चक्रीकृतभुजलतिकं वक्रीकृतवक्त्रमुन्नमद्ग्रीवम्।
नो हरति कस्य हृदयं हरिणदृशो जृम्भणारम्भः॥ 426 ॥
आस्येन्दोः परिवेषवद्रतिपतेश्चाम्पेयकोदण्डवद्धम्मिल्लाम्बुमुचः क्षणद्युतिवदासज्जौ क्षिपन्ती भुजौ।
विश्लिष्यद्वलि लक्ष्यनाभि विगलन्नीव्युन्नमन्मध्यमं किञ्चित्किंचिदुदञ्चदञ्चलमहो कुम्भस्तनी जृम्भते॥ 427 ॥