त्वं दूरमपि गच्छन्ती हृदयं न जहासि मे।
1दिनावसाने छायेव पुरो मूलं वनस्पतेः॥ 1 ॥
स्मर्तव्योऽहं त्वया कान्ते न स्मरिष्याम्यहं तव।
स्मरणं चेतसो धर्मस्तच्चेतो भवदाहृतम्॥ 2 ॥
त्वया मम समेतस्य कल्पा अपि समासमाः।
भवत्या विप्रयुक्तस्य कल्पकल्पः क्षणोऽपि मे॥ 3 ॥
यतःप्रभृति ते कान्तं मुखमालोकितं मया।
कामः कामं ममाङ्गानि व्यथयत्यभितः शरैः॥ 4 ॥
2तपति तनुगात्रि मदनस्त्वामनिशं मां पुनर्दहत्येव।
ग्लपयति यथा शशाङ्कं न तथा हि कुमुद्वतीं दिवसः॥ 5 ॥
किमकारि मन्दमतिना रतिपतिना कामतन्त्रनिपुणेन।
स्यूतासि हरिणनयने हन्त हृदि स्नेहतन्तुना न तनौ॥ 6 ॥
कृष्णा ते कचसंहतिरम्बुजनयने तवाधरः शोणः।
त्वं सुरतरङ्गिणी कथमभितस्तापी न ते वियोगः स्यात्॥ 7 ॥
दूरं मुक्तालतया बिससितया विप्रलोभ्यमानो मे।
हंस इव दर्शिताशो मानसजन्मा त्वया नीतः॥ 8 ॥
स्निग्धमालपसुरूक्षमेव वा त्वत्कथैव सखि मे रसायनम्।
शीतलं सलिलमुष्णमेव वा पावकं हि शमयेदसंशयम्॥ 9 ॥
स्वप्नेऽपि देवि रमसे न मया विना त्वं स्वापे त्वया विरहितो मृतवद्भवामि।
दूरीकृतासि विधिदुर्ललितैस्तथापि जीवत्यवेहि मन इत्यसवो दुरन्ताः॥ 10 ॥
वल्गत्कचानि वलनासहमध्यमानि कण्ठोदयत्कलरुतानि गलत्कुचानि।
आस्वादिताधरदलान्यलसेक्षणानि तान्येव तन्वि सुरतानि तव स्मरामि॥ 11 ॥
अद्यापि सुन्दरि गतवाननचन्द्रबिम्बं बन्दीकृताम्बुजयुगं परिचुम्ब्य चेतः।
त्वत्सङ्गमोद्भवसुखं तनुते तथापि वैरं करोति करुणाविकलो विवेकः॥ 12 ॥
त्वदीयमुखपङ्कजं यदि विधोरलं वार्तया तवाधरसुधा यदा भवति किं सुधा नो मुधा।
त्वदङ्गपरिरम्भणं भण कृतं सुधागाहनैस्त्वदीयदृगनुग्रहस्तदपि धिग्धिगैन्द्रं पदम्॥ 13 ॥
भवतु विदितं व्यर्थालापैरलं प्रिय गम्यतां तनुरपि न ते दोषोऽस्माकं विधिस्तु पराङ्मुखः।
तव यदि तथाभूतं प्रेम प्रपन्नमिमां दशां प्रकृतितरले का नः पीडा गते हतजीविते॥ 14 ॥
यदिन्दोर्लक्ष्मीस्ते वदनकमले वासमकरोत्तमः स्तोमस्थेमा तव तरुणि धम्मिल्लमभजत्।
अनुप्राप्ता हारावलिमपि च तारावलिरुचिः शरण्यायाः कस्ते मम शरणदाने परिभवः॥ 15 ॥
भवत्या विश्लेषे गुरुहृदयखेदेन तनुतां तनुर्नित्यं धत्ते सदृशमिति मत्तेभगमने।
इदं तावच्चित्रं कमलमुखि सर्वैरवयवैः सुरूपा त्वं लोके नियतमसुरूपा भवसि नः॥ 16 ॥
सुमध्ये वाग्भङ्गैर्वचनविधिमङ्गीकुरु न वा स्मितज्योत्स्नाकान्तं कुरु वदनमेतन्मयि न वा।
त्रिलोकीमूर्धन्या यदि विविधपुण्याधिकतया मया दृष्टासि त्वं तदिह सफलं मेऽजनि जनुः॥ 17 ॥
यदि प्राणा एव प्रणयपरिणाहः कथमयं विभिन्ना तेभ्यश्चेत्कथमियमभेदव्यवसितिः।
न भिन्ना नाभिन्ना यदि भवसि किं नाम तदसि त्वमेकासि त्वं मे कुवलयदलश्रेणिनयने॥ 18 ॥
यदेकः कासारं रचयति तथा कूपमथवा तदाकाङ्क्षां देवो वितरतितरां श्रीपतिरपि।
मया तु त्वद्धेतोः कमलमुखि सान्द्राश्रुसलिलैः कृताः पारावारास्तदपि गणना ते न हृदये॥ 19 ॥
इतो विद्युत्पुञ्जस्फुरितमसकृद्भाययतु मामितः केकानेका हरतु हृदयं निर्दयमिदम्।
इतः कामो वामः प्रहरतु मुहुः पुङ्खितशरो गतासि त्वं दूरं चपलनयने प्राप्स्यसि कुतः॥ 20 ॥
हिमांशुश्चण्डांशुर्नवजलधरो दावदहनः सरिद्वीचीवातः कुपितफणिनिःश्वासपवनः।
नवा मल्ली भल्ली कुवलयवनं कुन्तगहनं मम त्वद्विश्लेषात्सुमुखि विपरीतं जगदिदम्॥ 21 ॥
आस्तां तावद्वचनरचनाभाजनत्वं विदूरे दूरे चास्तां तव तनुपरीरम्भसम्भावनापि।
भूयो भूयः प्रणतिभिरहं किन्तु याचे विधेया स्मारं स्मारं स्वजनगणने कापि लेखा ममापि॥ 22 ॥
श्यामास्वङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं वक्त्रच्छायां शशिनि शिखिनां बर्हभारेषु केशान्।
उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान्हन्तैकस्मिन्क्वचिदपि न ते चण्डि सादृश्यमस्ति॥ 23 ॥
त्वामालिख्य प्रणयकुपितां धातुरागैः शिलायामात्मानं ते चरणपतितं यावदिच्छामि कर्तुम्।
अस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः॥ 24 ॥
मामाकाशप्रणिहितभुजं निर्दयोश्लेषहेतोर्लब्धायास्ते कथमपि मया स्वप्नसन्दर्शनेषु।
पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति॥ 25 ॥
भित्त्वा सद्यः किसलयपुटान्देवदारुद्रुमाणां ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः।
आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः पूर्वं स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति॥ 26 ॥
सङ्क्षिप्येत क्षण इव कथं दीघयामा त्रियामा सर्वावस्थास्वहरपि कथं मन्दमन्दातपं स्यात्।
इत्थं चेतश्चटुलनयने दुर्लभप्रार्थनं मे गाढोष्माभिः कृतमशरणं त्वद्वियोगव्यथाभिः॥ 27 ॥
कस्याख्याय व्यतिकरमिमं मुक्तदुःखो भवेयं को जानीते निभृतमुभयोरावयोः स्नेहसारम्।
जानात्येकं शशधरमुखि प्रेमतत्त्वं मनो मे त्वामेवैतच्चिरमनुगतं तत्प्रिये किं करोमि॥ 28 ॥
त्वद्रूपामृतपानदुर्ललितया दृष्ट्या क्व विश्रम्यतां त्वद्वाक्यश्रवणाभियोगपरयोः श्रव्यं कुतः श्रोत्रयोः।
एभिस्त्वत्परिरम्भनिर्भररसैरङ्गैः कथं स्थीयतां कष्टं त्वद्विरहेण सम्प्रति वयं कष्टामवस्थां गताः॥ 29 ॥
यत्त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं मेघै1रन्तरितः प्रिये तव मुखच्छायानुकारी शशी।
येऽपि त्वद्गमनानुकारिगतयस्ते राजहंसा गतास्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते॥ 30 ॥
गूढालिङ्गनगण्डचुम्बनकुचस्पर्शादिलीलायितं सर्वं विस्मृतमेव विस्तृतवतो बाले खलेभ्यो भयात्।
संलापस्त्वधुना सदुर्घटतमस्तत्रापि नातिव्यथा यत्त्वद्दर्शनमप्यभूदसुलभं तेनैव दूये भृशम्॥ 31 ॥
धन्यस्तन्वि स एष पाण्डिमवरश्चम्बन्कपोलस्थलं धन्यं तन्वि तदेव कार्श्यमिह यत्प्रत्यङ्गमालिङ्गति।
धन्योऽयं विरहानलस्तव मनो यस्यानुवृत्तेः पदं दूरे हन्त तया तु पातकितया मादृग्जनः सीदति॥ 32 ॥
न स्नानं न च भोजनं न पठनं नान्यत्र सौख्यं धृतिर्नान्यस्त्रीजनसेवनं न च कथानिद्राविलासोद्यमः।
किन्तु त्वां परिचिन्तयामि सततं ध्यानेन चेतःस्थितां स्वप्नालोकनकामकेलिविधिना जीवामि कान्ते तव॥ 33 ॥
रात्रिः कालयुगोपमा मलयजो गन्धानिलः किं विषं सोमः सूर्य इवाभवन्मलयजालेपः स्फुलिङ्गोपमः।
तिक्तः सुस्वरगीतवाद्यपरभृत्पारावतादिध्वनिर्वज्रस्याहतिरेव कर्णयुगले विच्छेदतो मे तव॥ 34 ॥
चन्द्रो द्वादश भास्कराः समभवन् रात्रिर्युगानां शतं मिष्टं तिक्तरसं विलेपनमहो दीप्तानलो मे तव।
विच्छेदान्मलयानिलः प्रियतमे किं कालकूटः श्रुतौ गीतादिध्वनिरेव वज्रसदृशोऽरण्यं विचित्रं गृहम्॥ 35 ॥
स्थानान्निर्गत्य दूरं व्रजति मयि चिरं मुक्तकण्ठं रुदित्वा पश्चादुन्मृज्य नेत्रे प्रणतिमुपगता वेपमानाङ्गयष्टिः।
कान्ते यन्मामवोचः प्रलयघनघटाटोपबद्धान्धकारे काले कापालिकोऽपि प्रवसति न गृहात्तन्मनो मे दुनोति॥ 36 ॥