२१ नाभिः

मन्ये समाप्तलावण्यसारे सर्गे मृगीदृशः।
अपूरयित्वेव गतो नाभिरन्ध्रं चतुर्मुखः॥ 324 ॥
कुचकुम्भौ समालम्ब्य तरन्ती कान्तिनिम्नगाम्।
भ्रमादितस्ततो दृष्ट्वा दृष्टिर्नाभौ निमज्जति॥ 325 ॥
स्तनौ तुङ्गौ समारूढे चापन्यस्तभरे स्मरे।
कोदण्डाटनिमुद्रेव जाता नाभी न तद्भ्रुवः॥ 326 ॥
उरोजवच्चक्रमनोज्ञरूपा केशावलीव भ्रमराजिता वा।
सङ्गीतवत्सत्पुटभेदहृद्या विद्येत नाभीसरसी मृगाक्ष्याः॥ 327 ॥