तन्नितम्बस्य निन्दन्ति वृद्धिं परिजनाङ्गनाः।
काञ्चीनवनवग्रन्थिग्रथनेन कदर्थिताः॥ 371 ॥
नितम्बबिम्बं बिम्बोष्ठी चन्द्रकान्तशिलाघनम्।
धत्ते कन्दर्पदोःस्तम्भप्रशस्तिफलकोपमम्॥ 372 ॥
विस्तारिणा मुहुस्तस्याः श्रोणीबिम्बेन पीडिता।
त्रुटिता त्रुटितास्मीति पूत्करोतीव मेखला॥ 373 ॥
अपर्याप्तभुजायामः सखेदोऽस्याः सखीजनः।
श्रोण्यां कथञ्चित्कुरुते रशनादामबन्धनम्॥ 374 ॥
नितम्बगौरवेणासौ गौराङ्गी खिद्यते दृढम्।
हारयत्यपरिस्पन्दा कन्दुकं क्रीडितेषु यत्॥ 375 ॥
स कथं न स्पृहणीयो विषयरतैस्तन्नितम्बविन्यासः।
1शान्तात्मनापि विहितं विश्व2सृजा गौरवं यत्र॥ 376 ॥
पृथुवर्तुलतन्नितम्बकृन्मिहिरस्यन्दनशिल्पशिक्षया।
विधिरेककचक्रचारिणं किमु निर्भिर्त्सति मान्मथं रथम्॥ 377 ॥
चक्रेण विश्वं युधि मत्स्यकेतुः पितुर्जितं वीक्ष्य सुदर्शनेन।
जगज्जिगीषत्यमुना नितम्बद्वयेन किं दुर्लभदर्शनेन॥ 378 ॥
रोमावलीदण्डनितम्बचक्रे गुणं च लावण्यजलं च बाला।
तारुण्यमूर्तेः कुचकुम्भकर्तुर्बिभर्ति शङ्के सहकारिचक्रम्॥ 379 ॥