+१५ वियोगिन्या विप्रलापाः

हारो नारोपितः कण्ठे मया विश्लषभीरुणा1
इदानीमन्तरे जाताः पर्वताः सरितो द्रुमाः॥ 1 ॥

बिभेमि सखि संवीक्ष्य भ्रमरीभूतकीटकम्।
यद्ध्यानादागते पुंस्त्वे तेन सार्धं रतिः कथम्॥ 2 ॥
याः पश्यन्ति प्रियं स्वप्ने धन्यास्ताः सखि योषितः।
अस्माकं तु गते कान्ते गता निद्रापि वैरिणी॥ 3 ॥
यदीयबलमालोक्य गतः प्रेयान्वियुज्यते।
आलोकये कथं सख्यस्तस्य चन्द्रमसो मुखम्॥ 4 ॥
2विरमत विरमत सख्यो नलिनीदलतालवृन्तपवनेन।
हृदयगतोऽयं वह्निर्झटिति कताचिज्ज्वलत्येव॥ 5 ॥

अनलस्तम्भनविद्यां सुभग भवान्नियतमेव जानाति।
मन्मथशराग्नितप्ते हृदि मे कथमन्यथा वससि॥ 6 ॥
अजनि प्रतिदिनमेषा कर्ममशेषा मदङ्गसङ्गेन।
3प्रतिनिशमपूरि कम्पा दक्षिणसम्पातिभिः सलिलैः॥ 7 ॥

मदकलकृतान्तकासरखुरपुटनिर्धूतधूलिसङ्काशम्।
केतकरजो निवार्यं सखि यदि कार्यं मम प्राणैः॥ 8 ॥
आलि बलिशतया बलिरस्मै दीयतां बलिभुजे न कदापि।
केवलं हि कलकण्ठशिशूनामेष एव कुशलेषु निदानम्॥ 9 ॥
गरलद्रुमकन्दमिन्दुबिम्बं करुमावारिजवारणो वसन्तः।
रजनी स्मरभूपतेः कृपाणी करणीयं किमतःपरं विधातः॥ 10 ॥
हन्तालि सन्तापनिवृत्तयेऽस्याः किं तालवृन्तं तरलीकरोषि।
उत्ताप एषोऽन्तरदाहहेतुर्नतभ्रुवो न व्यजनापनोद्यः।4॥ 11 ॥

(1. नव्यो नवीनो जनस्तरुणः; (पक्षे व्यजनं तालवृन्तम्.))
वरमसौ दिवसो न पुनर्निशा ननु निशैव वरं न पुनर्दिनम्।
उभयमेतदुपैत्वथवा क्षयं प्रियजनेन न यत्र समागमः॥ 12 ॥
अहमिह स्थितवत्यपि तावकी त्वमपि तत्र वसन्नपि मामकः।
न तनुसङ्गम एव सुसङ्गमो हृदयसङ्गम एव सुसङ्गमः॥ 13 ॥
बकुलमालिकयापि मया न सा तनुरभूषि तदन्तरभीरुणा।
तदधुना विधिना कृतमावयोर्गिरिदरीनगरीशतमन्तरम्॥ 14 ॥
दहनजा न पृथुर्दवथुर्व्यथा विरहजैव यथा यदि नेदृशम्।
दहनमाशु विशन्ति कथं स्त्रियः प्रियमपासुमुपासितमुद्धुराः॥ 15 ॥
कति न सन्ति जना जगतीतले तदपि तद्विरहाकुलितं मनः।
कतिन सन्ति निशाकरतारकाः कमलिनी मलिनी रविणा विना॥ 16 ॥
अरतिरियमुपैति नापि निद्रा गणयति तस्य गुणान्मनो न दोषान्।
विगलति रजनी न सङ्गमाशा व्रजति तनुस्तनुतां न चानुरागः॥ 17 ॥
प्रियसखि न तथा पटीरपङ्को न च नलिनीदलमारुतोऽपि शीतः।
शमयति मम देहदाहमन्तः सपदि कथा हि यथा नरेन्द्रसूनोः॥ 18 ॥
एतानि निःसहतनोरसमञ्जसानि शून्यं मनः पिशुनयन्ति गतागतानि।
एते च तीरतरवः प्रथयन्ति तापमालम्बितोज्झिततरुग्लपितैः प्रवालैः॥ 19 ॥
अन्तर्गता मदनवह्निशिखावली या सा बाधते किमिह चन्दनचर्चितेन।
यः कुम्भकारपवनोपरि पङ्कलेपस्तापाय केवलमसौ न च तापशान्त्यै॥ 20 ॥
बत सखि कियदेतत्पश्य वैरं स्मरस्य प्रियविरहकृशेऽस्मिन् रागिलोके तथाहि।
उपवनसहकारोद्भासिभृङ्गच्छलेन प्रतिविशिखमनेनोट्टङ्कितं1 कालकूटम्॥ 21 ॥

कलयति मम चेतस्तल्पमङ्गारकल्पं ज्वलयति मम गात्रं चन्दनं चन्द्रकश्च।
तिरयति मम नेत्रे मोहजन्मान्धकारो विकृतबहुविकारं मन्मथो मां दुनोति॥ 22 ॥
रिपुरिव सखीसंवासोऽयं शिखीव हिमानिलो विषमिव सुधारश्मिर्यस्मिन्दुनोति मनोगते।
हृदयमदये तस्मिन्नेवं पुनर्वलते बलात्कुवलयदृशां वामः कामो निकामनिरङ्कुशः॥ 23 ॥
ज्वलतु गगने रात्रौ रात्रावखण्डकलः शशी दहतु मदनः किं वा मृत्योः परेण विधास्यति।
मम तु दयितः श्लाघ्यस्तातो जनन्यमलान्वया कुलममलिनं न त्वेवायं जनो न च जीवितम्॥ 24 ॥
इदानीं तीव्राभिर्दहन इव भाभिः परिवृतो ममाश्चर्यं सूर्यः किमु सखि रजन्यामुदयति।
अयं मुग्धं चन्द्रः किमिति मयि तापं प्रकटयत्यनाथानां बाले किमिव विपरीतं न भवति॥ 25 ॥
पिकाली वाचालीभवति बहुधालीकवचने मृणाली व्यालीव व्यथयतितरामङ्गमनिशम्।
विषज्वालाजालं सखि किरति पीयूषकिरणो जगत्प्राणः प्राणानपहरति केयं परिणतिः॥ 26 ॥
मनोरागस्तीव्रं विषमिव विसर्पत्यविरतं प्रमाथी निर्धूमं ज्वलति विधुतः पावक इव।
हिनस्ति प्रत्यङ्गं ज्वर इव गरीयानित इतो न मां त्रातुं तातः प्रभवति न चाम्बा न भवती॥ 27 ॥
आदौ हालाहलहुतभुजा दत्तहस्तावलम्बो बाल्ये शंभोर्निटि4लमहसा बद्धमैत्त्रीनिरूढः1
प्रौढो राहोरपि मुखविषे2णान्तरङ्गीकृतो यः सोयं चन्द्रस्तपति किरणैर्मामिति 3प्राप्तमेतत्॥ 28 ॥

भस्मीभूतः कुसुमविशिखः शंभुनेत्राग्निनाभूज्ज्वालादायी तदनु मनसि प्राप्तजन्मा बभूव।
भूयस्तस्मिन्विरहदहनैर्दाहितोऽसौ मयैवं कुत्रोत्पन्नो व्यथयति पुनर्मामहो तन्न वेद्मि॥ 29 ॥
पञ्चत्वं तनुरेति भूतनिवहाः स्वांशैर्मिलन्तु ध्रुवं धातारं प्रणिपत्य हन्त शिरसा तत्रापि याचे वरम्।
तद्वापीषु पयस्तदीयमुकुरे ज्योतिस्तदीयाङ्गनव्योम्नि व्योम तदीयवर्त्मनि धरा तत्तालवृन्तेऽनिलः॥ 30 ॥
यास्यामीति समुद्यतस्य गदितं विश्रब्धमाकर्णितं गच्छन्दूरमुपेक्षितो मुहुरसौ व्यावृत्य तिष्ठन्नपि।
तच्छून्ये पुनरागतास्मि भवने प्राणास्त एते दृढाः सख्यस्तिष्ठत जीवितव्यसनिनी दम्भादहं रोदिमि॥ 31 ॥
यात्रामङ्गलसंविधानरचनाव्यग्रे सखीनां जने बाष्पाम्भःपिहितेक्षणे गुरुजने तद्वत्सुहृन्मण्डले।
प्राणेशस्य महीक्षणार्पितदृशः कृच्छ्रादपि क्रामतः किं व्रीडाहतया मया भुजलतापाशो न कण्ठेऽर्पितः॥ 32 ॥
दाक्षिण्यं मलयानिलस्य विदितं शैत्यं सुधादीधितेर्वाचामेव न गोचरे मलयजस्यापि स्फुटं सौष्ठवम्।
विश्लेषे तव के न मे परिचिताः प्राणेश तत्तत्कथाविष्कारे पुनरप्रमाणयति मामव्याहतेयं तनुः॥ 33 ॥
दुर्वाराः स्मरमार्गणाः प्रियतमो दूरे मनोऽत्युत्सुकं गाढं प्रेम नवं वयोऽतिकठिनाः प्राणाः कुलं निर्मलम्।
स्त्रीत्वं धैर्यविरोधि मन्मथसुहृत्कालः कृतान्तोऽक्षमी नो सख्यश्चतुराः कथं नु विरहः सोढव्य इत्थं मया॥ 34 ॥
शंवत्तत्त्वविबोधवत्कुसुमवत्पीयूषवन्मित्त्रवद्यान्यासन्भजति प्रिये मृगदृशोऽथ प्रस्थिते तत्क्षणात्।
गेहं तन्मुकुरं तदेव वलयं तच्चन्दनं सा निशा कारावत्करवालवत्क्रकचवत्काकोलवत्कालवत्॥ 35 ॥
रोलम्बो 5मधुपः पिकस्तु परभृद्रन्ध्रानुसारी मरुद्धंसाः केवलपक्षपातनिरताश्चन्द्रोऽपि दोषाकरः।
चेतो नैति शुकस्त्विहैकपठिताख्यायी पयोदो जडः कं वाहं प्रहिणोमि हन्त कठिनस्वान्ताय कान्ताय मे॥ 36 ॥

आयाता मधुयामिनी यदि पुनर्नायात एव प्रभुः प्राणा यान्तु विभावसौ यदि पुनर्जन्मग्रहं प्रार्थये।
व्याधः कोकिलबन्धने हिमकरध्वंसे च राहुग्रहः कन्दर्पे हरनेत्रदीधितिरहं प्राणेश्वरे मन्मथः॥ 37 ॥
रात्रिर्मे दिवसायते हिमरुचिश्चण्डांशुलक्षायते तारापङ्क्तिरपि प्रदीप्तवडवावह्निस्फुलिङ्गायते।
धीरो दक्षिणमारुतोऽपि दहनज्वालावलीढायते हा हा चन्दनबिन्दुरद्य जलवत्सञ्चारिरङ्गायते॥ 38 ॥
गुञ्जन्ति प्रतिगुञ्जमम्बुजदलद्रोणीषु भृङ्गाङ्गनाः फुल्लत्पुष्परसालवीथिशिखरे कूजन्ति माद्यत्पिकाः।
कामः काममयं करोति विशिखैर्हन्तुं मुहुर्दुर्दिनं का सा तन्मलयानिलस्य सखि मे भीतिस्त्वयोद्भाव्यते॥ 39 ॥
रोलम्बाः परिपूरयन्तु हरितो झङ्कारकोलाहलैर्मन्दं मन्दमुपैतु चन्दनवनीजातो नभस्वानपि।
माद्यन्तः कलयन्तु चूतशिखरे केलीपिकाः पञ्चमं प्राणाः सत्वरमश्मसारकठिना गच्छन्तु गच्छन्त्वमी॥ 40 ॥
वार्यन्तां मन्दमन्दं मधुकरनिकरप्रौढझङ्कारधाराः क्षिप्यन्तां यत्र कुत्र प्रतिदिशमधुना भूरिभाराश्च हाराः।
दह्यन्तां सर्व एते कमलदलयुताः किं च हा पुष्पभारास्तारा नाराचधारा विकिरति हृदये मन्मथोऽयं हताशः॥ 41 ॥
श्रुत्वा नामापि यस्य स्फुटघनपुलकं जायतेऽङ्गं समन्ताद्दृष्ट्वा यस्याननेन्दुं भवति वपुरिदं चन्द्रकान्तानुकारि।
तस्मिन्नागत्य कण्ठग्रहणसरभसस्थायिनि प्राणनाथे भग्ना मानस्य चिन्ता भवति मम पुनर्वज्रमय्याः कदा नु॥ 42 ॥


  1. वियोगः. ↩︎ ↩︎ ↩︎

  2. विरामं कुरुत. ↩︎ ↩︎

  3. एतन्नामकं सरः. इयमपि रामोक्तिः. ↩︎ ↩︎

  4. ललाटनेत्राग्निना. ↩︎ ↩︎

  5. मद्यपः. ↩︎