अङ्गेन केनापि विजेतुमस्या गवेष्यते किं जलपत्त्रपत्त्रम्। न चेद्विशेषादितरच्छदेभ्यस्तस्यास्तु कम्पस्तु कुतो भयेन॥ 386 ॥ गौरमुग्धवनितावराङ्गके रेजुरुत्थिततनूरुहाकुराः। तर्पणाय मदनस्य वेधसा स्वर्णशुक्तिनिहितास्तिला इव॥ 387 ॥