स्मरतोरभिलाषकल्पितान्बहुशः स्वप्नभुवः समागमान्।
अपि दृष्टिपथं प्रपन्नयोर्विविशश्वास चिरं मनस्तयोः॥ 1 ॥
आघ्रातं कमलं प्रियेण सुदृशा स्मित्वापनीतं मुखं दत्तं विभ्रमकन्दुके नखपदं सीत्कृत्य गूढौ स्तनौ।
दत्ता चम्पकमालिकोरसि भुजानिर्भिन्नरोमाञ्चया मीलल्लोचनया स्थितं प्रणयिनोर्दूरेऽपि पूर्णो रसः॥ 2 ॥