सलीलमियमायाति कामिनी गजगामिनी।
उन्नतं हि नखज्योतिः पुष्पैर्भुवमिवार्चती॥ 422 ॥
मारयन्त्या जनं सर्वं निरागसमिवाज्ञया।
मातङ्गानां गतिर्यादृक्तादृगासीदसंशयम्॥ 423 ॥
सा राजहंसैरिव सन्नताङ्गी गतेषु लीलाञ्चितविक्रमेषु।
व्यनीयत प्रत्युपदेशलुब्धैरादित्सुभिर्नूपुरसिञ्जितानि॥ 424 ॥
गुरुतरकलनूपुरानुनादं सललितनार्तितवामपादपद्मा।
इतरदनतिलोलमादधाना पदमथ मन्मथमन्थरं जगाम॥ 425 ॥