१९ नायकस्याग्रे दूत्युक्तयः

सुभग त्वत्कथारम्भे कर्णकण्डूतिलालसा।
उज्जृम्भवदनाम्भोजा भिनत्त्यङ्गानि साङ्गना॥ 1 ॥
त्वयि दृष्टे कुरङ्गाक्ष्याः स्रंसते मदनव्यथा।
यथा ह्युदयभाजीन्दौ ग्लानिः कुमुदसंहतेः॥ 2 ॥
विरहे तव तन्वङ्गी कथं क्षपयतु क्षपाम्।
दारुणव्यवसायस्य पुरस्ते भणितेन किम्॥ 3 ॥
सा सुन्दर तव विरहे सुतनुरियन्मनात्रलोचना सपदि।
एतावतीमवस्थां याता दिवसैरियन्मात्रैः॥ 4 ॥
तव विरहे विधुवदना मदनाधिक का न सीदन्ति।
सीदसि विरहे यस्याः साधु तपस्याफलं तस्याः॥ 5 ॥
प्राणेश तव विरहिणी हिमकरकिरणेषु हर्म्यमिलितेषु।
सन्तापनिःसहाङ्गी मुञ्चति निचयं चकोराणाम्॥ 6 ॥
अनयनपथे प्रिये न व्यथा यथा दृश्य एव दुष्प्रापे।
म्लानैव केवलं निशि तपनशिला वासरे ज्वलति॥ 7 ॥
सा सर्वथैव रक्ता रागं गुञ्जेव न तु मुखे वहति।
वचनपटोस्तव रागः केवलमास्ये शुकस्येव॥ 8 ॥
न सवर्णो न च रूपं न संस्क्रिया नैव सा प्रकृतिः।
बाला त्वद्विरहापदि जातापभ्रंशभावेव॥ 9 ॥
सा विरहदहनदूना मृत्वा मृत्वापि जीवति वराकी।
सारीव कितव भवतानुकूलिता पातिताक्षेण॥ 10 ॥
गायति गीते शंसति वंशे वादयति सा विपञ्चीषु।
पाठयति पञ्जरशुकं तव सन्देशाक्षरं रामा॥ 11 ॥
तव विरहमसहमाना सा तु प्राणान्विमुक्तवती।
किन्तु तथाविधमङ्गं न सुलभमिति ते न मुञ्चन्ति॥ 12 ॥
अभिनवनलिनीकिसलयमृणालवलयादि दवदहनराशिः।
सुभग कुरङ्गदृशोऽस्या विधिवशतस्त्वद्वियोगपविपाते॥ 13 ॥
त्वद्विरहे विस्तारितरजनौ जनितेन्दुचन्दनद्वेषे।
बिसिनीव माघमासे विना हुताशेन सा दग्धा॥ 14 ॥
या दक्षिणा त्वमस्यामदक्षिणो दक्षिणस्तदितरस्याम्।
जलधिरिव मध्यसंस्थो न वेलयोः सदृशमाचरसि॥ 15 ॥
अनुरागवर्तिना तव विरहेणोग्रेण सा गृहीताङ्गी।
त्रिपुररिपुणेव गौरी वरतनुरर्धावशिष्टैव॥ 16 ॥
अगणितगुणेन सुन्दर कृत्वा चारित्रमप्युदासीनम्।
भवतानन्यगतिः सा विहितावर्तेन तरणिरिव॥ 17 ॥
कितव प्रपञ्चिता सा भवता मन्दाक्षमन्दसञ्चारा।
बहुदायैरपि सम्प्रति पाशकसारीव नायाति॥ 18 ॥
रुष्टे का परपुष्टे मन्दे का हन्त मारुते चर्चा।
त्वयि गतवति हृदयेशे जीवनदातापि जीवनं हरति॥ 19 ॥
कुशलं तस्या जीवति कुशलं पृच्छामि जीवतीत्युक्तम्।
पुनरपि तदेव कथयसि मृता नु कथयामि या श्वसिति॥ 20 ॥
उद्धूयेत नतभ्रूः पक्ष्मनिपातोद्भवैः पवनैः।
इति निर्निमेषमस्या विरहवयस्या विलोकते वदनम्॥ 21 ॥
त्वयि दृष्ट एव तस्या निर्वाति मनो मनोभवज्वलितम्।
आलोके हि हिमांशोर्विकसति कुमुदं कुमुद्वत्याः॥ 22 ॥
तव विरहे हरिणाक्षी निरीक्ष्य नवमालिकां दलिताम्।
हन्त नितान्तमिदानीमाः किं हतजल्पितैरथवा॥ 23 ॥
स्मरशरशतविधुराया भणापि सख्याः कृते किमपि।
क्षणमिह विश्राम्य सखे निर्दयहृदयस्य किं वदाम्यथवा॥ 24 ॥
तव विरहे मलयमरुद्दवानलः शशिरुचोऽपि सोष्माणः।
हृदयमरुतमपि भिन्ते नलिनीदलमपि निदाघरविरस्याः॥ 25 ॥
व्यजनं व्यजनं जलं जलं घनसारो घनसार इत्यपि।
अवरोधगृहेषु सुभ्रुवां कुररीणामिव कारतो ध्वनिः॥ 26 ॥
मम रूपकीर्तिमहरद्भुवि यस्तदनुप्रविष्टहृदयेयमिति।
त्वयि मत्सरादिव निरस्तदयः सुतरां क्षिणोति खलु तां मदनः॥ 27 ॥
तव सा कथासु परिघट्टयति श्रवणं यदङ्गुलिमुखेन मुहुः।
घनतां ध्रुवं नयति तेन भवद्गुणपूगपूरितमतृप्ततया॥ 28 ॥
उपताप्यमानमलघूष्णिमभिः स्वसितैः सितेतरसरोजदृशः।
द्रवतां न नेतुमधुरं क्षमते नवनागवल्लिदलरागरसः॥ 29 ॥
दधति स्फुटं रतिपतेरिषवः शिततां यदुत्पलपलाशदृशः।
हृदयं निरन्तरबृहत्कठिनस्तनमण्डलावरणमप्यभिदन्॥ 30 ॥
कुसुमादपि स्मितदृशः सुतरां सुकुमारमङ्गमिति नापरथा।
अनिशं निजैरकरुणः करुणं कुसुमेषुरुत्तपति यद्विशिखैः॥ 31 ॥
विषतां निषेवितमपक्रियया समुपैति सर्वमिति सत्यमदः।
अमृतस्रुतोऽपि विरहाद्भवतो यदमूं दहन्ति हिमरश्मिरुचः॥ 32 ॥
उदितं प्रियां प्रति सहार्दमिति श्रदधीयत प्रियतमेन वचः।
विदितेङ्गिते हि पुर एव जने समुदीरिताः खलु लगन्ति गिरः॥ 33 ॥
त्वं विनिर्जितमनोभवरूपः सा च सुन्दर भवत्यनुरक्ता।
पञ्चभिर्युगपदेव शरैस्तां तापयत्यनुशयादिव कामः॥ 34 ॥
क्षणमपि विरहः पुरा न सेहे नयननिमीलनखिन्नया यया ते।
श्वसिति कथमसौ रसालशाखां चिरविरहेण विलोक्य पुष्पिताग्राम्॥ 35 ॥
सखि यदितमिहानयेति सा मां प्रहितवती कुसुमेषुणाभितप्ता।
हृदयमहृदया न नाम पूर्वं भवदुपकण्ठमुपागतं विवेद॥ 36 ॥
चिरमपि कलितान्यपारयन्त्या परिगदितुं परिशुष्यता मुखेन।
गतघृण गमितानि सत्सखीनां नयनयुगैः सममार्द्रतां मनांसि॥ 37 ॥
अचकमत सपल्लवां धरित्रीं मृदुसुरभिं विरहय्य पुष्पशय्याम्।
भृशमरतिमवाप्य तत्र चास्यास्तव सुखशीतमुपैतुमङ्कमिच्छा॥ 38 ॥
हारावशेषा ननु कण्ठनाला त्वन्नामशेषा रसना तदीया।
लावण्यशेषा तनुमात्रयष्टिस्त्वद्ध्यानशेषं परमं तदायुः॥ 39 ॥
तस्या महाविरहवह्निशिखाकलापतप्ते स्थितोऽसि हृदये सततं प्रियायाः।
प्रालेयसीकरसमे हृदि सा कृपालो बाला क्षणं वसति नैव खलु त्वदीये॥ 40 ॥
अङ्गानि मे दहतु कान्तवियोगवह्निः संरक्षतां प्रियतमो हृदि वर्तते यः।
इत्याशया शशिमुखी गलदश्रुबिन्दुधाराभिरुष्णमभिषिञ्चति हृत्प्रदेशम्॥ 41 ॥
सङ्केतकुञ्जभुवि सा शयनोपधानव्यालंकृतं सुभग कुण्डलिनं न वेद।
तत्कण्ठलग्नघनचन्दनगन्धलुब्धस्तत्रैव निश्चलमुवास चिराय सोऽपि॥ 42 ॥
राकासुधाकरकरैर्नलिनीदलैश्च नीहारहारघनसारभरैः किमेतैः।
किं वा भयेन हरिचन्दनपङ्कसेकैर्न त्वां विना मृगदृशः परितापशान्तिः॥ 43 ॥
त्वामञ्जनीयति कलासु विलोकयन्ती त्वां शृण्वती कुवलयीयति कर्णपूरम्।
त्वां पूर्णिमाविधुमुखी हृदि भावयन्ती वक्षोनिलीननवनीलमणीकरोति॥ 44 ॥
अविरलपरिवाहैरश्रुणः सारणीनां स्मरदहनशिखोष्णश्वासपूरैश्च तस्याः।
सुभग बत कृशाङ्ग्याः स्पर्धयान्योन्यमेभिः क्रियत इव पुरोभूः पङ्किला पांसुला च॥ 45 ॥
स्मरदवथुनिमित्तं गूढमुन्नेतुमस्याः सुभग तव कथायां प्रस्तुतायां सखीभिः।
भवति विततपृष्ठोदस्तपीनस्तनाग्रा ततवलयिताबाहुर्जृम्भितैः साङ्गभङ्गैः॥ 46 ॥
विपुलपुलकपालिः स्फीतसीत्कारमन्तर्जनितजडिमकाकुव्याकुलं व्याहरन्ती।
तव कितव विधायामन्दकन्दर्पचिन्तारसजलनिधिमग्ना ध्यानलग्ना मृगाक्षी॥ 47 ॥
अङ्गेऽनङ्गज्वरहुतवहश्चक्षुषि ध्यानमुद्रा कण्ठे जीवः करकिसलये दीर्घशायी कपोलः।
अंसे वेणी कुचपरिसरे चन्दनं वाचि मौनं तस्याः सर्वं स्थितमपि न तु त्वां विना क्वापि चेतः॥ 48 ॥
किं पृष्टेन द्रुततरमितो गम्यतां सा प्रिया ते दृष्टा मार्गे दिवसमखिलं सास्रमेका मयैवम्।
पान्थे पान्थे त्वमिति रभसोद्ग्रीवमालोकयन्ती दृष्टे दृष्टे न भवति भवानित्युदश्रुर्वलन्ती॥ 49 ॥
चित्रोत्कीर्णादपि विषधराद्भीतिभाजो निशायां किं नु ब्रूमस्त्वदभिसरणे साहसं नाथ तस्याः।
ध्वान्ते यान्त्या यदतिनिभृतं बालया सप्रकाशत्रासात्पाणिः पथि फणिफणारत्नरोधी व्यधायि॥ 50 ॥
यावद्यावद्भवति कलया पूर्णकामः शशाङ्कस्तावत्तावद्द्युतिमयवपुः क्षीयते सा मृगाक्षी।
मन्ये धाता घटयति विधुं सारमादाय तस्यास्तस्माद्यावन्न भवति सखे पूर्णिमा तावदेहि॥ 51 ॥
हस्ताम्भोजे वदनमलकानायतान्बाहुमूले द्वारि स्वैरं नयनमधरे तर्जनीं सन्निधाय।
दीर्घोच्छ्वासं विरतविषयास्वादमुत्कण्ठितोष्णं मुग्धाक्षी त्वां हृदि विदधती बाष्पमाविष्करोति॥ 52 ॥
आद्यः कोपस्तदनु मदनस्त्वद्वियोगस्तृतीयः शान्त्यै दूतीवचनमपरः पञ्चमः शीतभानुः।
इत्थं बाला निरवधि परं त्वां फलं प्रार्थयन्ती हा हा पञ्चज्वलनमधुना सेवते योगिनीव॥ 53 ॥
धातुः शिल्पातिशयनिकषस्थानमेषा मृगाक्षी रूपे देवोऽप्ययमनुपमो दत्तपादः स्मरस्य।
जातं दैवात्सदृशमनयोः सङ्गतं यत्तदेतच्छृङ्गारस्योपनतमधुना राज्यमेकातपत्रम्॥ 54 ॥
अभ्रध्वानैर्मुखरितदिशः श्रेणयस्तोयदानां धारासारैर्धरणिवलयं सर्वतः प्लावयन्ति।
तेन स्नेहं वहति विपुलं मत्सखी युक्तमेतत्त्वं निःस्नेहो यदसि तदिदं नाथ मे विस्मयाय॥ 55 ॥
प्रादुर्भूते नवजलधरे त्वत्पथं द्रष्टुकामाः प्राणाः पङ्केरुहदलदृशः कण्ठदेशं प्रयान्ति।
अन्यात्किं वा तव मुखविधुं द्रष्टुमुड्डीय गन्तुं वक्षः पक्षं सृजति बिसिनीपल्लवस्य च्छलेन॥ 56 ॥
गृहीतं ताम्बूलं परिजनवचोभिः कथमपि स्मरत्यन्तःशून्या सुभग तव मूर्तिं प्रतिदिनम्।
तथैवास्ते हस्तः कलितफणिवल्लीकिसलयस्तथैवासीत्तस्याः क्रमुकफलकालीपरिचितम्॥ 57 ॥
गलत्येका मूर्च्छा भवति पुनरन्या यदनयोः किमप्यासीन्मद्ये सुभग सकलायामपि निशि।
लिखन्त्यास्तत्तस्याः कुसुमशरलेखं तव कृते समाप्तिं स्वस्तीति प्रथमपदभागोऽपि न गतः॥ 58 ॥
सखीभिक्षां याचे बत नतशिरास्त्वामिदमहं न चेदस्ति प्रीतिः कुरु तदपि कारुण्यकणिकाम्।
अवस्था सा तस्याः सुकृतमयमस्यां किमपरं प्रमोहो विश्रामस्त्वमथ मरणं वा प्रतिकृतिः॥ 59 ॥
विमुञ्चन्त्या प्राणांश्चिरविरहदुःखासहनया तथा सन्दिष्टं ते कठिनहृदयापश्चिममिदम्।
अपत्यं बालैका मम विधिहतायाः सलिलदा तथा नेयं सेव्या व्यसनरुचये दीयत इति॥ 60 ॥
न हारं नाहारं कलयति विहारं विषमिव स्मरन्ती सा रामा सुभग भवतश्चागमदिनम्।
परं क्षीणा दीना परमसुखहीना सुवदना कुहूपक्षग्लौवच्चपलनयनाङ्गीकृतगतिः॥ 61 ॥
क्षणं मूर्च्छामेति भ्रमति परितोऽथ क्षणमपि क्षणं प्रैति स्तम्भं निरवधि भवद्ध्याननिरता।
क्षणं स्वप्ने बाला तव सुभग योगं च लभते क्षणं तेजः शंभोर्नयनजमथ ध्यायति यमम्॥ 62 ॥
कुसुमशयनेऽप्यङ्गं ताम्यत्यनङ्गविवर्तनं वदनपवनैः श्यामच्छायो बभूव सखीजनः।
हृदयनिहितः शीतो लेपश्छमीति रवं करोत्यहह कठिनावस्था तस्यास्त्वयैवमुपेक्ष्यते॥ 63 ॥
विरहविषमः कामः कामं तनुं कुरुते तनुं दिवसगणनादक्षश्चायं व्यपेतघृणोपमः।
त्वमपि वशगो मानव्याधेर्विचिन्तय नाथ हे किसलयमृदुर्जीवत्येवं कथं प्रमदाजनः॥ 64 ॥
मृगशिशुदृशस्तस्यास्तापं कथं कथयामि ते दहनपतिता दृष्टा मूर्तिर्मया न हि वैधवी।
इति तु विदितं नारीरूपः स लोकदृशां सुधा तव शठतया शिल्पोत्कर्षो विधेर्विघटिष्यते॥ 65 ॥
मुहुर्व्यजनवीजनैः सरसचन्दनासेचनैः सरोजदलवेष्टनैरपि न चेष्टते सुन्दरी।
तथापि तव नामनि प्रियसखीभिरावेदिते निवेदयति जीवितं श्रवणसीम्नि रोमोद्गमः॥ 66 ॥
गेहादङ्गणमङ्गमादपि बहिर्बाह्याच्च पृथ्वीतलं तामार्तिं यदि वेत्ति सैव सुमुखी किं चान्यदाचक्ष्महे।
पर्यङ्केऽपि तवाङ्गसङ्गसुभगैः स्वेदाम्भसां निर्झरैर्धारामण्डपतामनीयत तया तस्मिन्रुदत्या मुहुः॥ 67 ॥
दृष्टे चन्द्रमसि प्रलूनतमसि व्योमाङ्गणस्थेयसि स्फूर्जन्निर्मलतेजसि त्वयि गते दूरं निजप्रेयसि।
श्वासं कैरवकोरकीयति मुखं तस्याः सरोजीयति क्षीरोदीयति मन्मथो मृगदृशो दृक्चन्द्रकान्तीयति॥ 68 ॥
आवासो विपिनायते प्रियसखीमालापि जालायते तापो निःश्वसितेन दावदहनज्वालाकरालायते।
सापि त्वद्विरहेण हन्त हरिणीरूपायते हा कथं कन्दर्पोऽपि यमायते विरचयञ्शार्दूलविक्रीडितम्॥ 69 ॥
अच्छिन्नं नयनाम्बु बन्धुषु कृतं तापः सखीष्वाहितो दैन्यं न्यस्तमशेषतः परिजने चिन्ता गुरुभ्योऽर्पिता।
अद्य श्वः किल निर्वृतिं व्रजति सा श्वासैः परं खिद्यते विश्रब्धो भव विप्रयोगजनितं दुःखं विभक्तं तया॥ 70 ॥
त्वच्चिन्तापरिकल्पितं सुभग सा सम्भाव्य रोमाञ्चिता शून्यालिङ्गनसञ्चलद्भुजयुगेनात्मानमालिङ्गति।
किं चान्यद्विरहव्यथाप्रशमनीं सम्प्राप्य मूर्च्छां चिरात्प्रत्युज्जीवति कर्णमूलपतितैस्त्वन्नाममन्त्राक्षरैः॥ 71 ॥
नीरागा मृगलाञ्छने मुखमपि स्वं नेक्षते दर्पणे त्रस्ता कोकिलकूजितादपि गिरं नोन्मुद्रयत्यात्मनः।
चित्रं दुःसहदाहदायिनि धृतद्वेषापि पुष्पायुधे सा बाला सुभगं प्रति प्रतिपदं प्रेमाधिकं पुष्यति॥ 72 ॥
उन्मीलन्ति नखैर्लुनीहि वहति क्षौमाञ्चलेनावृणु क्रीडाकाननमाविशन्ति बलयक्वाणैः समुत्त्रासय।
इत्थं वञ्जुलदक्षिणानिलकुहूकण्ठेषु साङ्केतिकव्याहाराः सुभग त्वदीयविरहे तस्याः सखीनां मिथः॥ 73 ॥
वर्षन्ति स्तनयित्नवो न सरले धारा गृहे वर्तते गर्जन्ति प्रतिकूलवादिनि न ते द्वारि स्थिता दन्तिनः।
इत्येवं गमितो घनव्यतिकरः सा राजपुत्री पुनर्वातो वाति कदम्बपुष्पसुरभौ केन प्रतारिष्यते॥ 74 ॥
सम्प्राप्तेऽवधिवासरे क्षणमनु त्वद्वर्त्मवातायनं वारं वारमुपेत्य निष्कृप तया निश्चित्य किञ्चिच्चिरम्।
सम्प्रत्येव निवेद्य केलिकुररीः सास्रं सखीभिः शिशोर्माधव्याः सहकारकेण करुणः पाणिग्रहो निर्मितः॥ 75 ॥
नायं मुञ्चति सुभ्रुवामपि तनुत्यागे वियोगज्वरस्तेनाहं विहिताञ्जलिर्यदुपते पृच्छामि सत्यं वद।
ताम्बूलं कुसुमं पटीरमुदकं यद्बन्धुभिर्दीयते स्यादत्रैव परत्र तत्किमुचितज्वालावलीदुःसहम्॥ 76 ॥
श्वासान्मुञ्चति भूतले विलुठति त्वन्मार्गमालोकते दीर्घं रोदिति निक्षिपत्यविरतं क्षामां भुजवल्लरीम्।
किं च प्राणसमा न काङ्क्षितवती स्वप्नेऽपि ते सङ्गमं निद्रां वाञ्छति न प्रयच्छति पुनर्दग्धो विधिस्तामपि॥ 77 ॥
कोदण्डो विशिखो मनोनिवसतिः कामस्य तस्या अपि भ्रूवल्ली नयनाञ्चलं मनसि ते वासः समुन्मीलति।
इत्थं साम्यविधौ तयोः प्रभवति स्वामिंस्तथा स्निह्यतां तन्वानां तनुतां क्रमादतनुतां नैषा यथा गच्छति॥ 78 ॥
शोकोत्पत्तिरशोकतः सुमनसो यद्वैमनस्योदयो वैरस्यं च रसालतो विकलता निर्मीतमुन्नीयते वामः केवलमेक एव न भवानस्यामशेषं जगत्॥ 79 ॥
नैष्ठुर्यं कलकण्ठकोमलगिरां पूर्णस्य शीतद्युतेस्तिग्मत्वं बत दक्षिणस्य मरुतो दाक्षिण्यहानिश्च ताम्।
स्मर्तव्याकृतिमेव कर्तुमबलां संनाहमातन्वते तद्विघ्नः क्रियते तृणादिचलनोद्भूतैस्त्वदाप्तिभ्रमैः॥ 80 ॥
या चन्द्रस्य कलङ्किनो जनयति स्मेराननेन त्रपां वाचा मन्दिरकीरसुन्दरगिरो या सर्वदा निन्दति।
निःश्वासेन तिरस्करोति कमलामोदान्वितान्यानिलान्सा तैरेव रहस्त्वया विरहिता काञ्चिद्दशां नीयते॥ 81 ॥
चन्द्रं चन्दनकर्दमेन लिखितं संमार्ष्टि दष्टाधरा कामः पुष्पशरः किलेति सुमनोवर्गं लुनीते च यत्।
वन्द्यं निन्दति यच्च मन्मथमसौ भङ्क्त्वाग्रहस्ताङ्गुलीस्तत्कामं सुभग त्वया वरतनुर्वातूलतां लम्भिता॥ 82 ॥
तापोऽम्भःप्रसृतिं पचः प्रचयवान् बाष्पः प्रणालोचितः श्वासाः कम्पितदीपवर्तिकलिकाः पाण्डिम्नि मग्नं वपुः।
किं चान्यत्कथयामि रात्रिमखिलां त्वन्मार्गवातायने हस्तच्छत्त्रनिरुद्धचन्द्रमहसस्तस्याः स्थितिर्वर्तते॥ 83 ॥
बिभ्राणा हृदये त्वया विनिहितं प्रेमाभिधानं नवं शल्यं यद्विदधाति सा 1विधुरिता साधो तदाकर्ण्यताम्।
शेते शुष्यति 2ताम्यति प्रलपति प्रम्लायति प्रेङ्खति3 भ्राम्यत्युल्लुठति 4प्रणस्यति 5गलत्युन्मूर्च्छति 6त्रुट्यति॥ 84 ॥

कार्श्यं चेत्प्रतिपत्कला हिमरुचः स्थूलैव चेत्पाण्डिमा लीना एव मृणालिका यदि पुनर्बाष्पः कियानम्बुधिः।
सन्तापो यदि शीतलो हुतवहस्तस्याः कियद्वर्ण्यतां किं तु त्वत्स्मृतिमात्रमेव शरणं लावण्यशेषं वपुः॥ 85 ॥
सौधादुद्विजते त्यजत्युपवनं द्वेष्टि प्रभामैन्दवीं द्वारात्त्रस्यति चित्रकेलिसदसो वेषं विषं मन्यते।
आस्ते केवलमब्जिनीकिसलयप्रस्तारशय्यातले सङ्कल्पोपनमत्त्वदाकृतिरसायत्तेन चित्तेन सा॥ 86 ॥
सा न स्नाति न चानुलिम्पति न वा केशेषु धत्ते स्रजं न क्रीडासु मनो दधाति न सखीरालोकते चाटुषु।
किं तु न्यस्य मुखाम्बुजं करतले बाष्पायमाणेक्षणं निःश्वासग्लपिताधरं च शयने जागर्ति ते चिन्तया॥ 87 ॥
सा रोमाञ्चति सीत्करोति विलपत्युत्कम्पते ताम्यति ध्यायत्युद्भ्रमति प्रमीलति पतत्युद्याति मूर्छत्यपि।
एतावत्यतनुज्वरे वरतनुर्जीवेन्न किं ते रसात्स्वर्वैद्यप्रतिम प्रसीदसि यदि त्यक्तोऽन्यथा हस्तकः॥ 88 ॥
कन्दर्पज्वरसंज्वराकुलतनोराश्चर्यमस्याश्चिरं चेतश्चन्दनचन्द्रमःकमलिनीचिन्तासु सन्ताम्यति।
किं तु क्षान्तिवशेन शीतलतनुं त्वामेवमेकं प्रियं ध्यायन्ती रहसि स्थिता कथमसौ क्षीणा क्षणं प्राणिति॥ 89 ॥
अङ्गेष्वाभरणं करोति बहुशः पत्रेऽपि सञ्चारिणि प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति।
इत्याकल्पविकल्पतल्परचनासङ्कल्पलीलाशतव्यासक्तापि विना त्वया वरतनुर्नैषा निशां नेष्यति॥ 90 ॥
आलम्ब्याङ्गणवापिकापरिसरे चूतद्रुमे मञ्जरीं सर्पत्सान्द्रपरागलम्पटरणद्भृङ्गाङ्गनाशोभिनीम्।
मन्ये स्वां तनुमुत्तरीयशकलेनाच्छाद्य बाला स्फुरत्कण्ठध्वाननिरोधकम्पितकुचश्वासोद्गमा रोदिति॥ 91 ॥
चित्राय त्वयि चिन्तिते स्मृतिभुवा सज्जीकृतं स्वं धनुर्वर्तिं धर्तुमुपागतेऽङ्गुलियुगे बाणा गुणे योजिताः।
प्रारब्धे तव चित्रकर्मणि पुनस्तद्बाणभिन्ना सती भित्तिं द्रागवलम्ब्य सिंहलपते सा तत्र चित्रायते॥ 92 ॥
आदावञ्जनपुञ्जलिप्तवपुषां श्वासानिलोल्लासितप्रोत्सर्पद्विरहानलेन च ततः सन्तापितानां दृशाम्।
सम्प्रत्येव निषेकमश्रुपयसा देवस्य चेतोभुवो भल्लीनामिव पानकर्म कुरुते कामं कुरङ्गेक्षणा॥ 93 ॥
ज्योत्स्ना मौक्तिकदाम चन्दनरसः शीतांशुकान्तद्रवः कर्पूरं कदली मृणालवलयान्यम्भोजिनीपल्लवाः।
अन्तर्मानसमास्त्वया प्रभवता तस्या स्फुलिङ्गोत्करव्यापाराय भवन्ति हन्त किमनेनोक्तेन न ब्रूमहे॥ 94 ॥
पाणिर्निरवकङ्कणः स्तनतटी निष्कम्पमानांशुका दृष्टिर्निश्चलतारका समभवन्निस्ताण्डवं कुण्डलम्।
कश्चित्रार्पितया समं कृशतनोर्भेदो भवेन्नो यदि त्वन्नामस्मरणेन कोऽपि पुलकारम्भः समुज्जृम्भते॥ 95 ॥
दत्तोऽस्याः प्रणयस्त्वयैव भवता चेयं चिरं लालिता दैवादद्य किल त्वमेव कृतवानस्या नवं विप्रियम्।
मन्युर्दुः-सह एष यात्युपशमं नो सान्त्ववादैः स्फुटं हे निस्त्रिंश वियुक्तकण्ठकरुणं तावत्सखी रोदितु॥ 96 ॥
चूडारत्नमपांनिधिर्यदि भवेच्चेत्कुन्तलं गण्डकी कावेरी यदि कङ्कणं यदि पुनर्ग्रैवेयकं गौतमी।
मुक्तास्रक्सुरनिम्नगा यदि यदि स्यान्मेखला नर्मदा कौशेयं यदि कौशिकी कृशतनोस्तापस्तदाप्येति वा॥ 97 ॥


  1. विरहविह्वला. ↩︎

  2. ग्लानिं प्राप्नोति. ↩︎

  3. चलति. ↩︎

  4. नैर्बल्यातिशयेन मृतप्राया भवति. ↩︎

  5. खेदातिशयादित्यर्थः. ↩︎

  6. क्षीणा भवति. ↩︎