अपूजितैवास्तु गिरीन्द्रकन्या किं पक्षपातेन मनोभवस्य।
यद्यस्ति दूती सरसोक्तिदक्षा दासः पतिः पादतले वधूनाम्॥ 1 ॥
न च मेऽवगच्छति यथा लघुतां करुणां यथा च कुरुते स मयि।
निपुणं तथैनमवगम्य वदेरभिदूति काचिदिति सन्दिदिशे॥ 2 ॥
ननु सन्दिशेति सदृशोदितया त्रपया न किञ्चन किलाभिदधे।
निजमैक्षि मन्दमनिशं निशितैः कृशितं शरीरमशरीरशरैः॥ 3 ॥
दिशि दिशि परिहासगूढगर्भाः पिशुनगिरि गुरुगञ्जनं च तादृक्।
सहचरि हृदये निवेदनीयं भवदनुरोधवशादयं विपाकः॥ 4 ॥
वृथा गाथाश्लोकैरलमलमलीकां मम रुजं कदाचिद्भूर्तोऽसौ कविवचनमित्याकलयति।
इदं पार्श्वे तस्य प्रहिणु परिलग्नाञ्जनचयस्रवद्बाष्पोत्पीडस्थगितलिपि ताटङ्कयुगलम्॥ 5 ॥
वाच्यं तस्मै सहचरि भवद्भूरिविश्लेषवह्नौ स्नेहैरिद्धे मम वपुरिदं कामहोता जुहोति।
प्राणानस्मै तदिहमुचितां दक्षिणां दातुमीहे तत्रादेशो भवतु भवतां यत्त्वमेषामधीशः॥ 6 ॥
जीवामीति वियोगिनी यदि लिखेदत्रैव वृत्ताः कथा अद्य श्वोऽथ मरिष्यतीति मरणे कालात्ययः किं कृतः।
आगन्तव्यमिहेति सम्प्रति सखे सम्भावना निष्फला भ्रातः सम्प्रति याहि नास्ति लिखितं तद्ब्रूहि यत्ते क्षमम्॥ 7 ॥
उल्लङ्घ्यापि सखीवचः समुचितामुल्लङ्घ्य लज्जामलं भित्त्वा भीतिभरं निरस्य च निजं सौभाग्यगर्वं मनाक्।
आज्ञां केवलमेव मन्मथगुरोरादाय नूनं मया त्वं निःशेषविलासिवर्गगणनाचूडामणिः सम्भृतः॥ 8 ॥
दूति त्वं तरुणी युवा स चपलः श्यामास्तमोभिर्दिशः सन्देशः स रहस्य एव विपिने सङ्केतकावासकः।
भूयो भूय इमे वसन्तमरुतश्चेतो नयन्त्यन्यथा गच्छ क्षेमसमागमाय निपुणे रक्षन्तु ते देवताः॥ 9 ॥