२० नायकं प्रति नायिकासन्देशः

अदृष्टे दर्शनोत्कण्ठा दृष्टे विश्लेषभीरुता।
नादृष्टे न च दृष्टेन भवता विद्यते सुखम्॥ 1 ॥
आलीभिः सह भाषितं किमपि तद्वर्त्मापि सम्वीक्षितं पञ्चेषुः कुसुमैरपूजि कथमप्याधाय चित्ते मनाक्।
तेनापि प्रिय चेत्तथा मयि कृपाकार्पण्यमालम्बसे प्राणेश प्रबलं तदत्र निखिलं तत्प्रातिकूल्यं विधेः॥ 2 ॥
नित्यं ब्रह्म यथा स्मरन्ति मुनयो हंसा यथा मानसं सानन्दाः स्फुटशल्लकीवनयुतां ध्यायन्ति रेवां गजाः।
युष्मद्दर्शनलालसाः प्रतिदिनं युष्मान्स्मरामो वयं धन्यः कोऽपि स वासरोऽत्रभविता यत्रावयोः सङ्गमः॥ 3 ॥
इन्दुं कैरविणीव कोकपटलीवाम्भोजिनीबान्धवं मेघं चातकमण्डलीव मधुपश्रेणीव पुष्पाकरम्।
माकन्दं पिकसुन्दरीव तरुणी प्राणेश्वरं प्रोषितं चेतोवृत्तिरियं मम प्रियसखे त्वां द्रष्टुमुत्कण्ठते॥ 4 ॥