२४ दूत्युपहासप्रश्नाः

पार्श्वाभ्यां सप्रहाराभ्यामधरे व्रणखण्डिते।
दूति सङ्ग्रामयोग्यासि न योग्या दूतकर्मणि॥ 1 ॥
बहुनात्र किमुक्तेन दूति मत्कार्यसिद्धये।
स्वमांसान्यपि दत्तानि वक्तव्येषु तु का कथा॥ 2 ॥
किं त्वं निगूहसे दूति स्तनौ वक्त्रं च पाणिना।
खण्डिता एव शोभन्ते शूराधरपयोधराः॥ 3 ॥
त्वं दूति निरगाः कुञ्जं न तु पापीयसो गृहम्।
किंशुकाभरणं देहे दृश्यते कथमन्यथा॥ 4 ॥
दूति त्वया कृतमहो निखिलं मदुक्तं न त्वादृशी परहितप्रवणास्ति लोके।
श्रान्तासि हन्त मृदुलाङ्गि गता मदर्थं सिध्यन्ति कुत्र सुकृतानि विना श्रमेण॥ 5 ॥
रजन्यामन्यस्यां सुरतपरिवृत्तावनुचितं मदीयं यद्वासः कथमपि हृतं तेन सुहृदा।
त्वया प्रत्यानीतं निजवसनदानात्पुनरिदं कुतस्त्वादृग्दूती स्खलितशमनोपायनिपुणा॥ 6 ॥
निःशेषच्युतचन्दनं स्तनतटं निर्मृष्ट1रागोऽधरो नेत्रे 2दूरम3नञ्जने पुलकिता तन्वी तथेयं तनुः।
मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमे वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम्॥ 7 ॥

दूतीदं नयनोत्पलद्वयमहो तान्तं नितान्तं तव स्वेदाम्भः-कणिका ललाटफलके मुक्ताश्रियं बिभ्रति।
निःश्वासाः प्रचुरीभवन्ति नितरां हा हन्त चन्द्रातपे यातायातवशाद्वृथा मम कृते श्रान्तासि कान्ताकृते॥ 8 ॥
दूति श्वासविशेष एष किमहो चण्डि त्वराधावनाद्विभ्रष्टालकवल्लरी कथमहो त्वन्नाथपादार्पणात्।
निर्मृष्टाधररागपल्लवरुचिस्त्वत्कार्यसञ्जल्पनाद्वासस्तस्य किमङ्गसङ्गतमहो विश्वासहेतोस्तव॥ 9 ॥
श्वासः किं त्वरितागता पुलकिता कस्मात्प्रसादः कृतः स्रस्ता वेण्यपि पादयोर्निपतनान्नीवी गमादागमात्।
स्वेदार्द्रं मुखमातपेन गमितं क्षामा किमत्युक्तिभिर्दूति म्लानसरोरुहाकृतिधरस्यौष्ठस्य किं वक्ष्यसि॥ 10 ॥
स्विन्नं केन मुखं दिवाकरकरैस्ते रागिणी लोचने रोषात्तद्वचनोत्थिताद्विलुलिता नीलालका वायुना।
भ्रष्टं कुङ्कुममुत्तरीयकषणात्क्लान्तासि गत्यागतैर्युक्तं तत्सकलं किमत्र वद हे दूति क्षतस्याधरे॥ 11 ॥
सायं स्नानमुपासितं मलयजेनाङ्गं समालेपितं यातोऽस्ताचलमौलिमम्बरमणिर्विश्रब्धमन्दा गतिः।
आश्चर्यं तव सौकमार्यमभितः क्लान्तासि येनाधुना नेत्रद्वन्द्वममीलनव्यतिकरं शक्नोमि तेनासितुम्॥ 12 ॥


  1. क्षालितो रागो रक्तिमा यस्य. ↩︎

  2. अतिशयम्. ↩︎

  3. अञ्जनरहिते. ↩︎