२८ ऊरू

मन्ये तदूरू सम्भाव्य हस्तसर्वस्वहारिणौ।
वहन्त्यस्पृश्यताहेतोर्मातङ्गत्वं मतङ्गजाः॥ 388 ॥
लम्भिताः कदलीस्तम्भास्तदूरुभ्यां पराभवम्।
अत्यन्तमृदुभिर्लब्धो जडैः क्व जयडिण्डिमः॥ 389 ॥
ऊरुः कुरङ्गकदृशश्चञ्चलचेलाञ्चलो भाति।
सपताकः कनकमयो विजयस्तम्भः स्मरस्येव॥ 390 ॥
तरुमूरुयुगेण सुन्दरी किमु रम्भां परिणाहिना परम्।
तरुणीमपि जिष्णुरेव तां धनदापत्यतपःफलस्तनीम्॥ 391 ॥
रम्भापि किं चिह्नयति प्रकाण्डं न चात्मनः स्वेन न चैतदूरू।
स्वस्यैव येनोपरि सा ददाना पत्त्राणि जागर्त्यनयोर्भ्रमेण॥ 392 ॥
विधाय मूर्धानमधश्चरं चेन्मुञ्चेत्तपोभिः स्वमसारभावम्।
जाड्यंच नाञ्चेत्कदली बलीयस्तदा यदि स्यादिदमूरुचारुः॥ 393 ॥
ऊरुप्रकाण्डद्वितयेन तस्याः करः पराजीयत वारणीयः।
युक्तं ह्रिया कुण्डलनच्छलेन गोपायति स्वं मुखपुष्करं सः॥ 394 ॥
अस्यां मुनीनामपि मोदमूहे भृगुर्महान्यत्कुचशैलशीली।
नानारदाह्लादि मुखं श्रितोरुर्व्यासो महाभारतसर्गयोग्यः॥ 395 ॥
पश्यन्हतो मन्मथबाणपातैः शक्तो विधातुं न निमील्य चक्षुः।
ऊरू विधात्रा हि कथं कृतौ तौ विन्यासवत्याः सुमतेर्वितर्कः॥ 396 ॥
नागेन्द्र1स्तास्त्वचि कर्कशत्वादेका2न्तशैत्यात्कदलीविशेषाः।
लब्ध्वापि लोके परिणाहि रूपं जातास्तदूर्वोरुपमानबाह्याः॥ 397 ॥

कदली कदली करभः करभः करिराजकरः करिराजकरः।
भुवनत्रितयेऽपि बिभर्ति तुलामिदमूरुयुगं न चमूरुदृशः॥ 398 ॥


  1. शुण्डाः. ↩︎

  2. नियमेन. ↩︎