावशेषविवरं कुशेशयम्।
षट्पदाय वसतिं ग्रहीष्यते प्रीतिपूर्वमिव दातुमन्तरम्॥ 18 ॥
दूरलग्नपरिमेयरश्मिना वारुणी दिगरुणेन भानुना।
भाति केसरवतेव मण्डिता बन्धुजीवतिलकेन कन्यका॥ 19 ॥
सान्ध्यमस्तमितशेषमातपं रक्तलेखमपरा बिभर्ति दिक्।
सम्परायवसुधा सशोणितं मण्डलाग्रमिव तिर्यगुत्थितम्॥ 20 ॥
कोऽत्र भूमिवलये जनान्मुधा तापयन्सुचिरमेति सम्पदम्।
वेदयन्निति दिनेन भानुमानाससाद चरमाचलं ततः॥ 21 ॥
मध्यमोपलनिभे लसदंशावेकतश्च्युतिमुपेयुषि भानौ।
द्यौरुवाह परिवृत्तिविलोलां हारयष्टिमिव वासरलक्ष्मीम्॥ 22 ॥
अंशुपाणिभिरतीव पिपासुः पद्मजं मधु भृशं रसयित्वा।
क्षीबतामिव गतः क्षितिमेष्यल्लोहितं वपुरुवाह पतङ्गः॥ 23 ॥
मुक्तमूललघुरुज्झितपूर्वः पश्चिमे नभसि सम्भृतसान्द्रः।
सामि मज्जति रवौ न विरेजे खिन्नजिह्म इव रश्मिसमूहः॥ 24 ॥
कान्तदूत्य इव कुङ्कुमताम्राः सायमण्डनमभि त्वरयन्त्यः।
सादरं ददृशिरे वनिताभिः सौधजालपतिता रविभासः॥ 25 ॥
अग्रसानुषु नितान्तपिशङ्गैर्भूरुहान्मृदुकरैरवलम्ब्य।
अस्तशैलगहनं नु विवस्वानाविशेश जलधिं नु महीं नु॥ 26 ॥
आकुलश्चलपतत्रिकुलानामारवैरनुदितौषसरागः।
आययावहरिदश्वविपाण्डुस्तुल्यतां दिनमुखेन दिनान्तः॥ 27 ॥
आस्थितः स्थगितवारिदपङ्क्त्या सन्ध्यया गगनपश्चिमभागः।
सोर्मिविद्रुमवितानविभासा रञ्जितस्य जलधेः श्रियमूहे॥ 28 ॥
प्राञ्जलावपि जने नतमूर्ध्नि प्रेम तत्प्रवणचेतसि हित्वा।
सन्ध्ययानुविदधे विरमन्त्या चापलेन सुजनेतरमैत्त्री॥ 29 ॥
अभितापसम्पदमथोष्णरुचिर्निजतेजसामसहमान इव।
पयसि प्रपित्सुरपराम्बनिधेरधिरोढुमस्तगिरिमभ्यपतत्॥ 30 ॥
गतया पुरः प्रतिगवाक्षमुखं दधती रतेन भृशमुत्सुकताम्।
मुहुरन्तरालभुवमस्तगिरेः सवितुश्च योषिदमिमीत दृशा॥ 31 ॥
विरलातपच्छविरनुष्णवपुः परितो विपाण्डु दधदभ्रशिरः।
अभवद्गतः परिणतिं शिथिलः परिमन्दसूर्यनयनो दिवसः॥ 32 ॥
अपराह्णशीतलतरेण शनैरनिलेन लोलितलताङ्गुलये।
निलयाय शाखिन इवाह्वयते ददुराकुलाः खगकुलानि गिरः॥ 33 ॥
उपसन्ध्यमास्त तनु सानुमतः शिखरेषु तत्क्षणमशीतरुचः।
करजालमस्तसमयेऽपि सतामुचितं खलूच्चतरमेत्य पदम्॥ 34 ॥
नवकुङ्कुमारुणपयोधरया स्वकरावसक्तरुचिराम्बरया।
अतिसक्तिमेत्य वरुणस्य दिशा भृशमन्वरज्यदतुषारकरः॥ 35 ॥
गतवत्यराजत जपाकुसुमस्तबकद्युतौ दिनकरेऽवनतिम्।
बहलानुरागकुरुविन्ददलप्रतिबद्धमध्यमिव दिग्वलयम्॥ 36 ॥
द्रुतशातकुम्भनिभमंशुमतो वपुरर्धमग्नवपुषः पयसि।
रुरुचे विरञ्चिनखभिन्नबृहज्जगदण्डकैकतरखण्डमिव॥ 37 ॥
1अनुरागवन्तमपि लोचनयोर्दधतं वपुः सुखमतापकरम्।
2निरकासयद्रवि3मपेतवसुं वियदालया4दपरदिग्गणिका॥ 38 ॥
अभितिग्मरश्मि चिरमा विरमादवधानखिन्नमनिमेषतया।
विगलन्मधुव्रतकुलाश्रुजलं न्यमिमीलदब्जनयनं नलिनी॥ 39 ॥
अविभाव्यतारकमदृष्टहिमद्युतिबिम्बमस्तमितभानु नभः।
अवसन्नतापमतमिस्रमभादपदोषतैव विगुणस्य गुणः॥ 40 ॥
रुचिधाम्नि भर्तरि भृशं विमलाः परलोकमभ्युपगते विविशुः।
ज्वलनं त्विषः कथमिवेतरथा सुलभोऽन्यजन्मनि स एव पतिः॥ 41 ॥
महद्भिरोघैस्तमसामभिद्रुतो भयेऽप्यसंमूढमतिर्भ्रमन्क्षितौ।
प्रदीपवेषेण गृहे गृहे स्थितो विखण्ड्य देहं बहुधेव भास्करः॥ 42 ॥
अयमसौ गगनाङ्गणदीपकस्तरलकालभुजङ्गशिखामणिः।
क्षणविडम्बितवाडवविग्रहः पतति वारिनिधौ विधुरो रविः॥ 43 ॥
अभिभूय सतामवस्थितिं जडजेषु प्रतिपाद्य च श्रियम्।
जगतीपरितापकृत्कथं जलधौ नावपतेदसौ रविः॥ 44 ॥
परिपतति पयोनिधौ पतङ्गः सरसिरुहामुदरेषु मत्तभृङ्गः।
उपवनतरुकोटरे विहंगस्तरुणिजनेषु शनैः शनैरनङ्गः॥ 45 ॥
शुचिरिति परितः प्रसिद्धिभाजि प्रकटिततेजसि दुर्जये कृशानौ।
निज1वसुनिकुरम्भमस्तवेलाव्यतिकरवान्निदधे2 3सरोजबन्धुः॥ 46 ॥
जगदिव बहुलातपाभितप्तं जनयितुमद्य जलाभिषेकशीतम्।
परिधृतरविशातकुम्भकुम्भा प्रचलति पश्चिमवारिधिं दिनश्रीः॥ 47 ॥
पतति रविरपूर्ववारिराशौ हृदि पथिकस्य यथात्मभूर्हुताशः।
प्रसरति चरमां तमःप्ररोहः प्रतिपदमद्य यथा मनोविमोहः॥ 48 ॥
अस्तावलम्बिरविबिम्बतयोदयाद्रिचूडोन्मिषत्सकलचन्द्रतया च सायम्।
सन्ध्याप्रनृत्तहरहस्तगृहीतकांस्यतालद्वयेव समलक्ष्यत नाकलक्ष्मीः॥ 49 ॥
यातोऽस्मि पद्मनयने समयो ममैष सुप्ता मयैव भवती प्रतिबोधनीया।
4प्रत्यायनामयमितीव 5सरोरुहिण्याः सूर्योऽस्तमस्तकनिविष्टकरः। करोति॥ 50 ॥
कृत्वा प्रबुद्धकमलामखिलां त्रिलोकीमम्भोनिधेर्विशति गर्भमसाविदानीम्।
अन्तःप्रसुप्तहरिनाभिसरोजबोधकौतूहलीव भगवानरविन्दबन्धुः॥ 51 ॥
पूर्वां क्षणक्रमनिरस्तसमस्तरागां हित्वा निजान्तिकमुपेत्य रवौ सरागे।
आलोकतः पुनरमुष्य धृतप्रसादा जाता चिरेण चरमा परमानुरक्ता॥ 52 ॥
स्पृष्टोल्लसत्किरणकेसरसूर्यबिम्बविस्तीर्ण6कर्णिकमथो दिव7सारविन्दम्।
8श्लिष्टाष्टदिग्दलकलापमुषावतारबद्धान्धकारमधुपावलि सञ्चुकोच॥ 53 ॥
पृथु गगनक9बन्धस्कन्धचक्रं किमेतत्किमु रुधिरकपालं [^10]कालकापालिकस्य।
कललभरितमन्तः किं नु 10तार्क्ष्याण्डखण्डं प्रजनयति वितर्कं सान्ध्यमर्कस्य बिम्बम्॥ 54 ॥
(10. काल एव कापालिको भिक्षुः.
अयमपि खरयोषित्कर्णकाषायमीषद्विसृमरतिमिरोर्णाजर्जरोपान्तमर्चिः।
मदकलकलविङ्कीकाकुनान्दीकरेभ्यः क्षितिरुहशिखरेभ्यो भानुमानुच्चिनोति॥ 55 ॥
गतवति दिननाथे पश्चिमक्ष्माधरान्तं शिशिरकरमयूखैर्निर्भरं दह्यमाना।
परिहृतमिलितालिः पान्थकान्तेव दीना सपदि कमलिनीयं हास्यहीना बभूव॥ 56 ॥
उदयगिरितटस्थः पद्मिनीर्बोधयित्वा मृदुतरकिरणाग्रैस्ताः स्वयं चोपभुज्य।
मलिनमधुपसङ्गात्तासु सञ्जातकोपः कृतरुधिरविरोचिर्भानुरस्तं प्रयातः॥ 57 ॥
अयमपि पुरुहूतप्रेयसीमूर्ध्नि पूर्णः कलश इव सुधांशुः साधुरुल्लालसीति।
मदनविजययात्राकालविज्ञापनाय स्फुरति जलधिमध्ये ताम्रपात्रीव भानुः॥ 58 ॥
रवेरस्तं तेजः प्रमुदयति खद्योतपटली मरालाली मूका कलकलपरोलूकपटली।
इदं कष्टं दृष्ट्वा चिरमसहमाना कमलिनी भ्रमद्भृङ्गव्याजात्कवलयति हालाहलमिव॥ 59 ॥
सैरन्ध्रीकरकृष्टकङ्कणसरद्धीरध्वनिः सञ्चरद्दूतीसूत्रितसन्धिविग्रहविधिः सोल्लासलीलाधरः।
वारस्त्रीजनसज्जमानशयनः संनद्धपुष्पायुधः श्रीखण्डद्रवधौतसौधशिखरो रम्यः क्षणो वर्तते॥ 60 ॥
1विश्लेषाकुलचक्रवाकमिथुनैरुत्पक्षमाक्रन्दितं कारुण्यादिव मीलितासु नलिनीष्वस्तं च मित्त्रे गते।
शोकेनेव दिगङ्गनाभिरभितः श्यामायमानैर्मुखैर्निःश्वासानिलधूमवर्तय इवोद्गीर्णास्तमोराजयः॥ 61 ॥
निर्यद्वासरजीवपिण्डकरणिं बिभ्रत्कवोष्णैः करैर्माञ्जिष्ठं रविबिम्बमम्बरतलादस्ताचलं चुम्बति।
किं च स्तोकतमःकलापकलनाश्यामायमानं मनाग्धूमश्यामपुराणचित्ररचनारूपं जगज्जायते॥ 62 ॥
सन्ध्याताण्डवचण्डदण्डपरशुप्रारब्धभीमभ्रमीवेगस्रस्तकपर्दवासुकिफणामाणिक्यशङ्कावहम्।
मग्नं पाथसि पश्चिमस्य जलधेर्मार्तण्डबिम्बं ततो ध्वान्तैर्भूतगणैरगाहि भुवनं मन्ये तदन्वेषिभिः॥ 63 ॥
पाश्चात्याम्बुधिदृष्टपूर्ववडवासन्दर्शनोत्कण्ठया धावद्रथ्यतुरङ्गनिष्ठुरखुरक्षुण्णेऽस्तशैलस्थले।
तस्मादुच्चलितेन धातुरजसा लिप्तानुरक्ताङ्गको मन्दांशुः प्रियदर्शनः खलु सहस्रांशुर्दरीदृश्यते॥ 64 ॥
तद्रोदोऽन्तरसन्ततान्धतमसं निर्भिद्य तिग्मांशुभिः संछेत्तुं बलिसद्मगं कृतमतिर्भानुर्जगाहेऽम्बुधिम्।
अन्यत्सम्प्रति सन्निपत्य वृणुते लोके तमोमण्डलं किं चैतस्य नयत्यहो परिभवं पाथोजिनीं वल्लभाम्॥ 65 ॥
द्रागैन्द्रीमनुचुम्ब्य सस्मितमुखीमामोदिनीं पद्मिनीं कृत्वासौ परिरम्भसम्भ्रमपरिश्रान्तां च वारस्त्रियम्।
सम्रक्तो हिमभानुरद्य चरमां श्लिष्यत्यहो रागिणीं काश्मीरोपलसत्पयोधरभरां कान्तां दिशं वारुणीम्॥ 66 ॥
ध्माता भालतलानलैः कवलिता कण्ठोत्थहालाहलैरालीढाथ जटाटवीवलयितैराशीविषाणां गणैः।
कीर्णा भस्मभिराहतास्थिपटलैर्विद्धा जटाग्रैरपि स्वीयामुज्झति माधुरीं हरशिरोरत्नं किमिन्दोः कला॥ 67 ॥
आवासोत्सुकपक्षिणः कलरुतं क्रामन्ति वृक्षालयान्कान्ताभाविवियोगभीरुरधिकं क्रन्दत्ययं कातरः।
चक्राह्वे मधुपाः सरोजगहनं धावन्त्युलूको मुदं धत्ते चारुणतां गतो रविरसावस्ताचलं चुम्बति॥ 68 ॥
अध्वानं नैकचक्रः प्रभवति भुवनभ्रान्तिदीर्घं विलङ्घ्य प्रातः प्राप्तुं रथो मे पुनरिति मनसि न्यस्तचिन्तातिभारः।
1सन्ध्याकृष्टावशिष्टस्वकरपरिकरैः स्पष्टहेमारपङ्क्ति व्याकृष्यावस्थितोऽस्तक्षितिभृति नयतीवैष 2दिक्चक्रमर्कः॥ 69 ॥
प्राचीमालम्बमाने घनतिमिरचये बान्धवे बन्धकीनां सम्प्राप्ते च प्रतीचीं शशिकरनिकरे वैरिणि स्वैरिणीनाम्।
अर्धश्यामोपलार्धस्फटिकमिव दिशामन्तरालं विधत्ते कालिन्दीजह्नुकन्यामिलदमलजलस्यन्दसन्दोहमैत्त्रीम्॥ 70 ॥
सन्ध्यावध्यस्रशोणं तनुदहनचिताङ्गारमन्दार्कबिम्बं तारानारास्थिकीर्णं विशदनरकरङ्कायमाणोज्ज्वलेन्दु।
हृष्यन्नक्तंचरौघं घनतिमिरमहाधूमधूम्रानुकारं जातं लीलाश्मशानं जगदखिलमहो कालकापालिकस्य॥ 71 ॥
गाढं प्रौढाङ्गनाभिः सुरतरतमनः सम्मदोत्सारिताक्षं मुग्धाभिः स्रस्तनेत्रं रतिसमरभयं चिन्तयन्तीभिरेवम्।
पान्थानामङ्गनाभिः ससलिलनयनं शून्यचित्ताभिरुच्चैः कष्टं दृष्टोऽस्तशैलं भृशमभजदयं मण्डलश्चण्डरश्मेः॥ 72 ॥
व्योम्नस्तापिच्छगुच्छावलिभिरिव तमोवल्लरीभिर्वयन्ते पर्यन्ताः प्रान्तवृत्त्या पयसि वसुमती नूतने मज्जतीव।
वात्यासम्वेगविष्वग्विततवलयितस्फीतधूम्याप्रकाशं प्रारम्भेऽपि त्रियामा तरुणयति निजं नीलिमानं वनेषु॥ 73 ॥