नाभिरन्ध्रं प्रविष्टास्याः श्यामला रोमवल्लरी।
त्रस्ता तिमिरलेखेन मेखलामणिकान्तितः॥ 339 ॥
भाति रोमावली तस्याः पयोधरभरोन्नतौ।
जाता रत्नशलाकेव श्रोणिवैढूर्यभूमितः॥ 340 ॥
नाभिसङ्गेन गौराङ्ग्याः शोभते रोममञ्जरी।
कन्दर्पहेमकटकाल्लाक्षाधारेव निर्गता॥ 341 ॥
नाभीवलयसम्बद्धा रोमाली भाति सुभ्रुवः।
सहिता निगडेनेव शृङ्खला स्मरदन्तिनः॥ 342 ॥
रोमावली विलासिन्याः प्रविष्टा नाभिमण्डलम्।
कियद्गाम्भीर्यमत्रेति तात्पर्यमिव बिभ्रती॥ 343 ॥
लिखन्त्याः कामसाम्राज्यशासनं यौवनश्रियः।
गलितेव मषीधारा रोमाली नाभिगोलकात्॥ 344 ॥
जाने रात्रिषु तन्मध्ये ददाति शनकैः पदम्।
गम्भीरनाभिकुहरप्रवेशाशङ्कया स्मरः॥ 345 ॥
कुचदुर्गराजधान्योर्मध्येमार्गं मृगीदृशो मदनः।
किमकृत नाभीवापीमपि रोमालीतमालवनरेखाम्॥ 346 ॥
वयसी शिशुतातदुत्तरे सुदृशि स्वाभिविधिं विधित्सुनी।
विधिनापि न रोमरेखया कृतसीम्नि प्रविभज्य रज्यतः॥ 347 ॥
तस्याः प्रविष्टा नतनाभिरन्ध्रं रराज तन्वी नवरोमराजिः।
नीवीमतिक्रम्य सितेतरस्य तन्मेखलामध्यमणेरिवार्चिः॥ 348 ॥
गौरीव पत्या सुभगा कदाचित्कर्त्रीयमप्यर्धतनूसमस्याम्।
इतीव मध्ये निदधे विधाता रोमावलीमेचकसूत्रमस्याः॥ 349 ॥
रोमावलीरज्जुमुरोजकुम्भौ गम्भीरमासाद्य च नाभिकूपम्।
मद्दृष्टितृष्णा विरमेद्यदि स्यान्नैषां बतैषा सिचयेन गुप्तिः॥ 350 ॥
उन्मूलितालानविलाभनाभिश्छिन्नस्खलच्छृङ्खलरोमदामा।
मत्तस्य सेयं मदनद्विपस्य प्रस्वापवप्रोच्चकुचास्तु वास्तु॥ 351 ॥
रोमावलिभ्रूकुसुमैः स्वमौर्वी चापेषुभिर्मध्यललाटमूर्ध्नि।
व्यस्तैरपि स्थास्नुभिरेतदीयैर्जैत्रः स चित्रं रतिजानिवीरः॥ 352 ॥
गम्भीरनाभिह्रदसंनिवेशे रराज तन्वी नवरोमराजिः।
मुखेन्दुभीतस्तनचक्रवाकद्वन्द्वोज्झिता शैवलमञ्जरीव॥ 353 ॥
स्वर्णावदातद्युतिकायकाण्डे सम्पूर्णपीयूषमयूखमुख्यः।
एणीदृशः पृष्ठविलम्बिवेणीबिम्बः पुरो राजति रोमराजी॥ 354 ॥
पयोधरस्तावदयं समुन्नतो रसस्य वृष्टिः सविधे भविष्यति।
अतः समुद्गच्छति नाभिरन्ध्रतो विसारि रोमा1लिपिपीलिकावलिः॥ 355 ॥
गभीरनाभीह्रदपर्श्ववर्तिनी विराजते लोमतती मृगीदृशः।
मुखारविन्दस्य रसाभिलाषिणी द्विरेफपङ्क्तिश्चलितेव नीरवा॥ 356 ॥
समुदितकुचकुम्भमङ्गनाया हृदयमनङ्गमतङ्गजोऽधिशेते।
यदखिलपदबन्धनाय रोमावलिरिह शृङ्खलिका विलोक्यते यत्॥ 357 ॥
दत्तं मया पदमिदं नवयौवनाय त्वं सत्वरं क्वचन शैशव साधयेति।
कामस्य हस्तलिखिताक्षरमालिकेव रोमावली विजयते जलजेक्षणायाः॥ 358 ॥
नाभीबिलान्तरविनिर्गतपन्नगीयं सम्प्रस्थिता नयनखञ्जनभक्षणाय।
नासामुदीक्ष्य गरुडभ्रममुद्वहन्ती गुप्तेव पीनकुचपर्वतयोरधस्तात्॥ 359 ॥
अतिबहुतरलज्जाशृङ्खलाबद्धपादो मदननृपतिवाहो यौवनोन्मत्तहस्ती।
प्रकटितकुचकुम्भो लोमराजीकरेण पिबति सरसि नाभीमण्डलाख्ये पयांसि॥ 360 ॥
रचयति युवनेत्रक्षेत्रपीयूषवृष्टिं नवजलधररेखा रोमराजिच्छलेन।
यदुदयति कलापिप्रक्रियेयं तदुच्चैः स्तनघनसमयोऽस्यामाविरस्तीति विद्मः॥ 361 ॥
अमुष्मिल्लावण्यामृतसरसि नूनं मृगदृशः स्मरः शर्वप्लुष्टः पृथुजघनभागे निपतितः।
यदङ्गाङ्गाराणां प्रशमपिशुना नाभिकुहरे शिखा धूमस्येयं परिणमति रोमाववलिमिषात्॥ 362 ॥
इयं सृष्टा चञ्चत्कनकलतिक्रा पङ्कजभुवा निषक्ता लावण्यामृतरसभरेणानुदिवसम्।
अकस्माद्रोमालीमधुपपटलीह स्फुरति यत्ततः शङ्के पुष्पोद्गमसमयमायातमधुना॥ 363 ॥
हरक्रोधज्वालावलिभिरवलीढेन वपुषा गभीरे ते नाभीसरसि कृतझम्पो मनसिजः।
समुत्तस्थौ तस्मादचलतनये धूमलतिका जनस्तां जानीते तव जननि रोमावलिरिति॥ 364 ॥
निर्णेतव्यो मनसिजकलातन्त्रसिद्धान्तसारो जेतव्या च त्रिदशसुदृशामङ्गलावण्यलक्ष्मीः।
रोमश्रेणीलिखनसुभगं पत्त्रमादर्शयन्ती पत्रालम्बं जगति कुरुते सुभ्रुवो यौवनश्रीः॥ 365 ॥
अत्तुङ्गस्तनपर्वतादवतरद्गङ्गेव हारावली रोमाली नवनीलनीरजरुचिः सेयं 1कलिन्दात्मजा।
जातं तीर्थमिदं सुपुण्यजनकं यत्रानयोः सङ्गमश्चन्द्रो मज्जति लाञ्छनापहृतये नूनं 2नखाङ्कच्छलात्॥ 366 ॥
उत्तुङ्गस्तनभार एष तरले नेत्रे चले भ्रूलते रागान्धेषु तदोष्ठपल्लवमिदं कुर्वन्तु नाम व्यथाम्।
सौभाग्याक्षरपङ्क्तिरेव लिखिता पुष्पायुधेन स्वयं मध्यस्थापि करोति तापमधिकं रोमावली केन सा॥ 367 ॥
यूनां धैर्यतृणाङ्कुरं कवलयन्व्रीडाम्बुपूरं पिबञ्शृङ्गारो हरिणस्तव स्तनगिरेः सीमानमारोहति।
नाभेः काचन तस्य निःसृतवती कस्तूरिकामालिका रोमश्रेणिमहोत्सवं वितनुते कल्याणि जानीमहे॥ 368 ॥
सौन्दर्यस्य मनोभवेन गणनारेखा किमेषा कृता लावण्यस्य विलोकितुं त्रिजगतामेषा किमुद्ग्रीविका।
आनन्दद्रुमकन्दली नयनयोः किंवा समुज्जृम्भते सुन्दर्याः किमु वा स्वभावसुभगा रोमालिरुन्मीलति॥ 369 ॥