उल्लापयन्त्या दयितस्य दूतीं विध्वा विभूषां च निवेशयन्त्या।
प्रसन्नता कापि मुखस्य जज्ञे वेषश्रिया नु प्रियवार्तया नु॥ 1 ॥
अलमलमघृणस्य तस्य नाम्ना पुनरपि सैव कथा गतः स कालः।
कथय कथय वा तथापि दूति प्रतिवचनं द्विषतोऽपि माननीयम्॥ 2 ॥
कथय निपुणे कस्मिन्दृष्टः कथं नु कियच्चिरं किमिव लिखितं किं तेनोक्तं कदा स इहैष्यति।
इति बहुविधप्रेमालापप्रपञ्चितविस्तराः प्रियतमकथाः स्वल्पेऽप्यर्थे प्रयान्ति न नष्टताम्॥ 3 ॥