सा दृष्टा यैर्न वा दृष्टा मुषिताः सममेव ते।
हृदयं हृतमेकेषामन्येषां चक्षुषोः फलम्॥ 1 ॥
मुखेन चन्द्रकान्तेन महानीलैः शिरोरुहैः।
पदाभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा॥ 2 ॥
गुरुणा स्तनभारेण मुखचन्द्रेण भास्वता।
शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा॥ 3 ॥
फलायते कुचद्वन्द्वमियं हेमलतायते।
अङ्गानि कुसुमायन्ते मनो मे भ्रमरायते॥ 4 ॥
वक्त्रे गुरुत्वं यदि ते छन्दःशास्त्रविदो विदुः।
कठिने कुचयुग्मेऽस्या वदतां किं नु हीयते॥ 5 ॥
विकसन्नेत्रनीलाब्जे तथा तन्व्याः स्तनद्वयी।
तव दत्तां सदा मोदं लसत्तरलहारिणी॥ 6 ॥
दन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी।
केशपाशालिवृन्देन सुवेषा हरिणेक्षणा॥ 7 ॥
अकृशं नितम्बभागे क्षामं मध्ये समुन्नतं कुचयोः।
अत्यायतं नयनयोर्मम जीवितमेतदायाति॥ 8 ॥
अव्याजसुन्दरीं तां विज्ञानेनाद्भुतेन योजयता।
उपकल्पितो विधात्रा बाणः कामस्य विषदिग्धः॥ 9 ॥
आलोक्य चिकुरनिकरं सततं सुमनोधिवासयोग्यं ते।
कामो निजं निषङ्गं परिवृत्य पराममर्ष साशङ्कः॥ 10 ॥
आलपति पिकवधूरिव पश्यति हरिणीव चलति हंसीव।
स्फुरति तडिल्लतिकेव स्वदते तुहिनांशुलेखेव॥ 11 ॥
वेणीबन्धमहीनं कृष्णं नेत्रान्तमचलरूपं तम्।
कुचमस्याः स्वीकुर्वन्पुरुषो लीलां वहत्यहो शंभोः॥ 12 ॥
अङ्गं भूषणनिकरो भूषयतीत्येष लौकिको वादः।
अङ्गानि भूषणानां कामपि सुषमामजीजनंस्तस्याः॥ 13 ॥
सौरभमम्भोरुहवन्मुखस्य कुम्भाविव स्तनौ पीनौ।
हृदयं मदयति वदनं तव शरदिन्दुर्यथा बाले॥ 14 ॥
मधुरः सुधावदधरः पल्लवतुल्योऽतिपेलवः पाणिः।
चकितमृगलोचनाभ्यां सदृशी चपले च लोचने तस्याः॥ 15 ॥
कलयति कुवलयमालाललितं कुटिलः कटाक्षविक्षेपः।
अधरः किसलयलीलामाननमस्याः कलानिधिविलासम्॥ 16 ॥
तरुणिमनि कलयति कलामनुमदनधनुर्भ्रुवोः पठत्यग्रे।
अधिवसति सकलललनामौलिमियं चकितहरिणचलनयना॥ 17 ॥
नयनयुगासेचनकं मानसवृत्त्यापि दुष्प्रापम्।
रूपमिदं मदिराक्ष्या मदयति हृदयं दुनोत्यपि च॥ 18 ॥
सन्यस्तभूषापि नवैव नित्यं विनापि हारं हसतीव कान्त्या।
मदं विनापि स्खलतीव भावैर्वाचं विना व्याहरतीव दृष्टा॥ 19 ॥
भ्रूयुग्ममुच्चैर्धनुरुज्झितज्यं बाणाः कटाक्षाः कुटिला नितान्तम्।
तथापि यूनां हृदयं भिनत्ति कोऽयं विलासो वनिताजनस्य॥ 20 ॥
अलीकरूपो यदि मध्यभागः पयोधराकारभृतश्च केशाः।
उत्सङ्गशोभापि सरोरुहाक्ष्याः करस्य शोभां कलयेन्न कस्मात्॥ 21 ॥
सर्वोपमाद्रव्यसमुच्चयेन यथाप्रदेशं विनिवेशितेन।
सा निर्मिता विश्वसृजा प्रयत्नादेकस्थसौन्दर्यदिदृक्षयेव॥ 22 ॥
प्रत्यङ्गमस्यामभिकेन रक्षां कर्तुं मघोनेव निजास्त्रमस्ति।
वज्रं च भूषामणिमूर्तिधारि नियोजितं तद्द्युतिकार्मुकं च॥ 23 ॥
भ्रूश्चित्ररेखा च तिलोत्तमास्या नासा च रम्भा च यदूरुसृष्टिः।
दृष्टा ततः पूरयतीयमेकानेकाप्सरःप्रेक्षणकौतुकानि॥ 24 ॥
कर्णाक्षिदन्तच्छदबाहुपाणिपदादिनः स्वाखिलतुल्यहेतुः।
उद्वेगभागद्वयताभिमानादिहैव वेधा व्यधित द्वितीयम्॥ 25 ॥
यशः पदाङ्गुष्ठनखौ मुखं च बिभर्ति पूर्णेन्दुचतुष्टयं या।
कलाचतुःषष्टिरुपैति वासं तस्यां कथं सुभ्रुवि नाम नास्याम्॥ 26 ॥
कार्त्स्न्येन निर्वर्णयितुं च रूपमिच्छन्ति तत्पूर्वसमागतानाम्।
न तु प्रियेष्वायतलोचनानां समग्रपातीनि विलोचनानि॥ 27 ॥
यतो यतोऽङ्गादपयाति कञ्चुकं ततस्ततः स्वर्णमरीचिवीचयः।
यतो यतोऽस्या निपतन्ति दृष्टयस्ततस्ततः श्यामसरोजवृष्टय॥ 28 ॥
तदा तदङ्गस्य बिभर्ति सम्भ्रमं विलेपनामोदमुचः स्फुरद्रुचः।
दरस्फुरत्काञ्चनकेतकीदलात्सुवर्णमभ्यस्यति सौरभं यदि॥ 29 ॥
अधरे मधुरा सरस्वतीयं ननु कर्णे मणिकर्णिकाप्रवाहः।
शिरसि प्रतिभाति चारुवेणी कथमेणीनयना न तीर्थराजः।1॥ 30 ॥
वेणी विडम्बयति मत्तमधुव्रतालीमङ्गीकरोति गुणमैन्दवमास्यमस्याः।
बाहू मृणाललतिकाश्रियमाश्रयेते पुङ्खानुपुङ्खयति कामशरान्कटाक्षः॥ 31 ॥
बन्धूकबन्धुरधरः सितकेतकाभं चक्षुर्मधूककलिकामधुरः कपोलः।
दन्तावली विजितदाडिमबीजराजिरास्यं पुनर्विकचपङ्कजदत्तदास्यम्॥ 32 ॥
येनोत्पलानि च सशी च मृणालिकाश्च रम्भालताश्च कमलानि च निर्मितानि।
नूनं स एव मृगशावदृशोऽपि वेधाः सृष्टिक्रमो यदयमेकतया चकास्ति॥ 33 ॥
सा रामणीयकनिधेरधिदेवता वा सौन्दर्यसारसमुदायनिकेतनं वा।
तस्याः सखे नियतमिन्दुसुधामृणालज्योत्स्नादि कारणमभून्मदनश्च वेधाः॥ 34 ॥
राजीव जीवसि मुधा न सुधाकर त्वमस्याः समः पदनखस्य कुतो मुखस्य।
अग्रे दृशोर्मृगदृशः कतमः कुरङ्गस्तत्खञ्जन त्वमपि किं जनरञ्जनाय॥ 35 ॥
सा दुग्धमुग्धमधुरच्छविरङ्गयष्टिस्ते लोचने तरुणकेतकपत्त्रदीर्घे।
कम्बोर्विडम्बनकरश्च स एव कण्ठः सैवेयमिन्दुवदना मदनायुधं वा॥ 36 ॥
ऊरुद्वयं मृगदृशः कदलेश्च काण्डौ मध्यं च वेदिरतुलं स्तनयुग्ममस्याः।
लावण्यवारिपरिपूरितशातकुम्भकुम्भौ मनोजनृपतेरभिषेचनाय॥ 37 ॥
तन्वी शरत्त्रिपथगापुलिने कपोलौ लोले दृशौ रुचिरचञ्चलखञ्जरीटौ।
तद्बन्धनाय सुचिरार्पितसुभ्रुचापचाण्डालपाशयुगलाविव शून्यकर्णौ॥ 38 ॥
व्याकोशकोकनदशोककरः करोऽयं खेलच्चकोरमयचोरमिदं च चक्षुः।
उद्भिन्नविद्रुमरहस्यहरोऽधरोऽयं तत्स्यादरण्यमपि वश्यमवश्यमस्याः॥ 39 ॥
मुखं यदि किमिन्दुना यदि चलाञ्चले लोचने किमुत्पलकदम्बकैर्यदि तरङ्गभङ्गी भ्रुवौ।
किमात्मभवधन्वना यदि सुसंयताः कुन्तलाः सिमम्बुरुहडम्बरैर्यदि तनूरियं किं श्रिया॥ 40 ॥
इदं वक्त्रं साक्षाद्विरहितकलङ्कः शशधरः सुधाधाराधारश्चिरपरिणतं बिम्बमधरः।
इमे नेत्रे रात्रिं दिवमधिकशोभे कुवलये तनुर्लावण्यानां जलधिरवगाहे सुखतरः॥ 41 ॥
विनैवाम्भोवाहं बहलरुचिदीप्ताम्बरतलात्तडिल्लेखा हेमद्युतिविततिरम्या विलसति।
विनैव स्वर्गङ्गां नभसि रभसव्यग्रशफरीपरीवर्तैः सार्धं स्फुरति विकचेन्दीवरवनम्॥ 42 ॥
तमःस्तोमः पूर्वं तदनु सकलः शीतकिरणस्ततः कोकद्वन्द्वं तदनु च न किञ्चित्पुनरभूत्।
अधस्तस्यावर्तस्तदनु कदलीकाण्डयुगलं ततोऽवाञ्चौ पद्मौ शिवशिव विधेः शिल्परचना॥ 43 ॥
पदाभ्यामुन्निद्रामधरयति शोणाम्बुजरुचिं कराभ्यामादत्ते नवकिसलयानामरुणताम्।
प्रवालस्य च्छायां दशनवसनाग्रेण पिबति स्मितज्योत्स्नापूरैरुपहसति कान्तिं हिमरुचेः॥ 44 ॥
वहत्यस्या दृष्टिर्विकचनवनीलोत्पलतुलामखण्डस्याभिख्यां वदनमिदमिन्दोः कलयति।
कुचौ किञ्चिन्मीलत्कमलतुलनां कन्दलयतस्तमःशोभां चित्रां चिकुरनिकुरम्बं हि कुरुते॥ 45 ॥
करे वेणीमेणीसदृशनयना स्नानविरतौ दधाना हर्म्याग्रे हरनयनतेजोहुतमपि।
इयं मुग्धा दुग्धाम्बुधिबहलकल्लोलसदृशा दृशा वारं वारं मनसिजतरुं पल्लवयति॥ 46 ॥
दायादत्वं मनसिजधनुर्भ्रूविलासस्य धत्ते योगक्षेमौ वहति नयनद्वन्द्वमिन्दीवराणाम्।
तद्गात्राणां पुनरिह जगज्जैत्रलावण्यभाजामाभात्यग्रे मलवदखिलं म्लानवर्णं सुवर्णम्॥ 47 ॥
नीलाब्जानां नयनयुगलद्राघिमा दत्तपत्त्रः कुम्भावैभौ कुचपरिकरः पूर्वपक्षीचकार।
भ्रूविश्रान्तिर्मदनधनुषो विभ्रमानन्ववादीद्वक्त्रज्योत्स्ना शशधररुचं दूषयामास तस्याः॥ 48 ॥
तन्वी श्यामा शिखरिदशना पक्वबिम्बाधरोष्ठी मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः।
श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां या तत्र स्याद्युवतिविषये सृष्टिराद्येव धातुः॥ 49 ॥
1वापी कापि स्फुरति 2गगने तत्परं सूक्ष्मपद्या3 सोपा4नालीमधिगतवती काञ्चनीमैन्द्रनीली।
अग्रे शैलौ5 6सुकृतिसुगमौ 7चन्दनच्छन्नदेशौ तत्रत्यानां सुलभममृतं सन्निधानात्सुधांशोः॥ 50 ॥
तद्वक्त्रं यदि मुद्गिता शशिकथा तच्चेत्स्मितं का सुधा तच्चक्षुर्यदि हारितं कुवलयैस्ताश्चेद्गिरो धिङ्मधु।
धिक्कन्दर्पधनुर्भ्रुवौ यदि च ते किं वा बहु ब्रूमहे यत्सत्यं पुनरुक्तवस्तुविरसः सर्गक्रमो वेधसः॥ 51 ॥
सौरभ्यं मृगलाञ्छने यदि भवेदिन्दीवरे वक्रता माधुर्यं यदि विद्रुमे तरलता कन्दर्पचापे यदि।
रम्भायां यदि विप्रतीपगमनं प्राप्तोपमानं तदा तद्वक्त्रं तदुदीक्षणं तदधरस्तद्भ्रूस्तदूरूयुगम्॥ 52 ॥
वेणीवेल्लनमङ्गणं किमु वलन्नेणीदृशो मध्यमं संव्यानं किमिदं विवृत्तिविषमाद्वासः स्तनात्स्रंसते।
नृत्यन्तीव किमन्तिके वलितयोः स्निग्धा दृशोः कान्तयः साकूतस्मितगर्भितं किमु मुखं वक्तुं सखीं वाञ्छति॥ 53 ॥
बाहू द्वौ च 8मृणालमास्यकमलं लावण्यलीलाजलं श्रोणीतीर्थशिला च नेत्रशफ9रीधम्मिल्लशैवालकम्।
कान्तायाः स्तनचक्रवाकयुगलं कन्दर्पबाणानलैर्दग्धानामवगाहनाय विधिना रम्यं सरो निर्मितम्॥ 54 ॥
जिघ्रत्याननमिन्दुकान्तिरधरं बिम्बप्रभा चुम्बति स्प्रष्टुं वाञ्छति चारुपद्ममुकुलच्छायाविशेषः स्तनौ।
लक्ष्मीः कोकनदस्य खेलति करावालम्ब्य किं चादरादेतस्याः सुदृशः करोति पदयोः सेवां प्रवालद्युतिः॥ 55 ॥
कर्णारुन्तुदमेव कोकिलरुतं तस्याः श्रुते भाषिते चन्द्रे लोकरुचिस्तदाननरुचेः प्रागेव सन्दर्शनात्।
चक्षुर्मीलनमेव तन्नयनयोरग्रे मृगीणां वरं हैमी वल्ल्यपि तावदेव ललिता यावन्न सा लक्ष्यते॥ 56 ॥
चक्षुर्मेच1कमाम्बुजं विजयते वक्त्रस्य मित्त्रं शशी 2भ्रूसूत्रस्य 3सनाभि मन्मथधनुर्लावण्यपण्यं वपुः।
लेखा कापि रदच्छदे च सुतनोर्गात्रे च तत्कामिनीमेनां वर्णयिता स्मरो यदि भवेद्वैदग्ध्यमभ्यस्यति॥ 57 ॥
स्निग्धस्मेरविलोलमुग्धमधुरा यन्नेत्रयोर्विभ्रमा यद्व्यामृष्टविलासपत्त्रलतिका घर्मोद्गमाद्गण्डयोः।
यच्च प्रौढकदम्बकुङ्मलसखी काप्यङ्गके विक्रिया तत्तस्यां किमपि स्फुटं रतिपतेः कोदण्डविस्फूर्जितम्॥ 58 ॥
स्निग्धेन्द्रोपलसुन्दरः कचभरो वक्त्रं सगोत्रं विधोर्वक्षोजौ मणिकुम्भडम्बरमुषौ मध्योऽस्ति वा नास्ति वा।
श्रोणीमण्डलमूरुदुर्वहमहो शोणाब्जतुल्ये पदे मन्ये मञ्जुगिरो 4मरालमहिलाध्येयो गतेर्विभ्रमः॥ 59 ॥
नेत्रोपान्तवतंसिते श्रुतिपुटे नीलोत्पलं निष्फलं हासश्रीपरिकर्मिते स्तनतटे हारोऽन्यहारः कथम्।
पिण्डालक्तकपातनं चरणयोः पीडाफलं ताम्रयोर्वामाक्ष्या वपुषि स्वभावसुरभौ व्यर्थानुलेपव्यथा॥ 60 ॥
एतस्याः स्तनपद्मकोरकयुगं यस्याननेन्दोः सितज्योत्स्नाभिर्न यजत्यदो मृगदृशः शङ्के विकासं पुनः।
तस्मिल्लोचनपङ्कजं विकसितं भ्रूभृङ्गसंसेवितं स्वान्ते संशयमातनोति सुतरामेतन्ममैवासकृत्॥ 61 ॥
पानायाधरतोऽमृतं वसतयेऽप्यस्या स्तनक्ष्माधरोऽधस्तात्स5ज्जघनान्तकन्दरधरः सख्याय चक्षुर्मृगः।
जप्यो मन्त्रवरो मनोहरकथा ध्यानाय वक्त्राम्बुजं चेत्थं देहतपःस्थले सति कथं सन्तो वनान्तं गताः॥ 62 ॥
कर्णोत्सङ्गविसर्पिणी नयनयोः कान्तिर्वतंसोत्पलं लाक्षासम्भ्रमनिर्व्यपेक्षमधरं लावण्यमेवाञ्चति।
हारोऽस्याः स्मितचन्द्रिकैव कुचयोरङ्गप्रभाकञ्चुकी तन्व्याः केवलमङ्गभारमधुना मन्ये परं भूषणम्॥ 63 ॥
अस्याश्चेदलकावली कृतमलिश्रेणीभिरेणीदृशः सौन्दर्यं यदि चक्षुषोस्तरलयोः किं मन्मथस्यायुधैः।
का प्रीतिः कनकारविन्दमुकुले पीनौ स्तनौ चेदतो मन्ये काचिदियं मनोभवकृता माया जगन्मोहिनी॥ 64 ॥
ऊर्ध्वं नीरदवृन्दमैन्दवमिदं बिम्बं त्वधो निर्मितं व्योम्नः पल्वलचित्रितस्य निहितौ शैलावुपर्युन्नतौ।
किं चाधः पुलिनोच्चयस्य कदलीकाण्डाववारोपितौ तन्मन्ये चतुरस्य पुष्पधनुषः सर्गोऽयमन्यादृशः॥ 65 ॥
भृङ्गालीमुदरे क्षिपन्ति शतशः पद्मानि शस्त्रीमिव प्रत्यागच्छति लङ्घनार्थमसकृद्व्योमाङ्गणं चन्द्रमाः।
वक्त्रेणापहृते कुरङ्गसुदृशस्त्रैलोक्यरूपोच्चये प्रत्यावर्तनवाञ्छयेव कति न क्लेशं समातन्वते॥ 66 ॥
वक्त्रं निर्मलमुन्नता कुचतटी मध्यप्रदेशः कृशः श्रोणीमण्डलमङ्गनाकुलगुरोर्देवस्य सिंहासनम्।
कृत्वा चारुदृशश्चतुष्टयमिदं तुष्टाव मन्ये विधिर्हर्षाद्गद्गदगद्यपद्यरचनागर्भैश्चतुर्भिर्मुखैः॥ 67 ॥
मध्यं विष्णुपदं कुचौ शिवपदं वक्त्रं विधातुः पदं धम्मिल्लः सुमनः- पदं प्रविलसत्काञ्ची नितम्बस्थली।
वाणी चेन्मधुराधरोऽरुणधरः श्रीरङ्गभूमिर्वपुस्तस्याः किं कथयामि पुण्यचरितं मान्या सदा निर्जरैः॥ 68 ॥
यत्तीर्थाम्बु मुखाम्बुजासवरसो नेत्रे नवेन्दीवरे दन्तश्रेणिरखण्डिताक्षतचयो दूर्वा च रोमावली।
उत्तुङ्गं च कुचद्वयं फलयुगं पात्रं कराम्भोरुहं तन्मन्ये मदनार्चनाहितमतिः स्वाङ्गोपहारैरियम्॥ 69 ॥
दीर्घाक्षं शरदिन्दुकान्ति वदनं बाहू नतावंसयोः सङ्क्षिप्तं निबिडोन्नतस्तनमुरः पार्श्वे प्रमृष्टे इव।
मध्यः पाणिमितो नितम्बि जघनं पादावुदग्राङ्गुली छन्दो नर्तयितुर्यथैव मनसः सृष्टं तथास्या वपुः॥ 70 ॥
नेत्रे खञ्जनगञ्जने सरसिजप्रत्यर्थि पाणिद्वयं वक्षोजौ करिकुम्भविभ्रमकरीमत्युन्नतिं गच्छतः।
कान्तिः काञ्चनचम्पकप्रतिनिधिर्वाणी सुधास्पर्धिनी स्मेरेन्दीवरदामसोदरवपुस्तस्याः कटाक्षच्छटाः॥ 71 ॥
दृष्टिः कापि सुरा सुधा स्मितमिदं वक्त्रं कलानां निधिर्वक्षः कुम्भि झषौ दृशौ विजयते धन्वन्तरिः सत्कृपा।
कान्तिः श्रीस्त्रिवलीतरङ्गलहरी नाभी गतावर्ततामेतस्यामचिरेण भाविकलने लावण्यवारांनिधौ॥ 72 ॥
किं तारुण्यतरोरियं रसभरोद्भिन्ना नवा वल्लरी वेलाप्रोच्छलितस्य किं लहरिका लावण्यवारांनिधेः।
उद्गाढोत्कलिकावतां स्वसमयोपन्यासविश्रम्भिणः किं साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिणः॥ 73 ॥
जानीमो वदनं सरोरुहदृशो निर्माय पश्यन्मुहुर्हृष्यन्कामकठोरपावकशिखासन्तापितः पद्मभूः।
रम्भामूरुतटीं स्तनं रसघटीं पीयूषवीचीं वचो बाहू बालबिसं करं किसलयं नाभीं सरो निर्ममे॥ 74 ॥
जानीमो वयमासनस्य कमले तस्या मुखेन्दोस्त्विषा सङ्कोचं समुपागते स भगवान्दुःस्थः सरोजासनः।
भुग्नं भ्रूलतिकायुगं विहितवान्वक्रे दृशौ सृष्टवान्मध्यं विस्मृतवान्कचांश्च कुटिलान्वामभ्रुवः सृष्टवान्॥ 75 ॥
मुक्ता विद्रुममन्तरा1 मधुरसः पुष्पं 2परं 3धूर्वहं 4प्रालेयद्युतिमण्डले खलु तयोरेकासिका5 नार्णवे।
तच्चोदञ्चति शङ्खमूर्ध्नि न पुनः पूर्वाचलाभ्यन्तरे तानीमानि विकल्पयन्ति त इमे येषां न सा दृक्पथे॥ 76 ॥
इन्दुर्लिप्त इवाञ्जनेन जडिता दृष्टिर्मृगीणामिव प्रम्लानारुणिमेव विद्रुमदलं श्यामेव हेमप्रभा।
कार्कश्यं कलया च कोकिलवधूकण्ठेष्विव प्रस्तुतं सुन्दर्याः पुरतश्च हन्त शिखिनां बर्हाः सगर्हा इव॥ 77 ॥