सुन्दरी सा भवत्येवं विवेकः केन जायते। प्रभामात्रं हि तरलं दृश्यते नात्र संशयः॥ 431 ॥ अवयवेषु परस्परबिम्बितेष्वतुलकान्तिषु राजति तत्तनोः। अयमयं प्रविभाग इति स्फुटं जगति निश्चिनुते चतुरोऽपि कः॥ 432 ॥