तस्याः पद्मपलाशाक्ष्यास्तन्व्यास्तज्जघनं घनम्।
दृष्टं सखीभिर्याभिस्ताः पुंभावं मनसा ययुः॥ 382 ॥
अनङ्गरङ्गपीठोऽस्याः शृङ्गारस्वर्णविष्टरः।
लावण्यसारसङ्घातः सा घना जघनस्थली॥ 383 ॥
तदीयजघनाभोगगरिमा विस्मयास्पदम्।
दूरपाती पृषत्कोऽभूद्येनानङ्गस्य साङ्गना॥ 384 ॥
वपुरनुपमं नाभेरूर्ध्वं विधाय मृगीदृशां 1ललितललितैरङ्गन्यासैः पुरा रभसादिव।
तदनु सहसा खिन्नेनेव2 प्रजापतिना भृशं पृथुलपृथुला स्थूलस्थूला कृता जघनस्थली॥ 385 ॥