अद्विसंवीक्षणं चक्षुरद्विसंमीलनं मनः।
अद्विसंस्पर्शनः पाणिरद्य मे किं करिष्यति॥ 1 ॥
हन्त कान्तमपि तं दिदृक्षते मानसं मम न साधु यत्यते।
इन्दुरिन्दुमुखि मन्दमारुतश्चन्दनं च वितनोति वेदनाम्॥ 2 ॥
तुष्यन्तु मे छिद्रमवाप्य शत्रवः करोतु मे शान्तिभरं गृहेश्वरः।
मणिस्तु वक्षोरुहमध्यभूषणं ममास्तु सौन्दर्यनिकेतनं प्रियः॥ 3 ॥
कालो मधुः कुपित एष च पुष्पधन्वा धीरा वहन्ति रतिखेदहराः समीराः।
केलीवनीयमपि वञ्जुलकुञ्जमञ्जुर्दूरे पतिः कथय किं करणीयमद्य॥ 4 ॥
कान्तः कृतान्तचरितः कुटिला तदम्बा वज्रोपमानि वचनानि च दुर्जनानाम्।
प्रत्यङ्गमन्तरतनोः प्रहरन्ति बाणाः प्राणाः पुनः सखि बहिर्न खलु प्रयान्ति॥ 5 ॥
अकस्मादेकस्मिन् पथि सखि मयामुं वनतटं व्रजन्त्या दृष्टो यो नवजलधरश्यामलतनुः।
स दृग्भङ्ग्या किं वा कुरुत नहि जाने तत इदं मनो मे व्यालोलं क्वचन गृहकृत्ये न वलते॥ 6 ॥
गते प्रेमाबन्धे प्रणयबहुमाने विगलिते निवृत्ते सद्भावे प्रणयिनि जने गच्छति पुरः।
तदुत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतांस्तांश्च दिवसान्न जाने को हेतुर्दलति शतधा यन्न हृदयम्॥ 7 ॥
स्वामी कुप्यति कुप्यतां परिजना निन्दन्तु मामन्यवत् किं तावत् प्रथतामयं तु जगति प्रौढो ममोपद्रवः।
आशास्यं पुनरेतदेव यदिदं चक्षुश्चिरं वर्धतां येनेदं परिचीयते मुररिपोः सौन्दर्यसारं वपुः॥ 8 ॥
निःस्नेहः पतिरुज्झिता करुणया श्वश्रूरजस्रं वृथा वाग्बाणैर्हृदयं भिनत्ति कलहोत्तालाः पुनर्यातरः।
नित्यं निन्दति नैव नन्दति कदाप्येषा ननान्दापि तन्मातः कं शरणं व्रजामि तरुणी दीनाहमेकाकिनी॥ 9 ॥
किं स्वप्नः किमु जागरः किमथवा रात्रिः किमासीद्दिनं मोहावस्थितया मया न किमपि ज्ञातं किमेतत् सखि।
यन्नामश्रवणादनन्तरमिदं वृत्तं तमेव प्रियं चेतो दुर्लभमप्यपास्तसकलव्यापारमाकाङ्क्षति॥ 10 ॥