२९ जङ्घे

जङ्घे तदीये सन्तापं यज्जनस्यानुरागिणः।
जनयांचक्रतुस्तीव्रं तत्र हेतुर्विलोमता॥ 399 ॥
हेममञ्जीरमालाभ्यां भाति जङ्गालताद्वयम्।
लावण्यशाखिनः स्थानं कुङ्कुमेनेव वेष्टितम्॥ 400 ॥
वृत्तानुपूर्वे च न चातिदीर्घे जङ्घे शुभे सृष्टवतस्तदीये।
शेषाङ्गनिर्माणविधौ विधातुर्लावण्य उत्पाद्य इवास यत्नः॥ 401 ॥
क्रमोद्गता पीवरताधिजङ्घं वृक्षाधिरूढं विदुषी किमस्याः।
अपि भ्रमीभङ्गिभिरावृताङ्गं वासो लतोवेष्टितकप्रवीणम्॥ 402 ॥