दह्यमानेऽपि हृदये मृगाक्ष्या मन्मथाग्निना।
स्नेहस्तथैव यत्तस्थौ तदाश्चर्यमिवाभवत्॥ 1 ॥
जीवेन तुलितं प्रेम सखि मूढेन वेधसा।
लघुर्जीवो ययौ कण्ठं गुरुप्रेम हृदि स्थितम्॥ 2 ॥
कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ।
अपश्यन्ताविवान्योन्यमीदृक्षां क्षामतां गतौ॥ 3 ॥
वल्लभोत्सङ्गसङ्गेन विना हरिणचक्षुषः।
राकाविभावरीजानिर्विषज्वालाकुलोऽभवत्॥ 4 ॥
अस्तमितविषयसङ्गा मुकुलितनयनोत्पला मुहुः श्वसिता।
ध्यायति किमप्यलक्ष्यं बाला योगाभियुक्तेव॥ 5 ॥
लिखति न गणयति रेखा निर्झरबाष्पाम्बुधौतगण्डतटा।
अवधिदिवसावसानं मा भूदिति शङ्किता बाला॥ 6 ॥
अपसारय घनसारं कुरु हारं दूर एव किं कमलैः।
अलमलमालि मृणालैरिति वदति दिवानिशं बाला॥ 7 ॥
पातयति हृदयदेशे प्रियजनगर्भे पुनः पुनर्मुग्धा।
वर्णितमदनातङ्का बाष्पवतीं भावमन्थरां दृष्टिम्॥ 8 ॥
श्लिष्यति पश्यति चुम्बति पुनः पुनः पुलकमुकुलितैरङ्गैः।
प्रियसङ्गाय स्फुरितां वियोगिनी वामबाहुलताम्॥ 9 ॥
कमले निधाय कमलं कलयन्ती कमलवासिनं कमले।
कमलयुगादुद्भूतं कमलं कमलेन वारयति॥ 10 ॥
नयनोत्पलचलधारां दृष्ट्वा वारांनिधिभ्रान्त्या।
वडवानल इव भगवान्वसति तनौ कृशतनोस्तापः॥ 11 ॥
लीनानसून्सरोरुहदृष्टेरन्वेष्टुमेष कुसुमेषुः।
भ्रमति द्राग्वपुरन्तः सन्तापं दीपमादाय॥ 12 ॥
कुसुमितलताभिरहताप्यधत्त रुजमलिकुलैरदष्टापि।
परिवर्तते स्म नलिनी लहरीभिर्लोलिताप्यघूर्णत सा॥ 13 ॥
शशभृन्नवपल्लवे शशाङ्के मकरन्दस्रुतिवारिणी सरोजे।
अपि चास्य मरुद्गणान्प्रसूते तिलकुसुमं स्फुटचम्पकौघदाम्नि॥ 14 ॥
अदिदेहलि हन्त हेमवल्ली शरदिन्दुः सरसीरुहे शयानः।
उपखञ्जनचञ्चु मौक्तिकाली फलितं कस्य सुजन्मनस्तपोभिः॥ 15 ॥
विश्राम्य विश्रम्य वनद्रुमाणां छायासु तन्वी विचचार काचित्।
तनूत्तरीयेण करोद्धृतेन निवारयन्ती शशिनो मयूखान्॥ 16 ॥
अपि मरणमुपैति सा मृगाङ्के विसलति कैव कथा रसान्तरस्य।
अपि कथमधुना दधातु शान्तिं विषमशरज्वरतीव्रदेहदाहः॥ 17 ॥
निविशते यदि शूकशिखा पदे सृजति सा कियतीमिव न व्यथाम्।
मृदुतनोर्वितनोतु कथं न तामवनिभृत्तु निविश्य हृदि स्थितः॥ 18 ॥
सा तोरणान्तिकमुपेत्य दिशोऽवलोक्य निःश्वस्य दीर्घमुपधाय करं कपोले।
मत्वा च तं पुरत एव ससम्भ्रमत्वाज्ज्ञात्वा स1 मोहलिखितेव न किं किमासीत्॥ 19 ॥
अस्यास्तनौ विरहताण्डवरङ्गभूमौ स्वेदोदबिन्दुकुसुमाञ्जलिमाविकीर्य।
नान्दीं पपाठ पृथुवेपथुवेपमानकाञ्चीलताकलरवैः स्मरसूत्रधारः॥ 20 ॥
मदनदहनशुष्यत्क्लान्तकान्ताकुचान्तर्घनमलयजपङ्के गाढबद्धाखिलाङ्घ्रिः।
उपरि विततपक्षो लक्ष्यतेऽलिर्निमग्नः शर इव कुसुमेषोरेष पुङ्खावशेषः॥ 21 ॥
नवकिसलयतल्पं कल्पितं तापशान्त्यै करसरसिजसङ्गात्केवलं म्लापयन्त्याः।
कुसुमशरकृशानुप्रापिताङ्गारतायाः शिवशिव परितापं को वदेत्कोमलाङ्ग्याः॥ 22 ॥
दरललितहरिद्राग्रन्थिगौरे शरीरे स्फुरति विरहजन्मा कोऽप्ययं पाण्डुभावः।
वलति सति हि यस्मिन्सार्धमावर्त्य हेम्ना रजतमिव मृगाक्ष्याः कल्पितान्यङ्गकानि॥ 23 ॥
किसलयमिव मुग्धं बन्धनाद्विप्रलूनं हृदयकुसुमशोषी दारुणो दीर्घशोकः।
ग्लपयति परिपाण्डुक्षाममस्याः शरीरं शरदिज इव घर्मः केतकीगर्भपत्त्रम्॥ 24 ॥
2परिमृदितमृणालीम्लानमङ्गं प्रवृत्तिः कथमपि 3परिवारप्रार्थनाभिः क्रियासु।
कलयति च हिमांशोर्निष्कलङ्कस्य लक्ष्मीमभिनवकरिदन्तच्छेदकान्तः कपोलः॥ 25 ॥
स्थगयति नयनास्रं छद्मना धूमधूम्रं प्रथयति च नितान्तं कार्श्यमङ्गप्रकृत्या।
अहह विरहबाधां छादयत्यम्बुजाक्षी तदपि वदति साक्षी पाण्डुरो गण्डदेशः॥ 26 ॥
परिम्लानं पीनस्तनजघनसङ्गादु4भयतस्तनो5र्मध्यस्यान्तः6परिमिलनमप्राप्य 7हरितम्।
इदं व्यस्तन्यासं श्लथभुजलताक्षेपवलनैः कृशाङ्ग्याः सन्तापं 8वदति बिसिनीपत्त्रशयनम्9॥ 27 ॥
प्रयातेऽस्तं भानौ श्रितशकुनिनीडेषु तरुषु स्फुरत्सन्ध्यारागे शशिनि शनकैरुल्लसति च।
प्रियप्रत्याख्यानद्विगुणविरहोत्कण्ठितदृशा तदारब्धं तन्व्या मरणमपि यत्रोत्सवपदम्॥ 28 ॥
लतामूले लीनो हरिणपरिहीनो हिमकरः स्खलन्मुक्ताकारा गलति जलधारा कुवलयात्।
धुनीते बन्धूकं तिलकुसुमजन्मा हि पवनो गृहद्वारे पुण्यं परिणमति कस्यापि कृतिनः॥ 29 ॥
मरालश्रेणीभिर्नियतमुपनीतं सफलतां गतिस्पर्धावैरं मृदुकलरवैरम्बुजदृशः।
यदेताञ्शृण्वत्याः प्रियविरहवत्याः कृशतनोरगादस्याः स्तम्भादहह गतिसम्भावनमपि॥ 30 ॥
अगारेऽस्मिन्कान्ते गिरिशमनिशानाथशकलं भुजङ्गानुत्तुङ्गान्सकलमपि वातायनपथे।
निकुञ्जेषु श्येनानधिगृहशिरो राहुवलयं लिखन्त्या नीयन्ते शिवशिव तया हन्त दिवसाः॥ 31 ॥
स्तनन्यस्तोशीरं प्रशिथिलमृणालैकवलयं प्रियायाः साबाधं तदपि कमनीयं वपुरिदम्।
समस्तापः कामं मनसिजनिदाघप्रसरयोर्न तु ग्रीष्मस्यैवं सुभगमपराद्धं युवतिषु॥ 32 ॥
कपोले पाण्डुत्वं किमपि जलधारां नयनयोस्तनौ कार्श्यं दैन्यं वचसि हृदि दावानलशिखाम्।
अवज्ञां प्राणेषु प्रकृतिषु विपर्यासमधुना किमन्यद्वैराग्यं सकलविषयेष्वाकलयते॥ 33 ॥
निकामं क्षामाङ्गी सरसकदलीगर्भसुभगा कलाशेषा मूर्तिः शशिन इव नेत्रोत्सवकरी।
अवस्थामापन्ना मदनदहनोद्दाहविधुरामियं नः कल्याणी रमयति मनः कम्पयति च॥ 34 ॥
घनोऽयं चेदञ्चेदुपरि विकिरंश्चन्दनरसानुदारान्नैहारी सरिदुरसि हारीभवति वा।
समन्तात्प्राणाली चिरमुपवनाली मिलति वा तदप्यस्यास्तापः प्रियविरहजः किं विरमति॥ 35 ॥
इतो विद्युद्वल्लीविलसितमितः केतकरजः स्फुरद्गन्धं प्रोद्यज्जलदनिनदस्फूर्जितमितः।
इतः केकिक्रीडाकलकलभरः पक्ष्मलदृशां कथं यास्यन्त्येते विरहदिवसाः स्भ्रमरसाः॥ 36 ॥
न नीतमुपनासिकं परिमलव्ययाशङ्कया न हन्त विनिवेशितं विरहवह्निकुण्डे हृदि।
दृशोर्बहिरिति श्रुतौ न निहितं प्रियप्रेषितं करे कमलमर्पितं मृगदृशा दृशा पीयते॥ 37 ॥
वीणामङ्के कथमपि सखीप्रार्थनाभिर्विधाय स्वैरं रत्यां सरसिजदृशा गातुमारब्धमेव।
तन्त्रीबुद्ध्या किमपि विरहक्षीणदीनाङ्गवल्लीमेनामेव स्पृशति बहुशो मूर्धना चित्रमेतत्॥ 38 ॥
अन्तस्तारं तरलतरलाः स्तोकमुत्पीडभाजः पक्ष्माग्रेषु ग्रथितपृषतः कीर्णधाराः क्रमेण।
चित्तातङ्कं निजगरिमतः सम्यगासूत्रयन्तो निर्यान्त्यस्याः कुवलयदृशो बाष्पवारां प्रवाहाः॥ 39 ॥
मुक्त्वानङ्गः कुसुमविशिखान्पञ्च कुण्ठीकृताग्रान्मन्ये मुग्धां प्रहरति हठात्पत्त्रिणा वारुणेन।
वारां पूरः कथमपरथा स्फारनेत्रप्रणालीवक्त्रोद्वान्तस्त्रिवलिविपिने सारणीसाम्यमेति॥ 40 ॥
स्विन्नौ गण्डौ स्फुरितमधरं स्पन्दितं चूचुकाग्रं सन्नौ बाहू मसृणमुकुले लोचने भ्रूश्चलैव।
अङ्गादङ्गादजनि पुलकश्रेणिरूपू सकम्पौ किं च श्वासास्तरलितदुकूलाञ्चलाश्चञ्चलाक्ष्याः॥ 41 ॥
पीनोत्तुङ्गस्तनकलशयोस्तारहारं न धत्ते हस्तेनापि स्पृशति सहसा नैव कर्पूरवीटीम्।
मञ्चं नापि श्रयति शयितुं हंसतूलास्तराढ्यं तादृक्तन्वी गुरुजनभयाद्गोप्तुकामा स्वतापम्॥ 42 ॥
गण्डे पाण्डौ कलयति पुनश्चान्दनान्पत्त्रभङ्गान्निद्रालाभे स्वयमरुणदृक्पृच्छति त्वां निदानम्।
प्रत्यासन्ने मधुरलपिते गृह्यके कीरशावे कण्ठे धत्ते कमलनयना चारु वैदूर्यहारम्॥ 43 ॥
नीवीबन्धोच्छ्वसनमधरस्पन्दनं दोर्विषादः स्वेदश्चक्षुर्मसृणमधुराकेकरस्निग्धमुग्धम्।
गात्रस्तम्भः स्तनमुकुलयोरुत्प्रबन्धः प्रकम्पो गण्डाभोगे पुलकपटलं मूर्छना चेतना च॥ 44 ॥
सन्ध्यां कोषं तत उपगतां हन्त रात्रिं कृपामीं चन्द्रं चक्रं विरहविधुरा तारकापङ्क्तिमुग्राम्।
तूणीरान्तर्गतशरततीं प्रज्वलत्पुङ्खभागां सन्नद्धास्त्रं कलयति पुनर्मन्मथं राक्षसेन्द्रम्॥ 45 ॥
लीलावल्लीभवनकुहरे पत्त्ररन्ध्राच्चकोरीचञ्चुस्रस्तं शशिकरकणं वीक्ष्य मूर्च्छामुपैति।
लीलारामात्पिकमुखरितात्का कथा सा बिभेति स्वालापेभ्यश्चकितनयना यत्कुहूकोमलेभ्यः॥ 46 ॥
व्यजनमरुतः श्वासश्रेणीमिमामुपचिन्वते मलयजरसो धाराबाष्पं प्रपञ्चयितुं प्रभुः।
कुसुमशयनं कामास्त्राणां करोति सहायतां द्विगुणगरिमा कामोन्मादः कथं नु विरंस्यति॥ 47 ॥
विषयविधुरा दृष्टिः श्वासानिला ग्लपिताधरास्तनुरपि भृशं म्लाना लूनेव पल्लवमञ्जरी।
अपि च लवलीपाकोद्भेदाभिरामवदावदः स्फुरति कुचयोर्मूले गण्डे च कश्चन पाण्डिमा॥ 48 ॥
कथमपि कृतप्रत्यावृत्तौ प्रिये स्खलितोत्तरे विरहकृशया कृत्वा व्याजं प्रकल्पितमश्रुतम्।
असहनसखीश्रोत्रप्राप्तिप्रमादससम्भ्रमं प्रचलितदृशा शून्ये गेहे समुच्छ्वसितं पुनः॥ 49 ॥
तन्वङ्ग्या गुरुसन्निधौ नयनजं यद्वारि संस्तम्भितं तेनान्तर्गलितेन मन्मथशिखी सिक्तो वियोगोद्भवः।
मन्ये तस्य निरस्यमानकिरणस्यैषा मुखेनोद्गता श्वासायाससमागतालिसरणिव्याजेन धूमावली॥ 50 ॥
मुग्धास्वप्नसमागते प्रियतमे तत्पाणिसंस्पर्शनं रोमाञ्चाञ्चितया शरीरलतया सम्भाव्य कोपात्किल।
मा वा वल्लभ संस्पृशेति सहसा शून्यं वदन्ती मुहुः सख्या नो हसिता सचिन्तमसकृत् संशोचिता प्रत्युत॥ 51 ॥
शीघ्रं भूमिगृहे गृहाण वसतिं प्राणैः किमु क्रीडसि प्राप्तां पश्यसि किं न दैवहतिकां ज्योत्स्नां गवाक्षोदरे।
इत्थं मन्मथतीव्रसन्ज्वरजुषो गेहेषु वामभ्रुवामुद्गच्छन्ति कुरङ्गलाञ्छनभयाद्दीनाः सखीनां गिरः॥ 52 ॥
श्या पुष्पमयी परागमयतामङ्गार्पणादश्नुते ताम्यन्त्यन्तिकतालवृन्तनलिनीपत्त्राणि दाहोष्मणा।
न्यस्तं च स्तनमण्डले मलयजं शीर्णान्तरं दृश्यते क्वाथादाशु भवन्ति फेनिलमुखा भूषामृणालाङ्कुराः॥ 53 ॥
आदातुं सकृदीक्षितेऽपि कुसुमे हस्ताग्रमालोहितं लाक्षारञ्जनवार्तयापि सहसा रक्तं तलं पादयोः।
अङ्गानामनुलेपनस्मरणमप्यत्यन्तखेदावहं हन्ता1धीरदृशः किमन्यदलकामोदोऽपि भारायते॥ 54 ॥
अङ्गासङ्गि2मृणालकाण्ड3मयते 4भृङ्गावलीनां 5रुचं नासामौक्तिकमिन्द्रनीलसरणिं श्वासानिलाद्गाहते6।
क्षिप्ता सा हिम7वालुकापि कुचयोर्धत्ते क्षणं 8दीपतां 9तप्तायःपतिताम्बुवत्करतले धाराम्बु सम्लीयते॥ 55 ॥
केशैः कोमलमालिकामपि चिरं या बिभ्रती खिद्यते या गात्रेषु घनं विलेपनमपि न्यस्तं न वोढुं क्षमा।
दीपस्यापि शिखां न चापि भवने स्वप्नेऽपि या वीक्षितुं तापं सा विरहानलस्य महतः सोढुं कथं शक्ष्यते॥ 56 ॥
अद्भूयेत तनूलतेति बिसिनीपत्त्रेण नो वीज्यते स्फोटः स्यादिति नाङ्गकं मलयजक्षोदाम्भसा सिच्यते।
स्यादस्यातिभरात्पराभव इति त्रासान्न वा पल्लवारोपो वक्षसि तत्कथं वरतनोराधिः समाधीयताम्॥ 57 ॥
निःश्वासानलविद्धदन्तवसना नेत्राम्बुसिक्तस्तनी हस्तन्यस्तकपोलदीनवदना हारैकभूषावती।
बिभ्राणांसपदेन तुङ्गजघना विस्रंसिनीं वेणिकामास्ते स्थण्डिल एव पाण्डुमधुरक्षामालसैरङ्गकैः॥ 58 ॥
क्षामक्षामकपोलमाननमुरः काठिन्यमुक्तस्तनं मध्यः क्लान्ततरः प्रकामविनतावंसौ छविः पाण्डुरा।
शोच्या च प्रियदर्शना च मदनग्लानेयमालक्ष्यते पत्त्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी॥ 59 ॥
कर्पूराम्बुनिषेकभाजि सरसैरम्भोजिनीनां दलैरास्तीर्णेऽपि विवर्तमानवपुषः स्रस्तस्रजि स्रस्तरे।
मन्दोन्मेषदृशा किमन्यदभवत्सा काप्यवस्था तदा यस्याश्चन्दनचन्द्रचम्पकदलश्रेण्यादि वह्नीयते॥ 60 ॥
आलीचालितपद्मिनीदलचलत्सर्वाङ्गमङ्गीकृतस्वाङ्गालिङ्गनमर्मरीकृतनवाम्भोजालिशय्या चिरात्।
चैतन्यं कथमप्युपेत्य शनकैरुन्मील्य नेत्राञ्चलं बाला केवलमेव शून्यहृदया शून्यं जगत्पश्यति॥ 61 ॥
न क्रीडासु कुतूहलं वितनुते नालङ्कृतौ सादरा नाहारेऽपि च सस्पृहा न गणयत्यालापलोलां सखीम्।
बाला केवलमङ्गकैरनुकलक्षामैर्विविक्तस्थले ध्यायन्ती किल किञ्चिदन्तरधुना निस्पन्दमास्ते सदा॥ 62 ॥
सोन्मेषो न सखीजनः परिजनः प्रागल्भ्यभूमिर्न वा वात्सल्यादविभावितस्फुटवयोवस्थाविशेषो गुरुः।
आयाता नवमल्लिकापरिमलक्रूराः शरद्वासराः कस्याख्यातु नितम्बिनी पितृगृहावस्थानदुःस्थं जनुः॥ 63 ॥
दुःखं दीर्घतरं वहत्यपि सखीवर्गाय नो भाषते शैवालैः शयनं सृजत्यपि पुनः शेते न वा लज्जया।
कण्ठे गद्गदवाचमञ्चति दृशा धत्ते न बाष्पोदकं सन्तापं सहते यदम्बुजमुखी तद्वेद चेतो भवः॥ 64 ॥
कण्ठे मौक्तिकमालिकाः स्तनतटे कार्पूरमच्छं रजः सान्द्रं चन्दनमङ्गके वलयिताः पाणौ मृणालीलताः।
तन्वी नक्तमियं चकास्ति तनुनी चीनांशुके बिभ्रती शीतांशोरधिदेवतेव गलिता व्योमाग्रमारोहतः॥ 65 ॥