१६ नायिकां प्रति सखीवचनम्

वियोगवह्निकुण्डेऽस्मिन्हृदये ते वियोगिनि।
1प्रियसङ्गसुखायैव मुक्ताहारस्तपस्यति॥ 1 ॥

पाण्डु क्षामं वदनं हृदयं सरसं तवालसं च वपुः।
आवेदयति नितान्तं क्षत्रियरोगं सखि हृदन्तः॥ 2 ॥
2सखि पतिविरहहुताशः किमिति प्रशमं न याति 3नयनोदैः।
शृणु कारणं नितम्बिनि मुञ्चसि नयनोदकं तु सस्नेहम्॥ 3 ॥

सहसा हृदये निधाय चेतो नयनादिन्द्रियमुद्रणां विधाय।
अयि कण्टकिताङ्गयष्टि सत्यं कथय ध्यायसि किं रहो निषण्णा॥ 4 ॥
सरचरि शपथाः शतं मदीया वद विरहग्लपितां निजामवस्थाम्।
सहचरि परिपृच्छ भानुकन्यानवदलिनीनलिनिकुञ्जशय्याः॥ 5 ॥
नलिनीदलतालवीजनं सखि तन्व्या विनिवारितं मया।
तनुवल्लिविभूतिशङ्कया विनिवार्यः श्वसितानिलः कथम्॥ 6 ॥
अयं विपाको वद कस्य यूनः कल्यामि कल्याणपरम्पराणाम्।
यदक्षिकोणस्रवदच्छधारा हारावतारो गुणमन्तरेण॥ 7 ॥
वासस्तदेव वपुषो वलयं तदेव हस्तस्य सैव जघनस्य च रत्नकाञ्ची।
वाचालभृङ्गसुभगे सुरभौ समस्तमद्याधिकं भवति ते सखि किं निदानम्॥ 8 ॥
उत्पादयत्यलमिदं मनसो विषादं सीदत्सरोरुहनिभं वदनं त्वदीयम्।
ज्ञात्वा निदानमहमत्र समानदुःखा प्राणैरपि प्रियतमे भवितुं समीहे॥ 9 ॥
अनुदिनमधिकं ते कम्पते कायवल्ली शिव शिव नयनान्तं नाश्रुधारा जहाति।
कथय कथय कोऽयं यत्कृते कोमलाङ्गि त्यजति न परिणद्धं पाण्डिमानं कपोलः॥ 10 ॥
विलुलितमतिपूरैर्बाष्पमानन्दशोकप्रभवमवसृजन्ती तृष्णयोत्तानदीर्घा।
स्नपयति हृदयेशं स्नेहनिष्यन्दिनी ते धवलबहलमुग्धा दुग्धकुल्येव दृष्टिः॥ 11 ॥
अधिकरतलतल्पं कल्पितस्वापलीलापरिमिलननिमीलत्पाण्डिमा गण्डपाली।
सुतनु कथय कस्य व्यञ्जयस्यञ्जसैव स्मरनरपतिलीलायौवराज्याभिषेकम्॥ 12 ॥
अलसवलितैः प्रेमार्द्रार्द्रैर्मुहुर्मुकुलीकृतैः क्षणमभिमुखैर्लज्जालोलैर्निमेषपराङ्मुखैः।
हृदयनिहितं भावाकूतं वमद्भिरिवेक्षणैः कथय सुकृती कोऽयं मुग्धे त्वयाद्य विलोक्यते॥ 13 ॥
भगिनि मदनः श्रीमानेष त्वया यदि लिख्यते किमपि सुमुखि व्यग्रासीति व्रजामि निजालयम्।
यदपि मकरोऽधस्तात्पौष्पं करे च शरासनं तदपि परितो दृष्टिर्देया जनः सखि नागरः॥ 14 ॥
गोपायन्ती विरहजनितं दुःखमग्रे गुरूणां किं त्वं मुग्धे नयनगलितं बाष्पपूरं रुणत्सि।
नक्तं नक्तं नयनसलिलैरेष आर्द्रीकृतस्ते शय्योपान्तः कथयति दशामातपे शोष्यमाणः॥ 15 ॥
शोणौ कोणौ सखि नयनयोरुद्यतौ गोपनाय शङ्कामेव स्फुटयतितरां स्वेदबिन्दुप्रचारः।
अन्तः प्रेमाङ्कुरपरिकरारम्भकं कन्दमस्याः किञ्चित्किञ्चित्कथयति पुनः कापि दिव्या मुखश्रीः॥ 16 ॥
मुक्ताहारं न च कुचगिरेः कङ्कणं नैव हस्तात्कर्णात्स्वर्णाभरणमपि वा नीतवान् नैव तावत्।
आहो स्वप्ने बकुलकुसुमं भूषणं सन्दधानः कोऽयं चौरो हृदयमहरत्तन्वि तन्न प्रतीमः॥ 17 ॥
सायं दामग्रथनसमये लग्नया कर्णमूले सख्या मन्दस्मितसुभगया सादरं सूच्यमानः।
धन्यः कोऽयं कमलनयने यत्कथायाः पुरस्तादङ्गुल्यग्रं निजमपि मुहुः सूचिविद्धं न वेत्सि॥ 18 ॥
मुखं पाण्डुच्छायं नयनयुगलं बाष्पतरलं तनुः क्षामक्षामा गतमविशदं धैर्यविगमः।
ह्रियं मुक्त्वा मूढे कथयसि न मे सारवचनान्यवस्था येनेयं तव सखि मुहूर्तेन पतिता॥ 19 ॥
पक्ष्माग्रग्रथिताश्रुबिन्दुनिकरैर्मुक्ताफलस्पर्धिभिः कुर्वत्या हरहासहारि हृदये हारावलीभूषणम्।
बाले बालमृणालनालवलयालङ्कारकान्ते करे विन्यस्याननमायताक्षि सुकृती कोऽयं त्वया स्मर्यते॥ 20 ॥
आसन्नामवलम्ब्य केसरलतामेकेन पुष्पोज्ज्वलां सव्यं निःसहया नितम्बफलके कृत्वा कराम्भोरुहम्।
आमीलन्नयनान्तवान्तसलिलं श्लाघ्यस्य निन्द्यस्य वा कस्येदं दृढसौहृदे प्रतिदिनं दीनं त्वया स्मर्यते॥ 21 ॥
उज्जृम्भाननमुल्लसत्कुचतटं लोलद्भ्रमद्भ्रूलतं स्वेदाम्भःस्नपिताङ्गयष्टि विगलद्व्रीडं सरोमाञ्चया।
धन्यः कोऽपि युवा स यस्य वदने व्यापारिताः साम्प्रतं मुग्धे दुग्धमहाब्धिफेनपटलप्रख्याः कटाक्षच्छटाः॥ 22 ॥
मुग्धे दोर्लतिकां निधाय च कृतो द्वारोपरोधस्त्वया लग्ना नो रुदती गतासि रभसात्तस्योत्तरीयांशुके।
कालेऽस्मिन्कुसुमाकरे द्विगुणितप्रेमोत्सवे रागिणां गच्छन्नग्रत एव मूढ हृदये मुक्तस्त्वया वल्लभः॥ 23 ॥
विश्रान्तो दिवसस्तटीमयमटत्यस्ताचलस्यांशुमान् सम्प्रत्यङ्कुरितान्धकारपटलैर्लम्बालका द्यौरभूत्।
एह्यन्तर्विश वेश्मनः शशिमुखि द्वारस्थलीतोरणस्तम्भालम्बितबाहुवल्लि रुदती किं स्वं पथः पश्यसि॥ 24 ॥
आहारे विरतिः समग्रविषयग्रामे निवृत्तिः परा नासाग्रे नयनं यदेतदपरं यच्चैकतानं मनः।
मौनं चेदमिदं च शून्यमखिलं यद्विश्वमाभाति ते तद्ब्रूयाः सखि योगिनी किमसि भोः किं वा वियोगिन्यसि॥ 25 ॥
यत्तालीदलपाकपाण्डु वदनं यद्दुर्दिनं नेत्रयोर्यत्प्रेङ्खोलितकेलिपङ्कजवनाः श्वासाः प्रसर्पन्ति च।
गौरी क्रुध्यतु वर्तते यदि न ते तत्कोऽपि चित्ते युवा धिग्धिक्त्वां खलु पांसुखेलनसखीलोकेऽपि यन्निह्नवः॥ 26 ॥
क्षामं गात्रमतीव पाण्डु वदनं क्लिष्टा कपोलस्थली कोऽसौ चेतसि वर्तते तव युवा लोकैकमान्याकृतिः।
त्यक्त्वा किञ्चिदपत्रपां कथय मे खिन्नासि किं त्वं वृथा घोरः पञ्चशरो यदि त्वमबला वक्ष्यामि नातः परम्॥ 27 ॥
चिन्ताभिः स्तिमितं मनः करतले लीना कपोलस्थली प्रत्यूषक्षणदेशपाण्डुवदनं श्वासैकखिन्नोऽधरः।
अम्भःशीकरपद्मिनीकिसलयैर्नापैति तापः शमं कोऽस्याः प्रार्थितदुर्लभोऽस्ति सहते दीनां दशामीदृशीम्॥ 28 ॥
1लावण्यद्रविणव्ययो न गणितः क्लेशो महानर्जितः स्वच्छन्दं चरतो जनस्य हृदये चिन्ताज्वरो निर्मितः।
=एषापि स्वगुणानुरूपरxxxxभावा2द्बराकी हता कोऽर्थश्चेतसि वेधसा विनिहितस्तन्वीमिमां तन्वता॥ 29 ॥

जानीमस्तव गौरि चेतसि चिरं शंभुः समुज्जृम्भते तापो नेत्रतनूनपादिव तनौ तीव्रः समुन्मीलति।
अक्ष्णोरस्रमिषेण गच्छति बहिर्गङ्गातरङ्गावलिः पाण्डिम्नः कपटेन चन्द्रकलिकाकान्तिः समुन्मीलति॥ 30 ॥
न प्रीतिः पवने रतिर्न रसने प्रेमा न पङ्केरुहे न स्नेहः कुसुमे सुखं न शयने यत्नो न वा जीवने।
चन्द्रे नैव चमत्कृतिर्मृगमदे मोदो न मौनव्रते तेनस्तेन कियांस्तपस्तरुणिमा यस्मै तवेयं दशा॥ 31 ॥
मातः कं हृदये निधाय सुचिरं रोमाञ्चिताङ्गी मुहुर्जृम्भां मन्थरतारकां सुलितापाङ्गां दधाना दृशम्।
सुप्तेवालिखितेव शून्यहृदया लेखावशेषीभवस्यात्मद्रोहिणि किं ह्रिया कथय मे गूढो निहन्ति स्मरः॥ 32 ॥
श्वासास्ते सखि सूचयन्त्यविरताः सन्तापबाधां परं विद्मस्तत्र न कारणं वयमिति स्वान्तेऽतिचिन्ताभरः।
किं वा घ्रमनिपीडिता तव तनूवल्ली निकामं प्रिये पुष्पादप्यतिकोमला मलिनतां याता मृणाली यथा॥ 33 ॥


  1. मुक्तस्त्यक्त आहारो येन; [पक्षे] मुक्तानां मौक्तिकानां हारः. ↩︎ ↩︎

  2. पत्युर्विरहो वियोग एव हुताशोऽग्निः. ↩︎ ↩︎

  3. नेत्रोदकैः. अश्रुभिरिति यावत्. ↩︎