१० नायिकादर्शनम्

प्रियादर्शनमेवास्तु किमन्यैर्दर्शनान्तरैः।
प्राप्यते येन निर्वाणं सरागेणापि चेतसा॥ 1 ॥
क्षीरसागरकल्लोललोललोचनयानया।
असारोऽपि हि संसारः सारवानिव लक्ष्यते॥ 2 ॥
सेयं सीधुमयी वा सुधामयी वा हलाहलमयी वा।
दृग्भ्यां निपीतमात्रा मदयति मोदयति मूर्च्छयति॥ 3 ॥
गच्छति न तृप्तिमेतत्सुललितमस्याः समापिबद्रूपम्।
नयनयुगं मम नूनं सम्प्रति समुपैति सफलतां चैवम्॥ 4 ॥
जानीमहेऽस्याः खलु सारसाक्ष्या विराजतेऽन्तः प्रियवक्त्रचन्द्रः।
तत्कान्तिजालैः प्रसृतैस्तदङ्गेष्वापाण्डुता कुड्मलताक्षिपद्मे॥ 5 ॥
सेयं ममाङ्गेषु सुधारसच्छटा सुपूरकर्पूरशलाकिका दृशोः।
मनोरथश्रीर्मनसः शरीरिणी प्राणेश्वरी लोचनगोचरं गता॥ 6 ॥
तामनङ्गजयमङ्गलश्रियं किञ्चिदुच्चभुजमूललोकिताम्।
नेत्रयोः कृतवतोऽस्य गोचरे कोऽप्यजायत रसो निरन्तरः॥ 7 ॥
इदमसौ तरलायतलोचना गुरुसमुन्नतपीनपयोधरा।
पृथुनितम्बभरालसगामिनी प्रियतमा मम जीवितहारिणी॥ 8 ॥
इयं सुस्तनी मस्तकन्यस्तकुम्भा कुसुम्भारुणं चारु 1वासो वसाना।
समस्तस्य लोकस्य चेतः2प्रवृत्तिं गृहीत्वा घटे न्यस्य यातीव भाति॥ 9 ॥

कर्पूरधूलिधवलद्युतिपूरधौतदिङ्मण्डले शिशिररोचिषि तस्य यूनः।
लीलाशिरोंशुकनिवेशविशेषक्लृप्तिव्यक्तस्तनोन्नतिरभून्नयनावनौ सा॥ 10 ॥
अर्धस्मितेन विनिमन्त्र्य 3दशार्धबाणमर्धं विधूय वसनाञ्चलमर्धमार्गे।
अर्धेन नेत्रविशिखेन निवृत्य सार्धमर्धार्धमेव तरुणी तरुणं चकार॥ 11 ॥

आधाय कोमलकराम्बुजकेलिनालीमालीसमाजमधिकृत्य समालपन्ती।
मन्दस्मितेन मयि साचिविलोकितेन चेतश्चकोरनयना चुलुकीचकार॥ 12 ॥
मदनमपि गुणैर्विशेषयन्ती रतिरिव मूर्तमती विभाति येयम्।
मम हृदयमनङ्गवह्नितप्तं भृशमिव चन्दनशीतलं करोति॥ 13 ॥
पुरः स्थित्वा किञ्चिद्वलितमुखमालोक्य सखे सखेदाः स्थास्यन्ति ध्रुवमिदमदृष्ट्वा तव दृशः।
इतश्चञ्चत्काञ्चीरणितमुखरात्सौधशिखरादराकायां कोऽयं कवलयति चान्द्रेण महसा॥ 14 ॥
अये केयं लीलाधवलगृहवातायनतले 4तुलाकोटिक्वाणैः कुसुमविशिखं जागरयति।
अहो नेत्रद्वन्द्वं विकसति विलङ्घ्य श्रुतिमहो कथं न त्रैलोक्यं जयति मदनः स्मेरवदनः॥ 15 ॥

तडिल्लेखा नेयं विलसति परं सौधशिखरे वसन्त्याः कस्याश्चित्कनकरुचिरा गात्रलतिका।
अपीदं नोन्मज्जत्कुवलयवनं मीनतरलं परं तस्या एव स्फुरति नयनालोकललितम्॥ 16 ॥
सखे सायं स्नात्वा कनकरुचिकौसुम्भवसनं वसानायास्तिर्यग्वलितचिकुरस्यन्दिसलिलम्।
दिशन्त्या दृष्टेति कुसुमशरकोदण्डलतिकामकस्मादस्माकं मृगशिशुदृशो दर्शनमभूत्॥ 17 ॥
अमृतममृतं चन्द्रश्चन्द्रस्तथाम्बुजमम्बुजं रतिरपि रतिः कामः कामो मधूनि मधून्यपि।
इति न भजते वस्तु प्रायः परस्परसङ्करं तदियमबला धत्ते लक्ष्मीं कुतः सकलात्मिकाम्॥ 18 ॥
केयं श्यामोपलविरचितोल्लेखहेमैकरेखालग्नैरङ्गैः कनककदलीकन्दलीगर्भगौरैः।
हारिद्राम्बुद्रवसहचरं कान्तिपूरं वहद्भिः कामक्रीडाभवनवलभीदीपिकेवाविरस्ति॥ 19 ॥
अर्कच्छायं तिरयति सुधालिप्तविद्युन्मतल्ली चक्रप्रख्यं महति सुषुमामण्डले दूरमग्नम्।
रक्तादर्शप्रतिफलमिव श्रीसदङ्गं वहन्ती दृष्टा काचित्तरलनयना देवतेव स्मरस्य॥ 20 ॥
नेयं विद्युद्भुवमधिगता काञ्चनी नापि वल्ली मन्दं मन्दं प्रचलति यतो नापि वा पन्नगस्य।
चूडारत्नस्फुरदुरुशिखा क्वापि धत्ते सरोजं का वा तर्हि प्रकृतिसुभगा तत्सखे न प्रतीमः॥ 21 ॥
वक्त्रोपान्तं नयनयुगलं सर्वतो निक्षिपन्ती श्रोणीभाराच्छिथिलशिथिलन्यस्तपादारविन्दा।
आरादालीकरकिसलये दत्तहस्तावलम्बा काचित्कान्त्या विकसितमहीचक्रमायाति तन्वी॥ 22 ॥
इयं भुजगिनीश्रिता लसदनेकपुष्पान्विता द्विरेफततिसेविता प्रमदखञ्जनालङ्कृता।
फलद्वयभरानता विलसिता नवैः पल्लवैर्विलोचनपथं गता भवति कापि हैमी लता॥ 23 ॥
पातालाद्भुवनावलोकनपरा किं नागकन्योत्थिता मिथ्या तत्खलु दृष्टमेव हि मया तस्मिन्कुतोऽस्तीदृशी।
मूर्ता स्यादिह कौमुदी न घटते तस्या दिवा दर्शनं क्वेयं हस्ततलस्थितेन कमलेनालोक्यते श्रीरिव॥ 24 ॥
अच्छिन्नामृतविन्दुवृष्टिसदृशीं प्रीतिं ददत्या दृशां याताया विगलत्पयोधरभराद्द्रष्टव्यतां कामपि।
अस्याश्चन्द्रमसस्तनोरिव करस्पर्शास्पदत्वं गता नैते यन्मुकुलीभवन्ति सहसा पद्मास्तदेवाद्भुतम्॥ 25 ॥
श्रोणीभारभरालसा दरगलन्माल्यापवृत्तिच्छलाल्लीलोत्क्षिप्तभुजोपदर्शितकुचोन्मीलन्नखाङ्कावलिः।
नीलेन्दीवरदामदीर्घतरया दृष्ट्या धयन्ती मनो दूरान्दोलनलोलकङ्कणझणत्कारोत्तरं सर्पति॥ 26 ॥
लग्नं पादतले नखेषु विलुठत्संसक्तमूर्वोर्युगे विश्रान्तं जघनस्थले निपतितं नाभीसरोमण्डले।
शून्यं मध्यमवेक्ष्य रोमलतिकामालम्बमानं क्रमादारूढं स्तनयोः प्लुतं नयनयोर्लीनं मनः कैशिके॥ 27 ॥
अस्या धामसरोवरे भुजबिसे वक्त्रारविन्दे भ्रमन्नेत्रभ्रूभ्रमरे सुयौवनजले कस्तूरिकापङ्किले।
वक्षोजप्रतिकुम्भकुम्भदलनक्रोधादुपेत्य द्रुतं मग्नश्चित्तमतङ्गजः कथमसावुत्थाय निर्यास्यति॥ 28 ॥
स्वैरं सस्मितमीक्षते क्षणमलं व्याजृम्भते वेपते रोमाञ्चं तनुते मुहुः स्तनतटे व्यालम्बते नाम्बरम्।
आलिङ्गत्यपरां तनोति चिकुरं प्रत्युत्तरं याचते केयं कामकलाविलासवसतिर्लोलेक्षणा भाविनी॥ 29 ॥
खेलत्खञ्जननेत्रया परिलसत्स्वर्णारविन्दास्यया पीनोत्तुङ्गनिरन्तरस्तनभरव्यालोलसन्मध्यया।
स्फीतस्फीतनितम्बया क्षणमपि व्यालोकितश्चानया किं न स्याद्वशिनां वरः स्मरहरः स्मारैः शरैर्जर्जरः॥ 30 ॥
सायं चन्द्रकलामृतोदयगिरिस्पर्धां दधानः स्तनस्पर्शोत्तुङ्गतरो नखाङ्करुचिरः शोणाम्बराभ्यन्तरे।
अस्याः कं न विलोकनोत्कमकरोत्तीक्ष्णः कटाक्षः क्षणं भृङ्गाकृष्टगरिष्ठकेतकदलभ्रान्तिं वहन्नप्ययम्॥ 31 ॥
उत्तुङ्गस्तनशैलदुस्तरमुरो निम्नातिनाभिस्थली भीमं देहवनं स्फुरद्भुजलतं रोमालिजालाकुलम्।
व्याधः पञ्चशरः किरत्यतितरांस्तीक्ष्णान्कटाक्षाशुगांस्तन्मे ब्रूहि मनः-कुरङ्ग शरणं कं साम्प्रतं यास्यसि॥ 32 ॥
वक्त्रश्रीजितजर्जरेन्दुमलिनं कृत्वा करे कन्दुकं क्रीडाकौतुकमिश्रभावमनया ताम्रं वहन्त्याननम्।
भृङ्गाग्रग्रहकृष्णकेतकदलस्पर्धावतीनां दृशां दीर्घापाङ्गतरङ्गितैकसुहृदामेषोऽस्मि पात्रीकृतः॥ 33 ॥
स्कन्धे विन्यस्य सख्या भुजमपरकरस्यार्धचन्द्रेण मध्यं बिभ्राणा धूयमानस्तनतटवसना गन्धवाहेन मन्दम्।
पन्थानं दृग्विलासैरिव नलिनदलैः कोमलैरास्तृणन्ती सौधाग्रे कस्य साक्षात्परिणमति तपःसिद्धिरेषा सुवेषा॥ 34 ॥


  1. वस्त्रम्. ↩︎

  2. मनोवृत्तिम्. ↩︎

  3. मदनम्. ↩︎

  4. नूपुरध्वनिभिः. ↩︎