+१४ वियोगिनो विप्रलापाः

1यदि प्रियावियोगेऽपि रुद्यते दीनदीनकम्।
तदिदं दग्धमरणमुपयोगं क्व यास्यति॥ 1 ॥

2दिव्यचक्षुरहं जातः सरागेणापि चक्षुषा।
इहस्थो येन पश्यामि देशान्तरगतां प्रियाम्॥ 2 ॥

नपुंसकमिति ज्ञात्वा तां प्रति प्रहितं मनः।
तत्तु तत्रैव रमते हताः3 पाणिनिना वयम्॥ 3 ॥

न मे दुःखं प्रिया दूरे न मे दुःखं हृतेति सा।
एतदेवानुशोचामि वयोऽस्या ह्यतिवर्तते॥ 4 ॥
यदि स्मरामि तन्वङ्गीं जीविताशा कुतो मम।
अथ विस्मृत्य जीवामि जीवितव्यसनेन किम्॥ 5 ॥
4मुखं तस्याः स्मितस्मेरं किञ्चिदञ्चलसंवृतम्।5
6मदालोकनलोलाक्षं स्मृत्वा मन्ये सुधां मुधा।7॥ 6 ॥

तद्वियोगसमुत्थेन तच्चिन्ताविपुलार्चिषा।
रात्रिं दिवं शरीरं मे दह्यते मदनाग्निना॥ 7 ॥
विशालाक्ष्याः कटाक्षेण विकृष्टं रश्मिनेव मे।
हृदयं किं करिष्यामि न पुनर्विनिवर्तते॥ 8 ॥
सति प्रदीपे सत्यग्नौ सत्सु तारारवीन्दुषु।
विना मे मृगशावाक्ष्या तमोभूतमिदं जगत्॥ 9 ॥
दत्त्वा कटाक्षमेणाक्षी जग्राह हृदयं मम।
मया तु हृदयं दत्त्वा गृहीतो मदनज्वरः॥ 10 ॥
अपूर्वो दृश्यते वह्निः कामिन्याः स्तनमण्डले।
दूरतो दहते गात्रं हृदि लग्नस्तु शीतलः॥ 11 ॥
भ्रूचापवल्लीं सुमुखी यावन्नयति वक्रताम्।
तावत्कटाक्षविशिखैर्भिद्यते हृदयं मम॥ 12 ॥
मनः प्रकृत्यैव चलं दुर्लक्ष्यं च तथापि मे।
कामेनैतत्कथं विद्धं समं सर्वैः शिलीमुखैः॥ 13 ॥
या जयश्रीर्मनोजस्य यया जगदलङ्कृतम्।
यामेणाक्षीं विना प्राणा विफला मे कुतोऽद्य सा॥ 14 ॥
अरविन्दमिदं वीक्ष्य खेलत्खञ्जनमञ्जुलम्।
स्मरामि वदनं तस्याश्चारु चञ्चललोचनम्॥ 15 ॥
स्पर्शः स्तनतटस्पर्शो वीक्षणं वक्रवीक्षणम्।
तस्याः केलिकथालापसमयः समयः सखे॥ 16 ॥
कुतः प्रेमलवोऽप्यस्ति खले मे हृदये खलु।
सुन्दरीं तामनालोक्य यदहं प्राणिमि प्रिय॥ 17 ॥
1नूनमयं मे पापः कान्ताविरहो रसायनीभूतः।
वर्षसहस्राभ्यधिकान्नयामि कथमन्यथा दिवसान्॥ 18 ॥

सङ्गमविरहवितर्के वरमिह विरहो न सङ्गमस्तस्याः।
सङ्गे सैव तथैका त्रिभुवनमपि तन्मयं विरहे॥ 19 ॥
अनिशमपि मकरकेतुर्मनसो रुजमावहन्नभिमतो मे।
यदि मदिरायतनयनां तामधिकृत्य प्रहरतीति॥ 20 ॥
दैवादहमत्र तया चपलायतनेत्रया वियुक्तश्च।
अविरलविलोलजलदः कालः समुपागतश्चायम्॥ 21 ॥
स्मेरं विधाय नयनं विकसितमिव नीलमुत्पलं मयि सा।
कथयामास कृशाङ्गी मनोगतं निखिलमाकूतम्॥ 22 ॥
आनन्दममन्दमिमं कुवलयदललोचने ददासि त्वम्।
विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे॥ 23 ॥
तस्यां सुतनुसरस्यां चेतो नयनं च निष्पतितम्।
चेतो गुरु तु निमग्नं लघु नयनं सर्वतो भ्रमति॥ 24 ॥
निष्कासयन्त्यनेके सागरसरिदम्बुपूरपरिपतितम्।
हृदयह्रदे निमग्नामिन्दुमुखीं मा बहिः कुरुताम्॥ 25 ॥
दर्शनपथमुपयाता यदवधि मदिरायतेक्षणा सहसा।
तदवधि हृदयेनाहं मदनेषुभयादिवोन्मुक्तः॥ 26 ॥
अपसरति न चक्षुषो मृगाक्षी रजनिरियं च न याति नैति निद्रा।
प्रहरति मदनोऽपि दुःखितानां बत बहुशोऽभिमुखीभवन्त्यपायाः॥ 27 ॥
पुनरपि मिलनं यदाकदाचित्प्रियतमया कृपया भवेद्विधातुः।
हरिरिव करवै हृदि प्रतिष्ठामिह रमणीं तनवै तनोरभिन्नाम्॥ 28 ॥
स्खलदंशुकमव्यवस्थतारं स्मितकान्तिस्नपिताधरप्रवालम्।
असमाप्तनकारमाप्तशोभं हरिणाङ्कं हरिणीदृशः स्मरामः॥ 29 ॥
अधृतपरिपतन्निचोलबन्धं मुषितनकारमवक्रदृष्टिपातम्।
प्रकटहसितमुन्नतास्यबिम्बं पुरसुदृशः स्मरचेष्टितं स्मरामि॥ 30 ॥
नयनेन निरीक्षिता नताङ्गी हृदये हन्त पतत्त्रिणः पतन्ति।
विषमा विषमायुधव्यथासौ परिभूयेत परः परापराधैः॥ 31 ॥
यत्राकृतिस्तत्र गुणा वसन्ति नैतद्धि सम्यक्कविभिः प्रणीतम्।
येनातिचार्वङ्ग्यपि मे हृदिस्था दुनोति गात्रं विरहे प्रियासौ॥ 32 ॥
पञ्चसायकमहेन्द्रजालिना पाणिपद्मसमुदञ्चिता स्वयम्।
मोहनाय मनसः प्रगल्भते पिच्छिकेव मम चञ्चलेक्षणा॥ 33 ॥
दूरमस्तु दरघूर्णिततारं शारदेन्दुमुखवीक्षणमक्ष्णोः।
एतदेव मम पुण्यमगण्यं यत्कृशोदरि दृशोरतिथिस्त्वम्॥ 34 ॥
ग्रसति कोऽपि विमोहविधुंतुदो हृदयचन्द्रमसं मम दारुणः।
तदपि हन्त तदन्तरशायिनी लगति चिह्नमृगीव मृगेक्षणा॥ 35 ॥
असुलभा सकलेन्दुमुखी च सा किमपि चेदमनङ्गविचेष्टितम्।
1अभिमुखीष्विव वाञ्छितसिद्धिषु व्रजति निर्वृतिमेकपदे मनः।2॥ 36 ॥

तप्ते महाविरहवह्निशिखावलीभिरापाण्डुरस्तनतटे हृदये प्रियायाः।
मन्मार्गवीक्षणनिवेशितदीनदृष्टेर्नूनं छमच्छमिति बाष्पकणाः पतन्ति॥ 37 ॥
कान्तामुखं सुरतकेलिविमर्दखेदसञ्जातघर्मकणविच्छुरितं रतान्ते।
आपाण्डुरं विलसदर्धनिमीलिताक्षं संस्मृत्य हे हृदय किं शतधा न यासि॥ 38 ॥
अद्यापि तत्प्रचलकुण्डलमृष्टगण्डं वक्त्रं स्मरामि विपरीतरताभियोगे।
आन्दोलनश्रमजलस्फुटसान्द्रबिन्दुमुक्ताफलप्रकरविच्छुरितं प्रियायाः॥ 39 ॥
3निद्रार्धमीलितदृशो मदमन्थराणि नाप्यर्थवन्ति न च नाम निरर्थकानि।
अद्यापि मे मृगदृशो मधुराणि तस्यास्तान्यक्षराणि हृदये किमपि ध्वनन्ति॥ 40 ॥

अद्यापि तां कनकचम्पकदामगौरीं फुल्लारविन्दनयनां तनुरोमराजिम्।
सुप्तोत्थितां मदनविह्वललालसाङ्गीं विद्यां प्रमादगलितामिव चिन्तयामि॥ 41 ॥
अद्यापि सा मनसि सम्प्रति वर्तते मे रात्रौ मयि क्षुतवति क्षितिपालपुत्र्या।
जीवेति मङ्गलवचः परिहृत्य कोपात्कर्णे कृतं कनकपत्त्रमनालपन्त्या॥ 42 ॥
आसन्नमार्गमतिलङ्घ्य न तेन मूर्ध्ना पश्चात्प्रसङ्गवलितेन मुखेन यान्त्या।
आरोपिताः कतिपये मयि पङ्कजाक्ष्या साकूतहासमनतिप्रकटाः कटाक्षाः॥ 43 ॥
राजल्ललाटफलका कमनीयकूजत्काञ्चीगुणप्रणयिनी धृतकेशपक्षा।
हा किं करोमि मम सा हृदयं प्रविष्टा नाराचयष्टिरिव पुष्पशिलीमुखस्य॥ 44 ॥
यत्र क्षिपामि दृशमन्यदिदृक्षयाहं तत्राग्रतः स्फुरति केवलमेतदेव।
तद्वक्त्रबिम्बमरुणाधरलोभनीयं ते लोचने तदलसालसमीक्षितं च॥ 45 ॥
मन्दस्मितेन मधुराधरपल्लवेन कुम्भोन्नमत्कुचभरेण कृशोदरेण।
विद्युन्निभाङ्गलतया च विचिन्त्यमाना चेतो धुनोति च धिनोति च चञ्चलाक्षी॥ 46 ॥
तामिन्दुसुन्दरमुखीं सुचिरं विभाव्य चेतः कथं कथमपि व्यपवर्तते मे।
लज्जां विजित्य विनयं विनिवार्य धैर्यमुन्मथ्य मन्थरविवेकमकाण्ड एव॥ 47 ॥
यद्विस्मयस्तिमितमस्तमितान्यभावमानन्दमन्दममृतप्लवनादिवाभूत्।
तत्सन्निधौ तदधुना हृदयं मदीयमङ्गारचुम्बितमिव व्यथमानमास्ते॥ 48 ॥
पश्यामि तामित इतः पुरतश्च पश्चादन्तर्बहिः परित एव विवर्तमानाम्।
उद्बुद्धमुग्धकनकाब्जनिभं वहन्तीमासक्ततिर्यगपवर्तितदृष्टि वक्त्रम्॥ 49 ॥
लीलास्मितेन शुचिना मृदुनोदितेन व्यालोकितेन लघुना गुरुणा गतेन।
व्याजृम्भितेन जघनेन च दर्शितेन सा हन्ति तेन गलितं मम जीवितेन॥ 50 ॥
यान्त्या मुहुर्वलितकन्धरमाननं तदावृत्तवृन्तशतपत्त्रनिभं वहन्त्या।
दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः॥ 51 ॥
तां हेमचम्पकरुचिं मृगशावकाक्षीं पार्श्वे स्थितां च पुरतः परिवर्तमानाम्।
पश्चात्तथा दशदिशासु परिस्फुरन्तीं पश्यामि तन्मयमहो भुवनं किमेतत्॥ 52 ॥
अद्यापि तिष्ठति दृशोरिदमुत्तरीयं धर्तुं पुरः स्तनतटात्पतितं प्रवृत्ता।
वाचं निशम्य नयनं नयनं ममेति किञ्चित्तदा यदकरोत् स्मितमायताक्षी॥ 53 ॥
राकासुधाकरमुखी तरलायताक्षी सस्मेरयौवनतरङ्गितविभ्रमास्या।
तत्किं करोमि कथमत्र तनोमि मैत्त्रीं तत्स्वीकृतिव्यतिकरे क इहाभ्युपायः॥ 54 ॥
यान्त्याः सरः सलिलकेलिकुतूहलाय व्याजादुपेत्य मयि वर्त्मनि वर्तमाने।
अन्तःस्थितद्युतिचमत्कृतिदृक्तरङ्गैरङ्गीकृतं किमपि वामदृशः स्मरामि॥ 55 ॥
मन्दादरः कुसुमपत्त्रिषु पेलवेषु नूनं बिभर्ति मदनः पवनास्त्रमद्य।
हारप्रकाण्डसरलाः कथमन्यथामी श्वासाः प्रनर्तितदुकूलदशाः सरन्ति॥ 56 ॥
पीतो यतः-प्रभृति कामपिपासितेन तस्या मयाधररसः प्रचुरः प्रियायाः।
तृष्णा ततः प्रभृति मे द्विगुणत्वमेति लावण्यमस्ति बहु तत्र किमप्यपूर्वम्॥ 57 ॥
अलसविलसितानामुल्लसद्भूलतानां मसृणमुकुलितानां प्रान्तविस्तारितानाम्।
प्रतिनयननिपाते किञ्चिदाकुञ्चितानां विविधमहमभूवं पात्रमालोकितानाम्॥ 58 ॥
अलसवलितमुग्धस्निग्धनिष्पन्दमन्दैरधिकविकसदन्तर्विस्मयस्मेरतारैः।
हृदयमशरणं मे पक्ष्मलाक्ष्याः कटाक्षैरपहृतमपविद्धं पीतमुन्मूलितं च॥ 59 ॥
क्रमसरलितकण्ठप्रक्रमोल्लासितोरस्तरलितवलिलेखासूत्रसर्वस्वमस्याः।
स्तितमतिचिरमुच्चैरग्रपादाङ्गुलीभिः करकलितसखीकं मां दिदृक्षोः स्मरामि॥ 60 ॥
1व्रीडायोगा2न्नतवदनया सन्निधाने गुरूणां बद्धोत्कम्पस्तनकलशया 3मन्युमन्तर्निगृह्य4
तिष्ठेत्युक्तं किमिव न तया यत्समुत्सृज्य बाष्पं मय्यासक्तश्चकितहरिणीहारिनेत्रत्रिभागः॥ 61 ॥

वारं वारं तिरयति दृशोरुद्गमं बाष्पपूरस्तत्सङ्कल्पोपहितजडिमस्तम्भमभ्येति गात्रम्।
सद्यः स्विद्यन्नयमविरतोत्कम्पलोलाङ्गुलीकः पाणिर्लेखाविधिषु नितरां वर्तते किं करोमि॥ 62 ॥
हा हा देवि स्फुटति हृदयं स्रंसते देहबन्धः शून्यं मन्ये जगदविरतज्वालमन्तर्ज्वलामि।
सीदन्नन्धेतमसि विधुरो मज्जतीवान्तरात्मा विष्वङ्मोहः स्थगयति कथं मन्दभाग्यः करोमि॥ 63 ॥
ऊरू रम्भा दृगपि कमलं शेवलं केशपाशो वक्त्रं चन्द्रो लपितममृतं मध्यदेशो मृणालम्।
नाभिः कूपो वलिरपि सरित्पल्लवः किं च पाणिर्यस्याः सा चेदुरसि न कथं हन्त तापस्य शान्तिः॥ 64 ॥
प्रासादे सा दिशि दिशि च सा पृष्ठतः सा पुरः सा पर्यङ्के सा पथि पथि च सा तद्वियोगातुरस्य।
हंहो चेतः प्रकृतिरपरा नास्ति मे कापि सा सा सा सा सा सा जगति सकले कोऽयमद्वैतवादः॥ 65 ॥
कुन्दं दन्तैर्मधु निगदितैः षट्पदं दृग्विलासैरेभिर्हासैरमृतलहरीं कुन्तलैरम्बुवाहम्।
इन्दोर्बिम्बं वदनशशिना पङ्कजं च स्तनाभ्यां त्वं जित्वा तान्वससि हृदये तेन मां विद्विषन्ति॥ 66 ॥
स्वप्ने दृष्टा किमपि पिशुनाशङ्कया नैव पृष्टा स्पृष्टा नीवी न खलु भयतः किङ्किणीनिक्वणानाम्।
आश्लेषाय स्पृहयति मयि द्राग्व्यरंसीदसीमा निद्रामुद्रा शिव शिव दृशोरीदृशो दुर्विपाकः॥ 67 ॥
दलति हृदयं गाढोद्वेगं द्विधा न तु भिद्यते वहति विकलः कायो मोहं न मुञ्चति चेतनाम्।
ज्वलयति तनूमन्तर्दाहः करोति न भस्मसात्प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम्॥ 68 ॥
जगति जयिनस्ते ते भावा नवेन्दुकलादयः प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये।
मम तु यदियं याता लोके विलोचनचन्द्रिका नयनविषयं जन्मन्येकः स एव महोत्सवः॥ 69 ॥
मयि सकपटं किञ्चित्क्वापि प्रणीतविलोचने किमपि नयनं प्राप्ते तिर्यग्विजृम्भिततारकम्।
स्थितमुपगतामालीं दृष्ट्वा सलज्जमवाञ्चितं कुवलयदृशः स्मेरं स्मेरं स्मरामि तदाननम्॥ 70 ॥
हृदयमिषुभिः कामस्यान्तः सशल्यमिदं सदा कथमुपलभे निद्रां स्वप्ने समागमकारिणीम्।
न च सुवदनामालेख्येऽपि प्रियामसमाप्य तां मम नयनयोरुद्बाष्पत्वं सखे न भविष्यति॥ 71 ॥
कुसुमशयनं न प्रत्यग्रं न चन्द्रमरीचयो न च मलयजं सर्वाङ्गीणं न वा मणियष्टयः।
मनसिजरुजं सा वा दिव्या ममालममोहितुं रहसि लघयेदारब्धा वा तदाश्रयिणी कथा॥ 72 ॥
1इदम2शिशिरैरन्त3स्तापाद्विवर्ण4मणीकृतं निशि निशि भुजन्यस्ता5पाङ्गप्रवर्तिभिरश्रुभिः।
अनतिलुलितज्या6घाताङ्कं मुहुर्मणिबन्धनात्कन7कवलयं स्रस्तं8 स्रस्तं मया प्रतिसार्यते॥ 73 ॥

कदा कान्तागारे परिमलमिलत्पुष्पशयने शयानः श्यामायाः कुचयुगमहं वक्षसि वहन्।
अये स्निग्धे मुग्धे चपलनयने चन्द्रवदने प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान्॥ 74 ॥
तया गाढं मुक्तो भ्रुवि धनुषि सन्धाय निशितः कटाक्षेषुर्नान्यैः सह पठनयोग्यः शरगणैः।
पतन्गात्रे गात्रे परममृतमास्नौदिव तदा दवीयानद्यायं दलयति पुनर्न व्रणयति॥ 75 ॥
तदामुग्धं वक्त्रं किसलयसखः सोऽधरमणिर्विशाले ते नेत्रे स्तनभरनता सा तनुलता।
सलीलं तद्यातं जननयनसञ्जीवनसुधा प्रिया सा सा सा सेत्यजनि हृदयं तन्मयमहो॥ 76 ॥
कटाक्षेणापीषत्क्षणमपि निरीक्षेत यदि सा तदानन्दः सान्द्रः स्फुरति निहताशेषविषयः।
सरोमाञ्चोदञ्चत्कुचकलशनिर्भिन्नवसनः परीरम्भारम्भः क इव भविताम्भोरुहदृशः॥ 77 ॥
पुरस्ताद्गच्छन्ती सह सहचरीभिः प्रियतमा ममालापं श्रुत्वा सचकितपरावृत्तवदना।
किमग्रे व्यासङ्गादहमहह यामीति विनयप्रणालीमालीनां यदकृत तदन्तर्व्यथयति॥ 78 ॥
समुत्तीर्णे तन्व्या निशितनयनान्तेन मृदितेस्तनद्वन्द्वस्पन्दैः स्मितलवसुधाभिः प्लुतमति।
मदन्तःकेदारे मदनकृषिकारेण जनिता चिरादाशावल्ली किमिति न फलं हन्त लभते॥ 79 ॥
विलीयेन्दुः साक्षादमृतरसवापी यदि भवेत्कलङ्कस्तत्रत्यो यदि च विक9चेन्दीवरवनम्।
ततः स्नानक्रीडाजनित10जडभावैरवयवैः कदाचिन्मुञ्चेयं मदनशिखिपीडाव्यतिकरम्11॥ 80 ॥

परागैः कार्पूरैस्तुहिनसलिलैश्चान्दनरसैः सुधाभिर्ज्योत्स्नाभिः स्नपितमिव यः प्रागकृत माम्।
स एवासौ मारः शिव शिव वियोगे मृगदृशः करालं काकोलं किरति मयि कालानलमपि॥ 81 ॥
न दूतीसञ्चारो न सरसपरोक्षोक्तिकलना न सांमुख्ये हासः क्वचिदपि न वाचां व्यतिकरः।
अहो चित्रं चेतः क्षणपरिचितालोकनवशान्मुहुर्धावं धावं व्रजति सुदृशं नो विरमति॥ 82 ॥
शशीरं क्षामं स्यादसति दयितालिङ्गनसुखे भवेत्सास्रं चक्षुः क्षणमपि न सादृश्यत इति।
तया सारङ्गाक्ष्या त्वमसि न कदाचिद्विरहितं प्रसक्ते निर्वाणे हृदय परितापं वहसि किम्॥ 83 ॥
दृगन्तव्यापारप्रबलनिगडेन स्फुरदुरस्तटीकारागारे तव समुचितं बन्धनमिदम्।
अरे चेतस्त्यक्त्वा यदिह जनमाजन्मसुहृदं क्षणप्राप्तामेतामधरमधुलाभेन भजसे॥ 84 ॥
विपत्सिन्धुं बन्धुं विगलितजलं नेत्रयुगलं सशोकं भूलोकं भुवनवलयं खेदनिलयम्।
अनङ्गं नीरङ्गं विघटितधनं कोशभवनं विधातुं किं धातस्तव हृदि न लज्जा प्रभवति॥ 85 ॥
न वक्षोजाश्लेषप्रभृतिकुतुकानामवगमो न पीयूषस्वादस्मितवलितवाचामनुभवः।
न चासीन्मे तादृग्दृढपरिचयः पङ्कजदृशः कुतो हेतोस्तन्वी क्षणमपि न निर्याति मनसः॥ 86 ॥
आः पात्री स्यामकृतकघनप्रेमविस्फारितानां सव्रीडानां सकलकरणानन्दनाडिन्धमानाम्।
तेषां तेषां हृदयनिहिताकूतनिष्यन्दिनेत्रव्यापाराणां पुनरपि तथा सुभ्रुवो विभ्रमाणाम्॥ 87 ॥
तदङ्गमपि नाम तत्सहजकान्तिपूराप्लुतं सुवर्णकदलीदलोद्दलितगर्भगौरं पुनः।
कठोरमदनव्यथापिशुनपाण्डिमाधिष्ठितप्रथीयकुचमण्डलं परिरभेय वीक्षेय वा॥ 88 ॥
जाने कोपपराङ्मुखी प्रियतमा स्वप्नेऽद्य दृष्टा मया मा मा संस्पृश पाणिनेति रुदती गन्तुं प्रवृत्ता पुरः।
नो यावत्परिरभ्य चाटुकशतैराश्वासयामि प्रियां भ्रातस्तावदहं शठेन विधिना निद्रादरिद्रीकृतः॥ 89 ॥
याताः किं न मिलन्ति सुन्दरि पुनश्चिन्ता त्वया मत्कृते नो कार्या नितरां कृशासि कथयत्येवं सबाष्पे मयि।
लज्जामन्थरतारकेण निपतत्पीताश्रुणा चक्षुषा दृष्ट्वा मा हसितेन भाविमरणोत्साहस्तया सूचितः॥ 90 ॥
श्वासा एव मृगीदृशो न गणिताः के नाम झञ्झानिलास्तीर्णा बाष्पपरम्परैव सरितां वृन्देषु कः सम्भ्रमः।
सोढा कातरदृष्टिरेव कियती वज्राभिघातव्यथा प्रेमैवायमुपेक्षितो यदि तदा प्राणेषु कोऽनुग्रहः॥ 91 ॥
सा बाला वयमप्रगल्भवचसः सा स्त्री वयं कातराः सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम्।
साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैरन्यजनाश्रयैरपटवो जाताः स्म इत्यद्भुतम्॥ 92 ॥
प्रेमार्द्राः प्रणयस्पृशः परिचयादुद्गाढरागोदयास्तास्ता मुग्धदृशो निसर्गमधुराश्चेष्टा भवेयुर्मयि।
यास्वन्तःकरणस्य बाह्यकरणव्यापाररोधी क्षणादाशंसापरिकल्पितास्वपि भवत्यानन्दसान्द्रो लयः॥ 93 ॥
धन्या सा गृहदेहली स्पृशति या तत्पादपद्मप्रभां जाता सा सरसी रसाद्विशति सा यस्यां विहारेच्छया।
वन्द्यः कोऽपि स एव यः खलु तया नेत्रेण सम्भाव्यते धिग्धिग्वेधसमेषु मां यदनयन्नैकं कथञ्चित्कथम्॥ 94 ॥
किं मे सद्गुरुसेवनैः प्रतिदिनं किं व्योमकेशार्चनैः किं स्यादध्ययनेन वा सुरपुरप्राप्त्याथवा किं फलम्।
एतस्याः कुचकुम्भनिर्भरपरीरम्भप्रभावोद्भवस्वेदाम्भोभिरनङ्गवह्निरधुना निर्वापितो नो यदि॥ 95 ॥
तन्वी सा यदि गायति श्रुतिकटुर्वीणाध्वनिर्जायते यद्याविष्कुरुते स्मितानि मलिनैवालक्ष्यते चन्द्रिका।
आस्ते म्लानमिवोत्पलं नवमपि स्याच्चेत्पुरो नेत्रयोस्तस्याः श्रीरवलोक्यते यदि तडिद्वल्ली विवर्णैव सा॥ 96 ॥
तानि स्पर्शसुखानि ते च तरलस्निग्धा दृशोर्विभ्रमास्तद्वक्त्राम्बुजसौरभं स च सुधास्यन्दी गिरां वक्रिमा।
सा बिम्बाधरमाधुरीति विषयासङ्गेऽपि मन्मानसं तस्यां लग्नसमाधि हन्त विरहव्याधिः कथं वर्तते॥ 97 ॥
तस्मिन्पञ्चशरे स्मरे भगवता भर्गेण भस्मीकृते जानाम्यक्षयसायकं कमलभूः कामान्तरं निर्ममे।
यस्यामीभिरितस्ततश्च विशिखैरापुङ्खमग्नात्मभिर्जातं मे विदलत्कदम्बमुकुलस्पष्टोपमानं वपुः॥ 98 ॥
ज्योत्स्नीं श्यामलिमानमानयत भोः सान्द्रैर्मषीकूर्चकैर्मन्त्रं तन्त्रमथ प्रयुज्य हरत श्वेतोत्पलानां स्मितम्।
चन्द्रं चूर्णयत क्षणाच्च कणशः कृत्वा शिलापट्टके येन द्रष्टुमहं क्षमे दश दिशश्तद्वक्त्रमुद्राङ्किताः॥ 99 ॥
किं तिष्ठामि किमु व्रजामि किमहं जागर्मि निद्रामि किं किं जानामि किमु भ्रमामि किमु वा सुख्यामि दुःख्यामि वा।
किं नास्म्यस्मि किमित्यनल्पकलिते न क्वापि पक्षे स्थितः प्राप्यानिर्वचनीयमेव कमपि क्रूरं विकारं सखे॥ 100 ॥
आसीनः शयितः स्थितः प्रचलितः स्वप्नायितो जागृतः पश्यन्मीलितलोचनो व्यवहरन्मौनं प्रपन्नोऽथवा।
तां प्रेमाकुलवीक्षितां स्मितमुखीं सव्रीडमन्दागमां श्लिष्यन्तीं प्रणयार्द्रमुग्धलपितां पश्यामि नक्तं दिवम्॥ 101 ॥
नीलेन्दीवरशङ्कया नयनयोर्बन्धूकबुद्ध्याधरे पाणौ पद्मधिया मधूककुसुमभ्रान्त्या तथा गण्डयोः।
लीयन्ते कबरीषु बान्धवजनव्यामोहजातस्पृहा दुर्वारा मधुपाः कियन्ति तरुणि स्थानानि रक्षिष्यसि॥ 102 ॥
सा मे यद्यपि सुन्दरी भगवतो मामेव चेतोभुवो न स्वप्ने न च जागरे नयनयोः पन्थानमासादिता।
तामाकर्ण्य तथापि तादृशदशावैधुर्यमासेदुषीमानन्दाद्भुतशोककौतुकभयव्रीडाकुलं मे मनः॥ 103 ॥
सा सञ्चारचमत्कृतिर्नयनयोः स भ्रूलताविभ्रमस्तद्बिम्बाधरपाटलस्मितयुतस्यास्यस्य सा वैखरी।
सेयं चङ्क्रमचातुरी चरणयोः सोऽप्यङ्गहारक्रमो दिष्ट्या तन्मम नेत्रपात्रमखिलं जायेत जीवामि च॥ 104 ॥
लीनेव प्रतिम्बितेव लिखितेवोत्कीर्णरूपेव च प्रत्युप्तेव च वज्रलेपघटितेवान्तर्निखातेव च।
सा नश्चेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभिश्चिन्तासन्ततितन्तुजालनिबिडस्यूतेव लग्ना प्रिया॥ 105 ॥
सा विद्याधरकन्यका किमु भुवं पुण्यैः प्रपन्ना नृणां लावण्यामृतसागराद्विमथिता लक्ष्मीः किमन्योत्थिता।
आ ज्ञातं घनसारचन्दनसुधाज्योत्स्नामृणालादिभिः प्रारब्धा हृदयं मम भ्रमयितुं पौष्पेषवी शाम्बरी॥ 106 ॥
हृत्वा पद्मवनद्युतिं प्रियतमेवेयं दिनश्रीर्गता रागोऽस्मिन्मम चेतसीव सवितुर्बिम्बेऽधिकं लक्ष्यते।
चक्राह्वोऽहमिव स्थितः सहचरीं ध्यायन्नलिन्यास्तटे सञ्जाताः सहसा ममैव भुवनस्याप्यन्धकारा दिशः॥ 107 ॥
नेत्रे खञ्जनगञ्जने नवसुधाधारानुकारा गिरः पाणिः पद्मसहोदरः कचरुचिः शैवालजालोपमा।
वक्त्रं कार्तिकपौर्णिमापतिसमं हारिद्रहृद्यं वपुस्त्वं यस्मै वलसे विलासिनि हृदा तेनैव तप्तं तपः॥ 108 ॥
आस्तां दूरतया तदीयवदनाम्भोजामृतास्वादनं नोदेत्येव मनोरथोऽपि हृदये तत्संगमाशां प्रति।
उत्कण्ठाशिथिलीकृताङ्गलतिकं वीक्षेत मामेकदा सस्नेहं यदि सा सरोजवदना धन्या वयं तावता॥ 109 ॥
निद्रे लोचनमुद्रणं विरचय स्वप्न त्वमप्याचर प्राणाभिन्नतमां चिरात्प्रियतमां मच्चेतसो गोचरम्।
भ्रातर्बोध दृढानुरोध न तथा कुर्या यथा प्रेयसीप्रौढाश्लेषविघट्टन्नेन भवतः क्रीडन्ति दुष्कीर्तयः॥ 110 ॥
लज्जैवोद्घटिता किमत्र कुलिशोद्विग्ना कपाटावली मर्यादैव विलङ्घिता सखि पुनः केयं कलिन्दात्मजा।
आक्षिप्ता खलु दृष्टिरेव किमियं व्यालावली वा पुनः प्राणा एव समर्पिताः सखि पुनस्तस्मै किमेषा तनुः॥ 111॥
सव्याजं तिलकालकान्विरलयल्लोलाङ्गुलिः संस्पृशन्वारं वारमुदञ्चयन्कुचयुगप्रोदञ्चिनीलाञ्चलम्।
यद्भ्रूभङ्गतरङ्गिताञ्चितदृशा सावज्ञमालोकितं तद्गर्वादवधीरितोऽस्मि न पुनः कान्ते कृतार्थीकृतः॥ 112 ॥
क्वाकार्यं शशलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा दोषाणां प्रशमाय नः श्रुतमहो कोपेऽपि कान्तं मुखम्।
किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं पास्यति॥ 113 ॥
हा धिक् सा किल तामसी शशिमुखी दृष्टा मया यत्र सा तद्विच्छेदरुजान्धकारितमिदं दग्धं दिनं कल्पितम्।
किं कुर्मः कुशले सदैव विधुरो धाता न चेत् तत् कथं तादृग्यामवतीमयो भवति मे नो जीवलोकोऽधुना॥ 114 ॥
स्नाता तिष्ठति कुन्तलेश्वरसुता वारोङ्गराजस्वसुर्द्यूतै रात्रिरियं जिता कमलया देवी प्रसाद्याद्य च।
इत्यन्तःपुरसुन्दरीः प्रति मया विज्ञाय विज्ञापिते देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः॥ 115 ॥
सा सौन्दर्यनिधिर्विलासभवनं मीनध्वजस्यापि वा कान्तीनामधिदेवताधिकरणं माधुर्यसारस्य वा।
तामुद्वीक्ष्य सखे तदादि गतवान्सर्वेन्द्रियाणामहं सार्धं तद्गतमानसेन गलितोत्साहः किलानीशताम्॥ 116 ॥
तस्याः किं मुखपङ्कजं स्मितरुचा चन्द्रद्युतेर्निन्दकं किं वा नेत्रयुगं कटाक्षचतुरं किं भ्रूलताविभ्रमम्।
किं वा स्निग्धमवेक्षितं मयि पुनर्यान्त्या सखीनां पुरः किं किं सम्प्रति चिन्तयामि हृदये कामेन लक्ष्यीकृते॥ 117 ॥
शीतांशुर्विषसोदरः फणभृतां लीलास्पदं चन्दनं हारः क्षारपयोभवः प्रियसुहृत्पङ्केरुहं भास्वतः।
इत्येषां किमिवास्तु वस्तु मदनज्वालाविघाताय यद्बाह्याकारपरिभ्रमेण तु वयं तत्त्वत्यजो वञ्चिताः॥ 118 ॥
जाने स्वप्नविधौ ममाद्य चुलुकोत्सेक्यं पुरस्तादभूत्प्रत्यूषे परिवेषमण्डलमिव ज्योत्स्नासपत्नं महः।
तस्यान्तर्नखनिस्तुषीकृतशरच्चन्द्रप्रभैरङ्गकैर्दृष्टा काप्यबला बलात्कृतवती सा मन्मथं मन्मथम्॥ 119 ॥
सौमित्रे ननु सेव्यतां तरुतलं चण्डांशुरुज्जृम्भते चण्डांशोर्निशि का कथा रघुपते चन्द्रोऽयमुन्मीलति।
वत्सैतद्विदितं कथं तु भवता धत्ते कुरङ्गं यतः क्वासि प्रेयसि हा कुरङ्गनयने चन्द्रानने जानकि॥ 120 ॥
पादाङ्गुष्ठेन भूमिं 1किसलयरुचिना 2सापदेशं लिखन्ती भूयो भूयः क्षिपन्ती मयि सितशबले लोचने 3लोलतारे।
वक्रं ह्रीन4म्रमीषत्स्फुरदधरपुटं वाक्यगर्भं दधाना यन्मां नोवाच किञ्चित् स्थितमपि पुरतो मानसं तद्दुनोति5॥ 121 ॥

चक्षुः-प्रीत्या निषण्णे मनसि परिचयाच्चिन्त्यमानेऽभ्युपाये याते रागे विवृद्धिं प्रविसरति गिरां विस्तरे दूतिकायाः।
आस्तां दूरे स तावत्सरभसदयितालिङ्गनानन्दलाभस्तद्गेहोपान्तरथ्याभ्रमणमपि परां निर्वृतिं सन्तनोति॥ 122 ॥


  1. रोदनं क्रियते. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. अतीन्द्रियज्ञानवान्. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. वञ्चिताः. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. स्मितेन हास्येन स्मेरं प्रसन्नम्. ↩︎ ↩︎ ↩︎ ↩︎

  5. वस्त्राञ्चलेनावगुण्ठितम्. ↩︎ ↩︎ ↩︎

  6. अमृतम्. ↩︎ ↩︎

  7. व्यर्थम्. ↩︎ ↩︎

  8. वारं वारं गलितम्. ↩︎

  9. विकसितम्. ↩︎

  10. शैत्यम्. ↩︎

  11. वह्निः. ↩︎