पदशब्दलीनहृदयो रूपालङ्कारभावनानिपुणः।
कविरिव सचिन्तमुद्रस्तरुणि तवार्थे परं स युवा॥ 1 ॥
परिहरति रतिं मतिं लुनीते स्खलतितरां परिवर्तते च भूयः।
इति तव विषमा दशास्य देहं परिभवति प्रसभं किमत्र कुर्मः॥ 2 ॥
विकिरति मुहुः श्वासान्नाशां पुरो मुहुरीक्षते प्रविशति मुहुः कुञ्जात्कुञ्जं मुहुर्बहु ताम्यति।
रचयति मुहुः शय्यां पर्याकुलं मुहुरीक्षते मदनकदनक्लान्तः कान्ते प्रियस्तव वर्तते॥ 3 ॥
सा मां द्रक्ष्यति वक्ष्यति स्मरकथां प्रत्यङ्गमालिङ्गनैः प्रीतिं यास्यति रंस्यते सखि समागत्येति चिन्ताकुलः।
मार्गं पश्यति वेपते पुलकयत्यानन्दति स्विद्यति प्रत्युद्गच्छति मूर्च्छति स्थिरतमःपुञ्जे निकुञ्जप्रियः॥ 4 ॥
पूर्वं यत्र समं त्वया रतिपतेरासादिताः सिद्धयस्तस्मिन्नेव निकुञ्जमन्मथमहातीर्थे पुनर्माधवः।
ध्यायंस्त्वामनिशं जपन्नपि तवैवालापमन्त्रावलीर्भूयस्त्वत्कुचकुम्भनिर्भरपरीरम्भामृतं वाञ्छति॥ 5 ॥