दैवात्पश्येर्जगति विचरन्निच्छया मत्प्रियां चेदाश्वास्यादौ तदनु कथयेर्मामकीनामवस्थाम्। आशातन्तुर्न च कथयतात्यन्तमुच्छेदनीयः प्राणत्राणं कथमपि करोत्यायताक्ष्याः स एकः॥ 1 ॥