२२ वलित्रयम्

एकमेव 1बलिं बद्ध्वा जगाम हरिरुन्नतिम्।
तन्व्यास्त्रिवलिबन्धेऽपि सैव मध्यस्य नम्रता॥ 328 ॥

स्तनभाराय मध्येन त्रिवलिव्याजतः कृता।
तस्याः शङ्कितभङ्गेन भ्रूभङ्गानामिवावलिः॥ 329 ॥
तदीयत्रिवलीमार्गसोपानारोहणश्रमः।
अनङ्गत्वादनङ्गस्य जातो रत्येकगोचरः॥ 330 ॥
परिहृत्य दुरारोहं तस्याः स्तनतटं कुता।
कंदर्परथसंचारमार्गालीव वलित्रयी॥ 331 ॥
दरिद्रमुदरं दृष्ट्वा चक्रे लावण्यपूर्णयोः।
पन्थानं स्तनयोस्तस्यास्त्रिवलीविषमं विधिः॥ 332 ॥
राजति त्रिवली तस्याः स्तनभारोन्नतिक्रमात्।
उपर्युपरि जातेव हारमुद्रापरम्परा॥ 333 ॥
मध्यत्रिवलीत्रिपथे पीवरकुचचत्वरे च चपलदृशाम्।
छलयति मदनपिशाचः पुरुषं हि मनागपि स्खलितम्॥ 334 ॥
मध्येन सा वेदिविलग्नमध्या वलित्रयं चारु बभार बाला।
आरोहणार्थं नवयौवनेन कामस्य सोपानमिव प्रयुक्तम्॥ 335 ॥
अनन्यसाधारणकान्तिकान्ततनोरमुष्याः किमु मध्यदेशः।
जगत्त्रयीजन्मभृतां निषण्णा चित्तावलीयं त्रिवलीमिषेण॥ 336 ॥
मध्यात्समानीय सुसारभागं वक्षोजमुत्पादयिता विधाता।
अतिप्रयत्नात्त्रिवलीमिषेण सोपानवर्त्मत्रितयं चकार॥ 337 ॥
मत्वा चापं शशिमुखि निजं मुष्टिना पुष्पधन्वा तन्वीमेनां तव तनुलतां मध्यदेशे बभार।
यस्मादत्र त्रिभुवनवशीकारमुद्रानुकारास्तिस्रो भान्ति त्रिवलिकपटादङ्गुलीसन्धिरेखाः॥ 338 ॥


  1. बलिनामानं दैत्यम्; [पक्षे] वलिम्. ↩︎