३० चरणौ

अमूल्यस्य मम 1स्वर्णतुलाकोटिद्वयं कियत्।
इति कोपादिवाताम्रं पादयुग्मं मृगीदृशः॥ 403 ॥

जाग्रतः कमलाल्लक्ष्मीं यज्जग्राह तदद्भुतम्।
पादद्वन्द्वस्य मत्तेभगतिस्तेये तु का स्तुतिः॥ 404 ॥
स्तनभारोऽत्र वक्त्रेन्दुचन्द्रिकावरणं मम।
इति तत्पादयोर्लग्ना वेद्मि प्राङ्गणपद्मिनी॥ 405 ॥
अत्यपूर्वस्य रागस्य पूर्वपक्षाय पल्लवाः।
पद्मानि पादयुग्मस्य प्रत्युदाहरणानि च॥ 406 ॥
दृश्यन्ते मानसोत्तंसा राजहंसाः क्वचिद्यदि।
गतौ चरणयोस्तस्याः प्रक्ष्यते यावदन्तरम्॥ 407 ॥
नितम्बपीड्यमानेन पादयुग्मेन सुभ्रुवः।
कृता भ्रुकुटिभङ्गीव नीलनूपुरमालया॥ 408 ॥
चरणकमलं तदीयं लाक्षाबालातपेन संवलितम्।
अध्यास्त भृङ्गमालावलिभिर्मणिखचितनूपुरव्याजात्॥ 409 ॥
अननुरणन्मणिमेखलमविरलसिञ्जानमञ्जुमञ्जीरम्।
परिसरणमरुणचरणे रणरणकमकारणं कुरुते॥ 410 ॥
दशकैरवबान्धवान्दधानौ जडसंसर्गविमुक्तिसावधानौ।
चरणौ नलिनेन तोलयन्तः कथमस्याः कवयो न यान्ति लज्जाम्॥ 411 ॥
अभ्युन्नताङ्गुष्ठनखप्रभाभिर्निक्षेपणाद्रागमिवोद्गिरन्तौ।
आजह्रतुस्तच्चरणौ पृथिव्यां स्थलारविन्दश्रियमव्यवस्थाम्॥ 412 ॥
अस्याः पदौ चारुतया महान्तावपेक्ष्य सौक्ष्म्याल्लवभावभाजः।
जाता प्रवालस्य महीरुहाणां जानीमहे पल्लवशब्दलब्धि-॥ 413 ॥
जगद्वधूमूर्धसु रूपदर्पाद्यदेतयाधायि पदारविन्दम्।
तत्सान्द्रसिन्दूरपरागरागैर्द्वयं प्रवालप्रबलारुणं तत्॥ 414 ॥
यानेन तन्व्या जितदन्तिनाथौ पदाब्जराजौ परिशुद्धपार्ष्णी।
जाने न शुश्रूषयितुं स्वमिच्छू नतेन मूर्ध्ना कतरस्य राज्ञः॥ 415 ॥
प्रियासखीभूतवतो मुदेदं व्यधाद्विधिः साधुदशत्वमिन्दोः।
एतत्पदच्छद्मसरागपद्मसौभाग्यभाग्यं कथमन्यथा स्यात्॥ 416 ॥


  1. सुवर्णस्य विंशतिपलात्मकस्य तुलाकोटिद्वयम्. [पक्षे] षादाङ्गदद्वयम्. ↩︎